Sūkta 46
- Devatā देवता
- Indra, Vāyu
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2, 3, 5-7); virāḍgāyatrī (1); nicṛdgāyatrī (4)
2nd set of styles gāyatrī
-
Ṛk 1
अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।
त्वं हि पू॑र्व॒पा असि॑ ॥अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु |
त्वं हि पूर्वपा असि ||ágram pibā mádhūnām sutám vāyo díviṣṭiṣu ǀ
tvám hí pūrvapā́ ási ǁagram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu |
tvaṃ hi pūrvapā asi ||अग्र॑म् । पि॒ब॒ । मधू॑नाम् । सु॒तम् । वा॒यो॒ इति॑ । दिवि॑ष्टिषु ।
त्वम् । हि । पू॒र्व॒ऽपाः । असि॑ ॥अग्रम् । पिब । मधूनाम् । सुतम् । वायो इति । दिविष्टिषु ।
त्वम् । हि । पूर्वऽपाः । असि ॥ágram ǀ piba ǀ mádhūnām ǀ sutám ǀ vāyo íti ǀ díviṣṭiṣu ǀ
tvám ǀ hí ǀ pūrva-pā́ḥ ǀ ási ǁagram ǀ piba ǀ madhūnām ǀ sutam ǀ vāyo iti ǀ diviṣṭiṣu ǀ
tvam ǀ hi ǀ pūrva-pāḥ ǀ asi ǁ4.46.1 Aṣṭaka 3.7.22.1Anuvāka 4.5.1
-
Ṛk 2
श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इंद्र॑सारथिः ।
वायो॑ सु॒तस्य॑ तृंपतं ॥शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः |
वायो सुतस्य तृम्पतम् ||śaténā no abhíṣṭibhirniyútvām̐ índrasārathiḥ ǀ
vā́yo sutásya tṛmpatam ǁśatenā no abhiṣṭibhir niyutvāṃ indrasārathiḥ |
vāyo sutasya tṛmpatam ||श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।
वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥शतेन । नः । अभिष्टिऽभिः । नियुत्वान् । इन्द्रऽसारथिः ।
वायो इति । सुतस्य । तृम्पतम् ॥śaténa ǀ naḥ ǀ abhíṣṭi-bhiḥ ǀ niyútvān ǀ índra-sārathiḥ ǀ
vā́yo íti ǀ sutásya ǀ tṛmpatam ǁśatena ǀ naḥ ǀ abhiṣṭi-bhiḥ ǀ niyutvān ǀ indra-sārathiḥ ǀ
vāyo iti ǀ sutasya ǀ tṛmpatam ǁ4.46.2 Aṣṭaka 3.7.22.2Anuvāka 4.5.2
-
Ṛk 3
आ वां॑ स॒हस्रं॒ हर॑य॒ इंद्र॑वायू अ॒भि प्रयः॑ ।
वहं॑तु॒ सोम॑पीतये ॥आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः |
वहन्तु सोमपीतये ||ā́ vām sahásram háraya índravāyū abhí práyaḥ ǀ
váhantu sómapītaye ǁā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ |
vahantu somapītaye ||आ । वा॒म् । स॒हस्र॑म् । हर॑यः । इन्द्र॑वायू॒ इति॑ । अ॒भि । प्रयः॑ ।
वह॑न्तु । सोम॑ऽपीतये ॥आ । वाम् । सहस्रम् । हरयः । इन्द्रवायू इति । अभि । प्रयः ।
वहन्तु । सोमऽपीतये ॥ā́ ǀ vām ǀ sahásram ǀ hárayaḥ ǀ índravāyū íti ǀ abhí ǀ práyaḥ ǀ
váhantu ǀ sóma-pītaye ǁā ǀ vām ǀ sahasram ǀ harayaḥ ǀ indravāyū iti ǀ abhi ǀ prayaḥ ǀ
vahantu ǀ soma-pītaye ǁ4.46.3 Aṣṭaka 3.7.22.3Anuvāka 4.5.3
-
Ṛk 4
रथं॒ हिर॑ण्यवंधुर॒मिंद्र॑वायू स्वध्व॒रं ।
आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् |
आ हि स्थाथो दिविस्पृशम् ||rátham híraṇyavandhuramíndravāyū svadhvarám ǀ
ā́ hí sthā́tho divispṛ́śam ǁrathaṃ hiraṇyavandhuram indravāyū svadhvaram |
