Sūkta 47
- Devatā देवता
- 1: Vāyu; 2-4: Indra, Vāyu
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (1, 3); bhuriguṣṇik (2); nicṛdanuṣṭup (4)
2nd set of styles anuṣṭubh
-
Ṛk 1
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।
आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु |
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ||vā́yo śukró ayāmi te mádhvo ágram díviṣṭiṣu ǀ
ā́ yāhi sómapītaye spārhó deva niyútvatā ǁvāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu |
ā yāhi somapītaye spārho deva niyutvatā ||वायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु ।
आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥वायो इति । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु ।
आ । याहि । सोमऽपीतये । स्पार्हः । देव । नियुत्वता ॥vā́yo íti ǀ śukráḥ ǀ ayāmi ǀ te ǀ mádhvaḥ ǀ ágram ǀ díviṣṭiṣu ǀ
ā́ ǀ yāhi ǀ sóma-pītaye ǀ spārháḥ ǀ deva ǀ niyútvatā ǁvāyo iti ǀ śukraḥ ǀ ayāmi ǀ te ǀ madhvaḥ ǀ agram ǀ diviṣṭiṣu ǀ
ā ǀ yāhi ǀ soma-pītaye ǀ spārhaḥ ǀ deva ǀ niyutvatā ǁ4.47.1 Aṣṭaka 3.7.23.1Anuvāka 4.5.8
-
Ṛk 2
इंद्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।
यु॒वां हि यंतींद॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः |
युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् ||índraśca vāyaveṣām sómānām pītímarhathaḥ ǀ
yuvā́m hí yántī́ndavo nimnámā́po ná sadhryák ǁindraś ca vāyav eṣāṃ somānām pītim arhathaḥ |
yuvāṃ hi yantīndavo nimnam āpo na sadhryak ||इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ ।
यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥इन्द्रः । च । वायो इति । एषाम् । सोमानाम् । पीतिम् । अर्हथः ।
युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् ॥índraḥ ǀ ca ǀ vāyo íti ǀ eṣām ǀ sómānām ǀ pītím ǀ arhathaḥ ǀ
yuvā́m ǀ hí ǀ yánti ǀ índavaḥ ǀ nimnám ǀ ā́paḥ ǀ ná ǀ sadhryák ǁindraḥ ǀ ca ǀ vāyo iti ǀ eṣām ǀ somānām ǀ pītim ǀ arhathaḥ ǀ
yuvām ǀ hi ǀ yanti ǀ indavaḥ ǀ nimnam ǀ āpaḥ ǀ na ǀ sadhryak ǁ4.47.2 Aṣṭaka 3.7.23.2Anuvāka 4.5.9
-
Ṛk 3
वाय॒विंद्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।
नि॒युत्वं॑ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती |
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ||vā́yavíndraśca śuṣmíṇā sarátham śavasaspatī ǀ
niyútvantā na ūtáya ā́ yātam sómapītaye ǁvāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī |
niyutvantā na ūtaya ā yātaṃ somapītaye ||वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ ।
नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् । सोम॑ऽपीतये ॥वायो इति । इन्द्रः । च । शुष्मिणा । सऽरथम् । शवसः । पती इति ।
नियुत्वन्ता । नः । ऊतये । आ । यातम् । सोमऽपीतये ॥vā́yo íti ǀ índraḥ ǀ ca ǀ śuṣmíṇā ǀ sa-rátham ǀ śavasaḥ ǀ patī íti ǀ
niyútvantā ǀ naḥ ǀ ūtáye ǀ ā́ ǀ yātam ǀ sóma-pītaye ǁvāyo iti ǀ indraḥ ǀ ca ǀ śuṣmiṇā ǀ sa-ratham ǀ śavasaḥ ǀ patī iti ǀ
niyutvantā ǀ naḥ ǀ ūtaye ǀ ā ǀ yātam ǀ soma-pītaye ǁ4.47.3 Aṣṭaka 3.7.23.3Anuvāka 4.5.10
-
Ṛk 4
या वां॒ संति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
अ॒स्मे ता य॑ज्ञवाह॒सेंद्र॑वायू॒ नि य॑च्छतं ॥या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा |
अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ||yā́ vām sánti puruspṛ́ho niyúto dāśúṣe narā ǀ
asmé tā́ yajñavāhaséndravāyū ní yacchatam ǁyā vāṃ santi puruspṛho niyuto dāśuṣe narā |
asme tā yajñavāhasendravāyū ni yacchatam ||याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।
अ॒स्मे इति॑ । ताः । य॒ज्ञ॒ऽवा॒ह॒सा॒ । इन्द्र॑वायू॒ इति॑ । नि । य॒च्छ॒त॒म् ॥याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।
अस्मे इति । ताः । यज्ञऽवाहसा । इन्द्रवायू इति । नि । यच्छतम् ॥yā́ḥ ǀ vām ǀ sánti ǀ puru-spṛ́haḥ ǀ ni-yútaḥ ǀ dāśúṣe ǀ narā ǀ
asmé íti ǀ tā́ḥ ǀ yajña-vāhasā ǀ índravāyū íti ǀ ní ǀ yacchatam ǁyāḥ ǀ vām ǀ santi ǀ puru-spṛhaḥ ǀ ni-yutaḥ ǀ dāśuṣe ǀ narā ǀ
asme iti ǀ tāḥ ǀ yajña-vāhasā ǀ indravāyū iti ǀ ni ǀ yacchatam ǁ4.47.4 Aṣṭaka 3.7.23.4Anuvāka 4.5.11
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.