Ṛk 4.11.3
Saṃhitā
त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यंते॒ राध्या॑नि ।
त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥
त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि |
त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ||
tvádagne kā́vyā tvánmanīṣā́stvádukthā́ jāyante rā́dhyāni ǀ
tvádeti dráviṇam vīrápeśā itthā́dhiye dāśúṣe mártyāya ǁ
tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni |
tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya ||
Padapāṭha
त्वत् । अ॒ग्ने॒ । काव्या॑ । त्वम् । म॒नी॒षाः । त्वत् । उ॒क्था । जा॒य॒न्ते॒ । राध्या॑नि ।
त्वत् । ए॒ति॒ । द्रवि॑णम् । वी॒रऽपे॑शाः । इ॒त्थाऽधि॑ये । दा॒शुषे॑ । मर्त्या॑य ॥
त्वत् । अग्ने । काव्या । त्वम् । मनीषाः । त्वत् । उक्था । जायन्ते । राध्यानि ।
त्वत् । एति । द्रविणम् । वीरऽपेशाः । इत्थाऽधिये । दाशुषे । मर्त्याय ॥
tvát ǀ agne ǀ kā́vyā ǀ tvám ǀ manīṣā́ḥ ǀ tvát ǀ ukthā́ ǀ jāyante ǀ rā́dhyāni ǀ
tvát ǀ eti ǀ dráviṇam ǀ vīrá-peśāḥ ǀ itthā́-dhiye ǀ dāśúṣe ǀ mártyāya ǁ
tvat ǀ agne ǀ kāvyā ǀ tvam ǀ manīṣāḥ ǀ tvat ǀ ukthā ǀ jāyante ǀ rādhyāni ǀ
tvat ǀ eti ǀ draviṇam ǀ vīra-peśāḥ ǀ itthā-dhiye ǀ dāśuṣe ǀ martyāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.011.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.11.03
- Maṇḍala · Anuvāka · Ṛk
- 04.02.003
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.