Ṛgveda · Maṇḍala 4

Sūkta 11

Agni · Vāmadeva Gautama · 6 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 2, 5, 6); svarāḍbṛhatī (3); bhurikpaṅkti (4)

2nd set of styles triṣṭubh

  1. Ṛk 1

    भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।
    रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्नं॑ ॥

    भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य |
    रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ||

    bhadrám te agne sahasinnánīkamupāká ā́ rocate sū́ryasya ǀ
    rúśaddṛśé dadṛśe naktayā́ cidárūkṣitam dṛśá ā́ rūpé ánnam ǁ

    bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya |
    ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam ||

    भ॒द्रम् । ते॒ । अ॒ग्ने॒ । स॒ह॒सि॒न् । अनी॑कम् । उ॒पा॒के । आ । रो॒च॒ते॒ । सूर्य॑स्य ।
    रुश॑त् । दृ॒शे । द॒दृ॒शे॒ । न॒क्त॒ऽया । चि॒त् । अरू॑क्षितम् । दृ॒शे । आ । रू॒पे । अन्न॑म् ॥

    भद्रम् । ते । अग्ने । सहसिन् । अनीकम् । उपाके । आ । रोचते । सूर्यस्य ।
    रुशत् । दृशे । ददृशे । नक्तऽया । चित् । अरूक्षितम् । दृशे । आ । रूपे । अन्नम् ॥

    bhadrám ǀ te ǀ agne ǀ sahasin ǀ ánīkam ǀ upāké ǀ ā́ ǀ rocate ǀ sū́ryasya ǀ
    rúśat ǀ dṛśé ǀ dadṛśe ǀ nakta-yā́ ǀ cit ǀ árūkṣitam ǀ dṛśé ǀ ā́ ǀ rūpé ǀ ánnam ǁ

    bhadram ǀ te ǀ agne ǀ sahasin ǀ anīkam ǀ upāke ǀ ā ǀ rocate ǀ sūryasya ǀ
    ruśat ǀ dṛśe ǀ dadṛśe ǀ nakta-yā ǀ cit ǀ arūkṣitam ǀ dṛśe ǀ ā ǀ rūpe ǀ annam ǁ

    4.11.1 Aṣṭaka 3.5.11.1Anuvāka 4.2.1

  2. Ṛk 2

    वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।
    विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥

    वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः |
    विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ||

    ví ṣāhyagne gṛṇaté manīṣā́m khám vépasā tuvijāta stávānaḥ ǀ
    víśvebhiryádvāvánaḥ śukra deváistánno rāsva sumaho bhū́ri mánma ǁ

    vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ |
    viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma ||

    वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप॑सा । तु॒वि॒ऽजा॒त॒ । स्तवा॑नः ।
    विश्वे॑भिः । यत् । व॒वनः॑ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒ऽम॒हः॒ । भूरि॑ । मन्म॑ ॥

    वि । साहि । अग्ने । गृणते । मनीषाम् । खम् । वेपसा । तुविऽजात । स्तवानः ।
    विश्वेभिः । यत् । ववनः । शुक्र । देवैः । तत् । नः । रास्व । सुऽमहः । भूरि । मन्म ॥

    ví ǀ sāhi ǀ agne ǀ gṛṇaté ǀ manīṣā́m ǀ khám ǀ vépasā ǀ tuvi-jāta ǀ stávānaḥ ǀ
    víśvebhiḥ ǀ yát ǀ vavánaḥ ǀ śukra ǀ deváiḥ ǀ tát ǀ naḥ ǀ rāsva ǀ su-mahaḥ ǀ bhū́ri ǀ mánma ǁ

    vi ǀ sāhi ǀ agne ǀ gṛṇate ǀ manīṣām ǀ kham ǀ vepasā ǀ tuvi-jāta ǀ stavānaḥ ǀ
    viśvebhiḥ ǀ yat ǀ vavanaḥ ǀ śukra ǀ devaiḥ ǀ tat ǀ naḥ ǀ rāsva ǀ su-mahaḥ ǀ bhūri ǀ manma ǁ

    4.11.2 Aṣṭaka 3.5.11.2Anuvāka 4.2.2

  3. Ṛk 3

    त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यंते॒ राध्या॑नि ।
    त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥

    त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि |
    त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ||

    tvádagne kā́vyā tvánmanīṣā́stvádukthā́ jāyante rā́dhyāni ǀ
    tvádeti dráviṇam vīrápeśā itthā́dhiye dāśúṣe mártyāya ǁ

    tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni |
    tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya ||

