Sūkta 45
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1, 3, 4); bhuriktriṣṭup (2); nicṛjjagatī (5); virāḍjagatī (6); nicṛttriṣṭup (7)
2nd set of styles jagatī (1-6); triṣṭubh (7)
-
Ṛk 1
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।
पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि |
पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ||eṣá syá bhānúrúdiyarti yujyáte ráthaḥ párijmā divó asyá sā́navi ǀ
pṛkṣā́so asminmithunā́ ádhi tráyo dṛ́tisturī́yo mádhuno ví rapśate ǁeṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi |
pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate ||ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि ।
पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परिऽज्मा । दिवः । अस्य । सानवि ।
पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते ॥eṣáḥ ǀ syáḥ ǀ bhānúḥ ǀ út ǀ iyarti ǀ yujyáte ǀ ráthaḥ ǀ pári-jmā ǀ diváḥ ǀ asyá ǀ sā́navi ǀ
pṛkṣā́saḥ ǀ asmin ǀ mithunā́ḥ ǀ ádhi ǀ tráyaḥ ǀ dṛ́tiḥ ǀ turī́yaḥ ǀ mádhunaḥ ǀ ví ǀ rapśate ǁeṣaḥ ǀ syaḥ ǀ bhānuḥ ǀ ut ǀ iyarti ǀ yujyate ǀ rathaḥ ǀ pari-jmā ǀ divaḥ ǀ asya ǀ sānavi ǀ
pṛkṣāsaḥ ǀ asmin ǀ mithunāḥ ǀ adhi ǀ trayaḥ ǀ dṛtiḥ ǀ turīyaḥ ǀ madhunaḥ ǀ vi ǀ rapśate ǁ4.45.1 Aṣṭaka 3.7.21.1Anuvāka 4.4.105
-
Ṛk 2
उद्वां॑ पृ॒क्षासो॒ मधु॑मंत ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।
अ॒पो॒र्णु॒वंत॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ॥उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु |
अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः ||údvām pṛkṣā́so mádhumanta īrate ráthā áśvāsa uṣáso vyúṣṭiṣu ǀ
aporṇuvántastáma ā́ párīvṛtam svárṇá śukrám tanvánta ā́ rájaḥ ǁud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu |
aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ ||उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । ई॒र॒ते॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टिषु ।
अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । तमः॑ । आ । परि॑ऽवृतम् । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ॥उत् । वाम् । पृक्षासः । मधुऽमन्तः । ईरते । रथाः । अश्वासः । उषसः । विऽउष्टिषु ।
अपऽऊर्णुवन्तः । तमः । आ । परिऽवृतम् । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ॥út ǀ vām ǀ pṛkṣā́saḥ ǀ mádhu-mantaḥ ǀ īrate ǀ ráthāḥ ǀ áśvāsaḥ ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ
apa-ūrṇuvántaḥ ǀ támaḥ ǀ ā́ ǀ pári-vṛtam ǀ sváḥ ǀ ná ǀ śukrám ǀ tanvántaḥ ǀ ā́ ǀ rájaḥ ǁut ǀ vām ǀ pṛkṣāsaḥ ǀ madhu-mantaḥ ǀ īrate ǀ rathāḥ ǀ aśvāsaḥ ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ
apa-ūrṇuvantaḥ ǀ tamaḥ ǀ ā ǀ pari-vṛtam ǀ svaḥ ǀ na ǀ śukram ǀ tanvantaḥ ǀ ā ǀ rajaḥ ǁ4.45.2 Aṣṭaka 3.7.21.2Anuvāka 4.4.106
-
Ṛk 3
मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युंजाथां॒ रथं॑ ।
आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मंतमश्विना ॥मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् |
आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना ||mádhvaḥ pibatam madhupébhirāsábhirutá priyám mádhune yuñjāthām rátham ǀ
