Ṛk 4.45.1
Saṃhitā
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।
पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥
एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि |
पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ||
eṣá syá bhānúrúdiyarti yujyáte ráthaḥ párijmā divó asyá sā́navi ǀ
pṛkṣā́so asminmithunā́ ádhi tráyo dṛ́tisturī́yo mádhuno ví rapśate ǁ
eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi |
pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate ||
Padapāṭha
ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि ।
पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥
एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परिऽज्मा । दिवः । अस्य । सानवि ।
पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते ॥
eṣáḥ ǀ syáḥ ǀ bhānúḥ ǀ út ǀ iyarti ǀ yujyáte ǀ ráthaḥ ǀ pári-jmā ǀ diváḥ ǀ asyá ǀ sā́navi ǀ
pṛkṣā́saḥ ǀ asmin ǀ mithunā́ḥ ǀ ádhi ǀ tráyaḥ ǀ dṛ́tiḥ ǀ turī́yaḥ ǀ mádhunaḥ ǀ ví ǀ rapśate ǁ
eṣaḥ ǀ syaḥ ǀ bhānuḥ ǀ ut ǀ iyarti ǀ yujyate ǀ rathaḥ ǀ pari-jmā ǀ divaḥ ǀ asya ǀ sānavi ǀ
pṛkṣāsaḥ ǀ asmin ǀ mithunāḥ ǀ adhi ǀ trayaḥ ǀ dṛtiḥ ǀ turīyaḥ ǀ madhunaḥ ǀ vi ǀ rapśate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.045.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.21.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.105
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.