    त्वत् । अ॒ग्ने॒ । काव्या॑ । त्वम् । म॒नी॒षाः । त्वत् । उ॒क्था । जा॒य॒न्ते॒ । राध्या॑नि ।
    त्वत् । ए॒ति॒ । द्रवि॑णम् । वी॒रऽपे॑शाः । इ॒त्थाऽधि॑ये । दा॒शुषे॑ । मर्त्या॑य ॥

    त्वत् । अग्ने । काव्या । त्वम् । मनीषाः । त्वत् । उक्था । जायन्ते । राध्यानि ।
    त्वत् । एति । द्रविणम् । वीरऽपेशाः । इत्थाऽधिये । दाशुषे । मर्त्याय ॥

    tvát ǀ agne ǀ kā́vyā ǀ tvám ǀ manīṣā́ḥ ǀ tvát ǀ ukthā́ ǀ jāyante ǀ rā́dhyāni ǀ
    tvát ǀ eti ǀ dráviṇam ǀ vīrá-peśāḥ ǀ itthā́-dhiye ǀ dāśúṣe ǀ mártyāya ǁ

    tvat ǀ agne ǀ kāvyā ǀ tvam ǀ manīṣāḥ ǀ tvat ǀ ukthā ǀ jāyante ǀ rādhyāni ǀ
    tvat ǀ eti ǀ draviṇam ǀ vīra-peśāḥ ǀ itthā-dhiye ǀ dāśuṣe ǀ martyāya ǁ

    4.11.3 Aṣṭaka 3.5.11.3Anuvāka 4.2.3

  4. Ṛk 4

    त्वद्वा॒जी वा॑जंभ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः ।
    त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥

    त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः |
    त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा ||

    tvádvājī́ vājambharó víhāyā abhiṣṭikṛ́jjāyate satyáśuṣmaḥ ǀ
    tvádrayírdevájūto mayobhústvádāśúrjūjuvā́m̐ agne árvā ǁ

    tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ |
    tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ agne arvā ||

    त्वत् । वा॒जी । वा॒ज॒म्ऽभ॒रः । विऽहा॑याः । अ॒भि॒ष्टि॒ऽकृत् । जा॒य॒ते॒ । स॒त्यऽशु॑ष्मः ।
    त्वत् । र॒यिः । दे॒वऽजू॑तः । म॒यः॒ऽभुः । त्वत् । आ॒शुः । जू॒जु॒ऽवान् । अ॒ग्ने॒ । अर्वा॑ ॥

    त्वत् । वाजी । वाजम्ऽभरः । विऽहायाः । अभिष्टिऽकृत् । जायते । सत्यऽशुष्मः ।
    त्वत् । रयिः । देवऽजूतः । मयःऽभुः । त्वत् । आशुः । जूजुऽवान् । अग्ने । अर्वा ॥

    tvát ǀ vājī́ ǀ vājam-bharáḥ ǀ ví-hāyāḥ ǀ abhiṣṭi-kṛ́t ǀ jāyate ǀ satyá-śuṣmaḥ ǀ
    tvát ǀ rayíḥ ǀ devá-jūtaḥ ǀ mayaḥ-bhúḥ ǀ tvát ǀ āśúḥ ǀ jūju-vā́n ǀ agne ǀ árvā ǁ

    tvat ǀ vājī ǀ vājam-bharaḥ ǀ vi-hāyāḥ ǀ abhiṣṭi-kṛt ǀ jāyate ǀ satya-śuṣmaḥ ǀ
    tvat ǀ rayiḥ ǀ deva-jūtaḥ ǀ mayaḥ-bhuḥ ǀ tvat ǀ āśuḥ ǀ jūju-vān ǀ agne ǀ arvā ǁ

    4.11.4 Aṣṭaka 3.5.11.4Anuvāka 4.2.4

  5. Ṛk 5

    त्वाम॑ग्ने प्रथ॒मं दे॑व॒यंतो॑ दे॒वं मर्ता॑ अमृत मं॒द्रजि॑ह्वं ।
    द्वे॒षो॒युत॒मा वि॑वासंति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रं ॥

    त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् |
    द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् ||

    tvā́magne prathamám devayánto devám mártā amṛta mandrájihvam ǀ
    dveṣoyútamā́ vivāsanti dhībhírdámūnasam gṛhápatimámūram ǁ

    tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam |
    dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram ||

    त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । दे॒वम् । भर्ता॑ । अ॒मृ॒त॒ । म॒न्द्रऽजि॑ह्वम् ।
    द्वे॒षः॒ऽयुत॑म् । आ । वि॒वा॒स॒न्ति॒ । धी॒भिः । दमू॑नसम् । गृ॒हऽप॑तिम् । अमू॑रम् ॥