ā́ vartaním mádhunā jinvathaspathó dṛ́tim vahethe mádhumantamaśvinā ǁmadhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham |
ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā ||मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् ।
आ । व॒र्त॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥मध्वः । पिबतम् । मधुऽपेभिः । आसऽभिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् ।
आ । वर्तनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथे इति । मधुऽमन्तम् । अश्विना ॥mádhvaḥ ǀ pibatam ǀ madhu-pébhiḥ ǀ āsá-bhiḥ ǀ utá ǀ priyám ǀ mádhune ǀ yuñjāthām ǀ rátham ǀ
ā́ ǀ vartaním ǀ mádhunā ǀ jinvathaḥ ǀ patháḥ ǀ dṛ́tim ǀ vahethe íti ǀ mádhu-mantam ǀ aśvinā ǁmadhvaḥ ǀ pibatam ǀ madhu-pebhiḥ ǀ āsa-bhiḥ ǀ uta ǀ priyam ǀ madhune ǀ yuñjāthām ǀ ratham ǀ
ā ǀ vartanim ǀ madhunā ǀ jinvathaḥ ǀ pathaḥ ǀ dṛtim ǀ vahethe iti ǀ madhu-mantam ǀ aśvinā ǁ4.45.3 Aṣṭaka 3.7.21.3Anuvāka 4.4.107
-
Ṛk 4
हं॒सासो॒ ये वां॒ मधु॑मंतो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ ।
उ॒द॒प्रुतो॑ मं॒दिनो॑ मंदिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः |
उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ||haṃsā́so yé vām mádhumanto asrídho híraṇyaparṇā uhúva uṣarbúdhaḥ ǀ
udaprúto mandíno mandinispṛ́śo mádhvo ná mákṣaḥ sávanāni gacchathaḥ ǁhaṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ |
udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ ||हं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ ।
उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥हंसासः । ये । वाम् । मधुऽमन्तः । अस्रिधः । हिरण्यऽपर्णाः । उहुवः । उषःऽबुधः ।
उदऽप्रुतः । मन्दिनः । मन्दिऽनिस्पृशः । मध्वः । न । मक्षः । सवनानि । गच्छथः ॥haṃsā́saḥ ǀ yé ǀ vām ǀ mádhu-mantaḥ ǀ asrídhaḥ ǀ híraṇya-parṇāḥ ǀ uhúvaḥ ǀ uṣaḥ-búdhaḥ ǀ
uda-prútaḥ ǀ mandínaḥ ǀ mandi-nispṛ́śaḥ ǀ mádhvaḥ ǀ ná ǀ mákṣaḥ ǀ sávanāni ǀ gacchathaḥ ǁhaṃsāsaḥ ǀ ye ǀ vām ǀ madhu-mantaḥ ǀ asridhaḥ ǀ hiraṇya-parṇāḥ ǀ uhuvaḥ ǀ uṣaḥ-budhaḥ ǀ
uda-prutaḥ ǀ mandinaḥ ǀ mandi-nispṛśaḥ ǀ madhvaḥ ǀ na ǀ makṣaḥ ǀ savanāni ǀ gacchathaḥ ǁ4.45.4 Aṣṭaka 3.7.21.4Anuvāka 4.4.108
-
Ṛk 5
स्व॒ध्व॒रासो॒ मधु॑मंतो अ॒ग्नय॑ उ॒स्रा ज॑रंते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।
यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मंत॒मद्रि॑भिः ॥स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना |
यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः ||svadhvarā́so mádhumanto agnáya usrā́ jarante práti vástoraśvínā ǀ
yánniktáhastastaráṇirvicakṣaṇáḥ sómam suṣā́va mádhumantamádribhiḥ ǁsvadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā |
yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ ||सु॒ऽअ॒ध्व॒रासः॑ । मधु॑ऽमन्तः । अ॒ग्नयः॑ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति॑ । वस्तोः॑ । अ॒श्विना॑ ।
यत् । नि॒क्तऽह॑स्तः । त॒रणिः॑ । वि॒ऽच॒क्ष॒णः । सोम॑म् । सु॒साव॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः ॥सुऽअध्वरासः । मधुऽमन्तः । अग्नयः । उस्रा । जरन्ते । प्रति । वस्तोः । अश्विना ।