ā hi sthātho divispṛśam ||रथ॑म् । हिर॑ण्यऽवन्धुरम् । इन्द्र॑वायू॒ इति॑ । सु॒ऽअ॒ध्व॒रम् ।
आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥रथम् । हिरण्यऽवन्धुरम् । इन्द्रवायू इति । सुऽअध्वरम् ।
आ । हि । स्थाथः । दिविऽस्पृशम् ॥rátham ǀ híraṇya-vandhuram ǀ índravāyū íti ǀ su-adhvarám ǀ
ā́ ǀ hí ǀ sthā́thaḥ ǀ divi-spṛ́śam ǁratham ǀ hiraṇya-vandhuram ǀ indravāyū iti ǀ su-adhvaram ǀ
ā ǀ hi ǀ sthāthaḥ ǀ divi-spṛśam ǁ4.46.4 Aṣṭaka 3.7.22.4Anuvāka 4.5.4
-
Ṛk 5
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतं ।
इंद्र॑वायू इ॒हा ग॑तं ॥रथेन पृथुपाजसा दाश्वांसम् उप गच्छतम् |
इन्द्रवायू इहा गतम् ||ráthena pṛthupā́jasā dāśvā́ṃsamúpa gacchatam ǀ
índravāyū ihā́ gatam ǁrathena pṛthupājasā dāśvāṃsam upa gacchatam |
indravāyū ihā gatam ||रथे॑न । पृ॒थु॒ऽपाज॑सा । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ।
इन्द्र॑वायू॒ इति॑ । इ॒ह । आ । ग॒त॒म् ॥रथेन । पृथुऽपाजसा । दाश्वांसम् । उप । गच्छतम् ।
इन्द्रवायू इति । इह । आ । गतम् ॥ráthena ǀ pṛthu-pā́jasā ǀ dāśvā́ṃsam ǀ úpa ǀ gacchatam ǀ
índravāyū íti ǀ ihá ǀ ā́ ǀ gatam ǁrathena ǀ pṛthu-pājasā ǀ dāśvāṃsam ǀ upa ǀ gacchatam ǀ
indravāyū iti ǀ iha ǀ ā ǀ gatam ǁ4.46.5 Aṣṭaka 3.7.22.5Anuvāka 4.5.5
-
Ṛk 6
इंद्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा ।
पिब॑तं दा॒शुषो॑ गृ॒हे ॥इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा |
पिबतं दाशुषो गृहे ||índravāyū ayám sutástám devébhiḥ sajóṣasā ǀ
píbatam dāśúṣo gṛhé ǁindravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā |
pibataṃ dāśuṣo gṛhe ||इन्द्र॑वायू॒ इति॑ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः॑ । स॒ऽजोष॑सा ।
पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥इन्द्रवायू इति । अयम् । सुतः । तम् । देवेभिः । सऽजोषसा ।
पिबतम् । दाशुषः । गृहे ॥índravāyū íti ǀ ayám ǀ sutáḥ ǀ tám ǀ devébhiḥ ǀ sa-jóṣasā ǀ
píbatam ǀ dāśúṣaḥ ǀ gṛhé ǁindravāyū iti ǀ ayam ǀ sutaḥ ǀ tam ǀ devebhiḥ ǀ sa-joṣasā ǀ
pibatam ǀ dāśuṣaḥ ǀ gṛhe ǁ4.46.6 Aṣṭaka 3.7.22.6Anuvāka 4.5.6
-
Ṛk 7
इ॒ह प्र॒याण॑मस्तु वा॒मिंद्र॑वायू वि॒मोच॑नं ।
इ॒ह वां॒ सोम॑पीतये ॥इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् |
इह वां सोमपीतये ||ihá prayā́ṇamastu vāmíndravāyū vimócanam ǀ
ihá vām sómapītaye ǁiha prayāṇam astu vām indravāyū vimocanam |
iha vāṃ somapītaye ||इ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् ।
इ॒ह । वा॒म् । सोम॑ऽपीतये ॥इह । प्रऽयानम् । अस्तु । वाम् । इन्द्रवायू इति । विऽमोचनम् ।
इह । वाम् । सोमऽपीतये ॥ihá ǀ pra-yā́nam ǀ astu ǀ vām ǀ índravāyū íti ǀ vi-mócanam ǀ
ihá ǀ vām ǀ sóma-pītaye ǁiha ǀ pra-yānam ǀ astu ǀ vām ǀ indravāyū iti ǀ vi-mocanam ǀ
iha ǀ vām ǀ soma-pītaye ǁ4.46.7 Aṣṭaka 3.7.22.7Anuvāka 4.5.7
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.