Ṛgveda · Maṇḍala 4 · Sūkta 45

Ṛk 4.45.7

Aśvins · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।
येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्मं॑तं त॒रणिं॑ भो॒जमच्छ॑ ॥

प्र वाम् अवोचम् अश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति |
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ||

prá vāmavocamaśvinā dhiyaṃdhā́ ráthaḥ sváśvo ajáro yó ásti ǀ
yéna sadyáḥ pári rájāṃsi yāthó havíṣmantam taráṇim bhojámáccha ǁ

pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti |
yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha ||

Padapāṭha

प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ ।
येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥

प्र । वाम् । अवोचम् । अश्विना । धियम्ऽधाः । रथः । सुऽअश्वः । अजरः । यः । अस्ति ।
येन । सद्यः । परि । रजांसि । याथः । हविष्मन्तम् । तरणिम् । भोजम् । अच्छ ॥

prá ǀ vām ǀ avocam ǀ aśvinā ǀ dhiyam-dhā́ḥ ǀ ráthaḥ ǀ su-áśvaḥ ǀ ajáraḥ ǀ yáḥ ǀ ásti ǀ
yéna ǀ sadyáḥ ǀ pári ǀ rájāṃsi ǀ yātháḥ ǀ havíṣmantam ǀ taráṇim ǀ bhojám ǀ áccha ǁ

pra ǀ vām ǀ avocam ǀ aśvinā ǀ dhiyam-dhāḥ ǀ rathaḥ ǀ su-aśvaḥ ǀ ajaraḥ ǀ yaḥ ǀ asti ǀ
yena ǀ sadyaḥ ǀ pari ǀ rajāṃsi ǀ yāthaḥ ǀ haviṣmantam ǀ taraṇim ǀ bhojam ǀ accha ǁ

References

Maṇḍala · Sūkta · Ṛk
04.045.07
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.21.07
Maṇḍala · Anuvāka · Ṛk
04.04.111
Devatā देवता
Aśvins
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.45.7

Interpretations

Sāyaṇa

धियन्धाः कर्मणां धारकोऽहं हे अश्विना वां प्रावोचम् । प्रब्रवीमि । स्त्ॐइ । स्वश्वोऽजरोऽजीर्णो नित्यनूतनोऽजरयिता वा रथो योऽस्ति । येन रथेन सद्यस्तदानीमेव रजांसि लोकान्परि याथः तेन रथेन हविष्मन्तं सोमादि हविर्युक्तं तरणिं तारकं शीघ्रगामिनं भोजं भोजयितारमस्मद्यागमच्छ प्राप्तुमागच्छतमिति शेषः ॥ ७ ॥