यत् । निक्तऽहस्तः । तरणिः । विऽचक्षणः । सोमम् । सुसाव । मधुऽमन्तम् । अद्रिऽभिः ॥su-adhvarā́saḥ ǀ mádhu-mantaḥ ǀ agnáyaḥ ǀ usrā́ ǀ jarante ǀ práti ǀ vástoḥ ǀ aśvínā ǀ
yát ǀ niktá-hastaḥ ǀ taráṇiḥ ǀ vi-cakṣaṇáḥ ǀ sómam ǀ susā́va ǀ mádhu-mantam ǀ ádri-bhiḥ ǁsu-adhvarāsaḥ ǀ madhu-mantaḥ ǀ agnayaḥ ǀ usrā ǀ jarante ǀ prati ǀ vastoḥ ǀ aśvinā ǀ
yat ǀ nikta-hastaḥ ǀ taraṇiḥ ǀ vi-cakṣaṇaḥ ǀ somam ǀ susāva ǀ madhu-mantam ǀ adri-bhiḥ ǁ4.45.5 Aṣṭaka 3.7.21.5Anuvāka 4.4.109
-
Ṛk 6
आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ।
सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः |
सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः ||ākenipā́so áhabhirdávidhvataḥ svárṇá śukrám tanvánta ā́ rájaḥ ǀ
sū́raścidáśvānyuyujāná īyate víśvām̐ ánu svadháyā cetathaspatháḥ ǁākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ |
sūraś cid aśvān yuyujāna īyate viśvāṃ anu svadhayā cetathas pathaḥ ||आ॒के॒ऽनि॒पासः॑ । अह॑ऽभिः । दवि॑ध्वतः । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ।
सूरः॑ । चि॒त् । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा॑न् । अनु॑ । स्व॒धया॑ । चे॒त॒थः॒ । प॒थः ॥आकेऽनिपासः । अहऽभिः । दविध्वतः । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ।
सूरः । चित् । अश्वान् । युयुजानः । ईयते । विश्वान् । अनु । स्वधया । चेतथः । पथः ॥āke-nipā́saḥ ǀ áha-bhiḥ ǀ dávidhvataḥ ǀ sváḥ ǀ ná ǀ śukrám ǀ tanvántaḥ ǀ ā́ ǀ rájaḥ ǀ
sū́raḥ ǀ cit ǀ áśvān ǀ yuyujānáḥ ǀ īyate ǀ víśvān ǀ ánu ǀ svadháyā ǀ cetathaḥ ǀ patháḥ ǁāke-nipāsaḥ ǀ aha-bhiḥ ǀ davidhvataḥ ǀ svaḥ ǀ na ǀ śukram ǀ tanvantaḥ ǀ ā ǀ rajaḥ ǀ
sūraḥ ǀ cit ǀ aśvān ǀ yuyujānaḥ ǀ īyate ǀ viśvān ǀ anu ǀ svadhayā ǀ cetathaḥ ǀ pathaḥ ǁ4.45.6 Aṣṭaka 3.7.21.6Anuvāka 4.4.110
-
Ṛk 7
प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।
येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्मं॑तं त॒रणिं॑ भो॒जमच्छ॑ ॥प्र वाम् अवोचम् अश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति |
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ||prá vāmavocamaśvinā dhiyaṃdhā́ ráthaḥ sváśvo ajáro yó ásti ǀ
yéna sadyáḥ pári rájāṃsi yāthó havíṣmantam taráṇim bhojámáccha ǁpra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti |
yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha ||प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ ।
येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥प्र । वाम् । अवोचम् । अश्विना । धियम्ऽधाः । रथः । सुऽअश्वः । अजरः । यः । अस्ति ।
येन । सद्यः । परि । रजांसि । याथः । हविष्मन्तम् । तरणिम् । भोजम् । अच्छ ॥prá ǀ vām ǀ avocam ǀ aśvinā ǀ dhiyam-dhā́ḥ ǀ ráthaḥ ǀ su-áśvaḥ ǀ ajáraḥ ǀ yáḥ ǀ ásti ǀ
yéna ǀ sadyáḥ ǀ pári ǀ rájāṃsi ǀ yātháḥ ǀ havíṣmantam ǀ taráṇim ǀ bhojám ǀ áccha ǁpra ǀ vām ǀ avocam ǀ aśvinā ǀ dhiyam-dhāḥ ǀ rathaḥ ǀ su-aśvaḥ ǀ ajaraḥ ǀ yaḥ ǀ asti ǀ
yena ǀ sadyaḥ ǀ pari ǀ rajāṃsi ǀ yāthaḥ ǀ haviṣmantam ǀ taraṇim ǀ bhojam ǀ accha ǁ4.45.7 Aṣṭaka 3.7.21.7Anuvāka 4.4.111
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.