Ṛk 4.11.2
Saṃhitā
वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।
विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥
वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः |
विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ||
ví ṣāhyagne gṛṇaté manīṣā́m khám vépasā tuvijāta stávānaḥ ǀ
víśvebhiryádvāvánaḥ śukra deváistánno rāsva sumaho bhū́ri mánma ǁ
vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ |
viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma ||
Padapāṭha
वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप॑सा । तु॒वि॒ऽजा॒त॒ । स्तवा॑नः ।
विश्वे॑भिः । यत् । व॒वनः॑ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒ऽम॒हः॒ । भूरि॑ । मन्म॑ ॥
वि । साहि । अग्ने । गृणते । मनीषाम् । खम् । वेपसा । तुविऽजात । स्तवानः ।
विश्वेभिः । यत् । ववनः । शुक्र । देवैः । तत् । नः । रास्व । सुऽमहः । भूरि । मन्म ॥
ví ǀ sāhi ǀ agne ǀ gṛṇaté ǀ manīṣā́m ǀ khám ǀ vépasā ǀ tuvi-jāta ǀ stávānaḥ ǀ
víśvebhiḥ ǀ yát ǀ vavánaḥ ǀ śukra ǀ deváiḥ ǀ tát ǀ naḥ ǀ rāsva ǀ su-mahaḥ ǀ bhū́ri ǀ mánma ǁ
vi ǀ sāhi ǀ agne ǀ gṛṇate ǀ manīṣām ǀ kham ǀ vepasā ǀ tuvi-jāta ǀ stavānaḥ ǀ
viśvebhiḥ ǀ yat ǀ vavanaḥ ǀ śukra ǀ devaiḥ ǀ tat ǀ naḥ ǀ rāsva ǀ su-mahaḥ ǀ bhūri ǀ manma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.011.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.11.02
- Maṇḍala · Anuvāka · Ṛk
- 04.02.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.