Ṛgveda · Maṇḍala 4

Sūkta 38

Divaḥ, Pṛthivī · Dadhikrā · Vāmadeva Gautama · 10 ṛks

Link
Devatā देवता
1: Divaḥ, Pṛthivī; 2-10: Dadhikrā
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (5, 8-10); virāṭpaṅkti (1, 4); triṣṭup (2, 3); bhurikpaṅkti (6); virāṭtrisṭup (7)

2nd set of styles triṣṭubh

  1. Ṛk 1

    उ॒तो हि वां॑ दा॒त्रा संति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।
    क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रं ॥

    उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे |
    क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् ||

    utó hí vām dātrā́ sánti pū́rvā yā́ pūrúbhyastrasádasyurnitośé ǀ
    kṣetrāsā́m dadathururvarāsā́m ghanám dásyubhyo abhíbhūtimugrám ǁ

    uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe |
    kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram ||

    उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे ।
    क्षे॒त्र॒ऽसाम् । द॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥

    उतो इति । हि । वाम् । दात्रा । सन्ति । पूर्वा । या । पूरुऽभ्यः । त्रसदस्युः । निऽतोशे ।
    क्षेत्रऽसाम् । ददथुः । उर्वराऽसाम् । घनम् । दस्युऽभ्यः । अभिऽभूतिम् । उग्रम् ॥

    utó íti ǀ hí ǀ vām ǀ dātrā́ ǀ sánti ǀ pū́rvā ǀ yā́ ǀ pūrú-bhyaḥ ǀ trasádasyuḥ ǀ ni-tośé ǀ
    kṣetra-sā́m ǀ dadathuḥ ǀ urvarā-sā́m ǀ ghanám ǀ dásyu-bhyaḥ ǀ abhí-bhūtim ǀ ugrám ǁ

    uto iti ǀ hi ǀ vām ǀ dātrā ǀ santi ǀ pūrvā ǀ yā ǀ pūru-bhyaḥ ǀ trasadasyuḥ ǀ ni-tośe ǀ
    kṣetra-sām ǀ dadathuḥ ǀ urvarā-sām ǀ ghanam ǀ dasyu-bhyaḥ ǀ abhi-bhūtim ǀ ugram ǁ

    4.38.1 Aṣṭaka 3.7.11.1Anuvāka 4.4.49

  2. Ṛk 2

    उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिं ।
    ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूरं॑ ॥

    उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् |
    ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् ||

    utá vājínam puruniṣṣídhvānam dadhikrā́mu dadathurviśvákṛṣṭim ǀ
    ṛjipyám śyenám pruṣitápsumāśúm carkṛ́tyamaryó nṛpátim ná śū́ram ǁ

    uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim |
    ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram ||

    उ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊं॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् ।
    ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥

    उत । वाजिनम् । पुरुनिःऽसिध्वानम् । दधिऽक्राम् । ऊं इति । ददथुः । विश्वऽकृष्टिम् ।
    ऋजिप्यम् । श्येनम् । प्रुषितऽप्सुम् । आशुम् । चर्कृत्यम् । अर्यः । नृऽपतिम् । न । शूरम् ॥

    utá ǀ vājínam ǀ puruniḥ-sídhvānam ǀ dadhi-krā́m ǀ ūṃ íti ǀ dadathuḥ ǀ viśvá-kṛṣṭim ǀ
    ṛjipyám ǀ śyenám ǀ pruṣitá-psum ǀ āśúm ǀ carkṛ́tyam ǀ aryáḥ ǀ nṛ-pátim ǀ ná ǀ śū́ram ǁ

    uta ǀ vājinam ǀ puruniḥ-sidhvānam ǀ dadhi-krām ǀ ūṃ iti ǀ dadathuḥ ǀ viśva-kṛṣṭim ǀ
    ṛjipyam ǀ śyenam ǀ pruṣita-psum ǀ āśum ǀ carkṛtyam ǀ aryaḥ ǀ nṛ-patim ǀ na ǀ śūram ǁ

    4.38.2 Aṣṭaka 3.7.11.2Anuvāka 4.4.50

  3. Ṛk 3

    यं सी॒मनु॑ प्र॒वते॑व॒ द्रवं॑तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः ।
    प॒ड्भिर्गृध्यं॑तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रजं॑तं ॥

    यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः |
    पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् ||

    yám sīmánu praváteva drávantam víśvaḥ pūrúrmádati hárṣamāṇaḥ ǀ
    paḍbhírgṛ́dhyantam medhayúm ná śū́ram rathatúram vā́tamiva dhrájantam ǁ

    yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ |
    paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam ||

    यम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः ।
    प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥

    यम् । सीम् । अनु । प्रवताऽइव । द्रवन्तम् । विश्वः । पूरुः । मदति । हर्षमाणः ।
    पट्ऽभिः । गृध्यन्तम् । मेधऽयुम् । न । शूरम् । रथऽतुरम् । वातम्ऽइव । ध्रजन्तम् ॥

    yám ǀ sīm ǀ ánu ǀ pravátā-iva ǀ drávantam ǀ víśvaḥ ǀ pūrúḥ ǀ mádati ǀ hárṣamāṇaḥ ǀ
    paṭ-bhíḥ ǀ gṛ́dhyantam ǀ medha-yúm ǀ ná ǀ śū́ram ǀ ratha-túram ǀ vā́tam-iva ǀ dhrájantam ǁ

    yam ǀ sīm ǀ anu ǀ pravatā-iva ǀ dravantam ǀ viśvaḥ ǀ pūruḥ ǀ madati ǀ harṣamāṇaḥ ǀ
    paṭ-bhiḥ ǀ gṛdhyantam ǀ medha-yum ǀ na ǀ śūram ǀ ratha-turam ǀ vātam-iva ǀ dhrajantam ǁ

    4.38.3 Aṣṭaka 3.7.11.3Anuvāka 4.4.51

  4. Ṛk 4

    यः स्मा॑रुंधा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् ।
    आ॒विर्ऋ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥

    यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् |
    आविरृजीको विदथा निचिक्यत् तिरो अरतिम् पर्य् आप आयोः ||

    yáḥ smārundhānó gádhyā samátsu sánutaraścárati góṣu gácchan ǀ
    āvírṛjīko vidáthā nicíkyattiró aratím páryā́pa āyóḥ ǁ

    yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan |
    āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ ||

    यः । स्म॒ । आ॒ऽरु॒न्धा॒नः । गध्या॑ । स॒मत्ऽसु॑ । सनु॑ऽतरः । चर॑ति । गोषु॑ । गच्छ॑न् ।
    आ॒विःऽऋ॑जीकः । वि॒दथा॑ । नि॒ऽचिक्य॑त् । ति॒रः । अ॒र॒तिम् । परि॑ । आपः॑ । आ॒योः ॥

    यः । स्म । आऽरुन्धानः । गध्या । समत्ऽसु । सनुऽतरः । चरति । गोषु । गच्छन् ।
    आविःऽऋजीकः । विदथा । निऽचिक्यत् । तिरः । अरतिम् । परि । आपः । आयोः ॥

    yáḥ ǀ sma ǀ ā-rundhānáḥ ǀ gádhyā ǀ samát-su ǀ sánu-taraḥ ǀ cárati ǀ góṣu ǀ gácchan ǀ
    āvíḥ-ṛjīkaḥ ǀ vidáthā ǀ ni-cíkyat ǀ tiráḥ ǀ aratím ǀ pári ǀ ā́paḥ ǀ āyóḥ ǁ

    yaḥ ǀ sma ǀ ā-rundhānaḥ ǀ gadhyā ǀ samat-su ǀ sanu-taraḥ ǀ carati ǀ goṣu ǀ gacchan ǀ
    āviḥ-ṛjīkaḥ ǀ vidathā ǀ ni-cikyat ǀ tiraḥ ǀ aratim ǀ pari ǀ āpaḥ ǀ āyoḥ ǁ

    4.38.4 Aṣṭaka 3.7.11.4Anuvāka 4.4.52

  5. Ṛk 5

    उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशंति क्षि॒तयो॒ भरे॑षु ।
    नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थं ॥

    उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु |
    नीचायमानं जसुरिं न श्येनं श्रवश् चाच्छा पशुमच् च यूथम् ||

    utá smainam vastramáthim ná tāyúmánu krośanti kṣitáyo bháreṣu ǀ
    nīcā́yamānam jásurim ná śyenám śrávaścā́cchā paśumácca yūthám ǁ

    uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu |
    nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham ||

    उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒ऽमथि॑म् । न । ता॒युम् । अनु॑ । क्रो॒श॒न्ति॒ । क्षि॒तयः॑ । भरे॑षु ।
    नी॒चा । अय॑मानम् । जसु॑रिम् । न । श्ये॒नम् । श्रवः॑ । च॒ । अच्छ॑ । प॒शु॒ऽमत् । च॒ । यू॒थम् ॥

    उत । स्म । एनम् । वस्त्रऽमथिम् । न । तायुम् । अनु । क्रोशन्ति । क्षितयः । भरेषु ।
    नीचा । अयमानम् । जसुरिम् । न । श्येनम् । श्रवः । च । अच्छ । पशुऽमत् । च । यूथम् ॥

    utá ǀ sma ǀ enam ǀ vastra-máthim ǀ ná ǀ tāyúm ǀ ánu ǀ krośanti ǀ kṣitáyaḥ ǀ bháreṣu ǀ
    nīcā́ ǀ áyamānam ǀ jásurim ǀ ná ǀ śyenám ǀ śrávaḥ ǀ ca ǀ áccha ǀ paśu-mát ǀ ca ǀ yūthám ǁ

    uta ǀ sma ǀ enam ǀ vastra-mathim ǀ na ǀ tāyum ǀ anu ǀ krośanti ǀ kṣitayaḥ ǀ bhareṣu ǀ
    nīcā ǀ ayamānam ǀ jasurim ǀ na ǀ śyenam ǀ śravaḥ ǀ ca ǀ accha ǀ paśu-mat ǀ ca ǀ yūtham ǁ

    4.38.5 Aṣṭaka 3.7.11.5Anuvāka 4.4.53

  6. Ṛk 6

    उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नां ।
    स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥

    उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् |
    स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् ||

    utá smāsu prathamáḥ sariṣyánní veveti śréṇibhī ráthānām ǀ
    srájam kṛṇvānó jányo ná śúbhvā reṇúm rérihatkiráṇam dadaśvā́n ǁ

    uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām |
    srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān ||

    उ॒त । स्म॒ । आ॒सु॒ । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि॑ऽभिः । रथा॑नाम् ।
    स्रज॑म् । कृ॒ण्वा॒नः । जन्यः॑ । न । शुभ्वा॑ । रे॒णुम् । रेरि॑हत् । कि॒रण॑म् । द॒द॒श्वान् ॥

    उत । स्म । आसु । प्रथमः । सरिष्यन् । नि । वेवेति । श्रेणिऽभिः । रथानाम् ।
    स्रजम् । कृण्वानः । जन्यः । न । शुभ्वा । रेणुम् । रेरिहत् । किरणम् । ददश्वान् ॥

    utá ǀ sma ǀ āsu ǀ prathamáḥ ǀ sariṣyán ǀ ní ǀ veveti ǀ śréṇi-bhiḥ ǀ ráthānām ǀ
    srájam ǀ kṛṇvānáḥ ǀ jányaḥ ǀ ná ǀ śúbhvā ǀ reṇúm ǀ rérihat ǀ kiráṇam ǀ dadaśvā́n ǁ

    uta ǀ sma ǀ āsu ǀ prathamaḥ ǀ sariṣyan ǀ ni ǀ veveti ǀ śreṇi-bhiḥ ǀ rathānām ǀ
    srajam ǀ kṛṇvānaḥ ǀ janyaḥ ǀ na ǀ śubhvā ǀ reṇum ǀ rerihat ǀ kiraṇam ǀ dadaśvān ǁ

    4.38.6 Aṣṭaka 3.7.12.1Anuvāka 4.4.54

  7. Ṛk 7

    उ॒त स्य वा॒जी सहु॑रिर्ऋ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
    तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृं॒जन् ॥

    उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये |
    तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् ||

    utá syá vājī́ sáhurirṛtā́vā śúśrūṣamāṇastanvā́ samaryé ǀ
    túram yatī́ṣu turáyannṛjipyó’dhi bhruvóḥ kirate reṇúmṛñján ǁ

    uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye |
    turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan ||

    उ॒त । स्यः । वा॒जी । सहु॑रिः । ऋ॒तऽवा॑ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।
    तुर॑म् । य॒तीषु॑ । तु॒रय॑न् । ऋ॒जि॒प्यः । अधि॑ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥

    उत । स्यः । वाजी । सहुरिः । ऋतऽवा । शुश्रूषमाणः । तन्वा । सऽमर्ये ।
    तुरम् । यतीषु । तुरयन् । ऋजिप्यः । अधि । भ्रुवोः । किरते । रेणुम् । ऋञ्जन् ॥

    utá ǀ syáḥ ǀ vājī́ ǀ sáhuriḥ ǀ ṛtá-vā ǀ śúśrūṣamāṇaḥ ǀ tanvā́ ǀ sa-maryé ǀ
    túram ǀ yatī́ṣu ǀ turáyan ǀ ṛjipyáḥ ǀ ádhi ǀ bhruvóḥ ǀ kirate ǀ reṇúm ǀ ṛñján ǁ

    uta ǀ syaḥ ǀ vājī ǀ sahuriḥ ǀ ṛta-vā ǀ śuśrūṣamāṇaḥ ǀ tanvā ǀ sa-marye ǀ
    turam ǀ yatīṣu ǀ turayan ǀ ṛjipyaḥ ǀ adhi ǀ bhruvoḥ ǀ kirate ǀ reṇum ǀ ṛñjan ǁ

    4.38.7 Aṣṭaka 3.7.12.2Anuvāka 4.4.55

  8. Ṛk 8

    उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योर्ऋ॑घाय॒तो अ॑भि॒युजो॑ भयंते ।
    य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋं॒जन् ॥

    उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते |
    यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ||

    utá smāsya tanyatóriva dyórṛghāyató abhiyújo bhayante ǀ
    yadā́ sahásramabhí ṣīmáyodhīddurvártuḥ smā bhavati bhīmá ṛñján ǁ

    uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante |
    yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan ||

    उ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोःऽइ॑व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒ऽयुजः॑ । भ॒य॒न्ते॒ ।
    य॒दा । स॒हस्र॑म् । अ॒भि । सी॒म् । अयो॑धीत् । दुः॒ऽवर्तुः॑ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥

    उत । स्म । अस्य । तन्यतोःऽइव । द्योः । ऋघायतः । अभिऽयुजः । भयन्ते ।
    यदा । सहस्रम् । अभि । सीम् । अयोधीत् । दुःऽवर्तुः । स्म । भवति । भीमः । ऋञ्जन् ॥

    utá ǀ sma ǀ asya ǀ tanyatóḥ-iva ǀ dyóḥ ǀ ṛghāyatáḥ ǀ abhi-yújaḥ ǀ bhayante ǀ
    yadā́ ǀ sahásram ǀ abhí ǀ sīm ǀ áyodhīt ǀ duḥ-vártuḥ ǀ sma ǀ bhavati ǀ bhīmáḥ ǀ ṛñján ǁ

    uta ǀ sma ǀ asya ǀ tanyatoḥ-iva ǀ dyoḥ ǀ ṛghāyataḥ ǀ abhi-yujaḥ ǀ bhayante ǀ
    yadā ǀ sahasram ǀ abhi ǀ sīm ǀ ayodhīt ǀ duḥ-vartuḥ ǀ sma ǀ bhavati ǀ bhīmaḥ ǀ ṛñjan ǁ

    4.38.8 Aṣṭaka 3.7.12.3Anuvāka 4.4.56

  9. Ṛk 9

    उ॒त स्मा॑स्य पनयंति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः ।
    उ॒तैन॑माहुः समि॒थे वि॒यंतः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥

    उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः |
    उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः ||

    utá smāsya panayanti jánā jūtím kṛṣṭipró abhíbhūtimāśóḥ ǀ
    utáinamāhuḥ samithé viyántaḥ párā dadhikrā́ asaratsahásraiḥ ǁ

    uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ |
    utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ ||

    उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः ।
    उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥

    उत । स्म । अस्य । पनयन्ति । जनाः । जूतिम् । कृष्टिऽप्रः । अभिऽभूतिम् । आशोः ।
    उत । एनम् । आहुः । सम्ऽइथे । विऽयन्तः । परा । दधिऽक्राः । असरत् । सहस्रैः ॥

    utá ǀ sma ǀ asya ǀ panayanti ǀ jánāḥ ǀ jūtím ǀ kṛṣṭi-práḥ ǀ abhí-bhūtim ǀ āśóḥ ǀ
    utá ǀ enam ǀ āhuḥ ǀ sam-ithé ǀ vi-yántaḥ ǀ párā ǀ dadhi-krā́ḥ ǀ asarat ǀ sahásraiḥ ǁ

    uta ǀ sma ǀ asya ǀ panayanti ǀ janāḥ ǀ jūtim ǀ kṛṣṭi-praḥ ǀ abhi-bhūtim ǀ āśoḥ ǀ
    uta ǀ enam ǀ āhuḥ ǀ sam-ithe ǀ vi-yantaḥ ǀ parā ǀ dadhi-krāḥ ǀ asarat ǀ sahasraiḥ ǁ

    4.38.9 Aṣṭaka 3.7.12.4Anuvāka 4.4.57

  10. Ṛk 10

    आ द॑धि॒क्राः शव॑सा॒ पंच॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान ।
    स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥

    आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान |
    सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ||

    ā́ dadhikrā́ḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣāpástatāna ǀ
    sahasrasā́ḥ śatasā́ vājyárvā pṛṇáktu mádhvā sámimā́ vácāṃsi ǁ

    ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
    sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi ||

    आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ।
    स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥

    आ । दधिऽक्राः । शवसा । पञ्च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान ।
    सहस्रऽसाः । शतऽसाः । वाजी । अर्वा । पृणक्तु । मध्वा । सम् । इमा । वचांसि ॥

    ā́ ǀ dadhi-krā́ḥ ǀ śávasā ǀ páñca ǀ kṛṣṭī́ḥ ǀ sū́ryaḥ-iva ǀ jyótiṣā ǀ apáḥ ǀ tatāna ǀ
    sahasra-sā́ḥ ǀ śata-sā́ḥ ǀ vājī́ ǀ árvā ǀ pṛṇáktu ǀ mádhvā ǀ sám ǀ imā́ ǀ vácāṃsi ǁ

    ā ǀ dadhi-krāḥ ǀ śavasā ǀ pañca ǀ kṛṣṭīḥ ǀ sūryaḥ-iva ǀ jyotiṣā ǀ apaḥ ǀ tatāna ǀ
    sahasra-sāḥ ǀ śata-sāḥ ǀ vājī ǀ arvā ǀ pṛṇaktu ǀ madhvā ǀ sam ǀ imā ǀ vacāṃsi ǁ

    4.38.10 Aṣṭaka 3.7.12.5Anuvāka 4.4.58

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.38 · Divaḥ, Pṛthivī · Dadhikrā

Interpretations

Ralph T. H. Griffith

Ṛk 1

FROM you two came the gifts in days aforetime which Trasadasyu granted to the Pūrus. Ye gave the winner of our fields and plough-lands, and the strong smiter who subdued the Dasyus.

Ṛk 2

And ye gave mighty Dadhikrās, the giver of many gifts, who visiteth all people, Impetuous hawk, swift and of varied colour, like a brave King whom each true man must honour.

Ṛk 3

Whom, as ’twere down a precipice, swift rushing, each Pūru praises and his heart rejoices,— Springing forth like a hero fain for battle, whirling the car and flying like the tempest.

Ṛk 4

Who gaineth precious booty in the combats and moveth, winning spoil, among the cattle; Shown in bright colour, looking on the assemblies, beyond the churl, to worship of the living.

Ṛk 5

Loudly the folk cry after him in battles, as ’twere a thief who steals away a garment; Speeding to glory, or a herd of cattle, even as a hungry falcon swooping downward.

Ṛk 6

And, fain to come forth first amid these armies, this way and that with rows of cars he rushes, Gay like a bridesman, making him a garland, tossing the dust, champing the rein that holds him.

Ṛk 7

And that strong Steed, victorious and faithful, obedient with his body in the combat, Speeding straight on amid the swiftly pressing, casts o’er his brows the dust he tosses upward.

Ṛk 8

And at his thunder, like the roar of heaven, those who attack tremble and are affrighted; For when he fights against embattled thousands, dread is he in his striving; none may stay him.

Ṛk 9

The people praise the overpowering swiftness of this fleet Steed who giveth men abundance. Of him they say when drawing back from battle. Dadhikrās hath sped forward with his thousands.