    त्वाम् । अग्ने । प्रथमम् । देवऽयन्तः । देवम् । भर्ता । अमृत । मन्द्रऽजिह्वम् ।
    द्वेषःऽयुतम् । आ । विवासन्ति । धीभिः । दमूनसम् । गृहऽपतिम् । अमूरम् ॥

    tvā́m ǀ agne ǀ prathamám ǀ deva-yántaḥ ǀ devám ǀ bhártā ǀ amṛta ǀ mandrá-jihvam ǀ
    dveṣaḥ-yútam ǀ ā́ ǀ vivāsanti ǀ dhībhíḥ ǀ dámūnasam ǀ gṛhá-patim ǀ ámūram ǁ

    tvām ǀ agne ǀ prathamam ǀ deva-yantaḥ ǀ devam ǀ bhartā ǀ amṛta ǀ mandra-jihvam ǀ
    dveṣaḥ-yutam ǀ ā ǀ vivāsanti ǀ dhībhiḥ ǀ damūnasam ǀ gṛha-patim ǀ amūram ǁ

    4.11.5 Aṣṭaka 3.5.11.5Anuvāka 4.2.5

  6. Ṛk 6

    आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ ।
    दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥

    आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि |
    दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति ||

    āré asmádámatimāré áṃha āré víśvām durmatím yánnipā́si ǀ
    doṣā́ śiváḥ sahasaḥ sūno agne yám devá ā́ citsácase svastí ǁ

    āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi |
    doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti ||

    आ॒रे । अ॒स्मत् । अम॑तिम् । आ॒रे । अंहः॑ । आ॒रे । विश्वा॑म् । दुः॒ऽम॒तिम् । यत् । नि॒ऽपासि॑ ।
    दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच॑से । स्व॒स्ति ॥

    आरे । अस्मत् । अमतिम् । आरे । अंहः । आरे । विश्वाम् । दुःऽमतिम् । यत् । निऽपासि ।
    दोषा । शिवः । सहसः । सूनो इति । अग्ने । यम् । देवः । आ । चित् । सचसे । स्वस्ति ॥

    āré ǀ asmát ǀ ámatim ǀ āré ǀ áṃhaḥ ǀ āré ǀ víśvām ǀ duḥ-matím ǀ yát ǀ ni-pā́si ǀ
    doṣā́ ǀ śiváḥ ǀ sahasaḥ ǀ sūno íti ǀ agne ǀ yám ǀ deváḥ ǀ ā́ ǀ cit ǀ sácase ǀ svastí ǁ

    āre ǀ asmat ǀ amatim ǀ āre ǀ aṃhaḥ ǀ āre ǀ viśvām ǀ duḥ-matim ǀ yat ǀ ni-pāsi ǀ
    doṣā ǀ śivaḥ ǀ sahasaḥ ǀ sūno iti ǀ agne ǀ yam ǀ devaḥ ǀ ā ǀ cit ǀ sacase ǀ svasti ǁ

    4.11.6 Aṣṭaka 3.5.11.6Anuvāka 4.2.6

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.11 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Happy is that flame-power of thine, O forceful Fire; it shines close to the Sun, glowing to vision it is seen even in the night, it is as if in its beauty68 there were an unarid feast for the eye. (244)

Ṛk 2

O Fire, O thou with thy many births, even as we hymn thee force open the heavens69 with thy quivering lustre70 for him who utters the mind of wisdom; O brilliant, O glorious Flame, what thou with all the gods hast won, that give to us, that mighty thought. (244)

Ṛk 3

O Fire, from thee are born the seer-wisdoms, from thee the mind of knowledge, from thee the utterances that achieve; from thee come the riches that take the hero’s form to the mortal giver who has the true thought. (245)

Ṛk 4

From thee is born the steed of swiftness that carries the plenitude, that has the force of Truth, that makes the great approach, that has the vastness; from thee is the treasure sent by the gods that creates the bliss, from thee the rapid speeding war-horse, O Fire. (245)

Ṛk 5

Thee, O Fire, O immortal, first and chief of the godheads, mortals who are seekers of the godheads illumine by their thoughts, Fire with the rapturous tongue who pushest away the hostiles, the one domiciled within, the master of our house untouched by ignorance. (245)

Ṛk 6

Far from us all unconsciousness, sin and evil mind when thou art on guard, a benignant Power in the night, O Fire, O son of force, over him to whom thou cleavest for his weal.(245)