Sūkta 9
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3, 4); virāḍgāyatrī (2, 6); nicṛdgāyatrī (7, 8); tripādgāyatrī (5)
2nd set of styles gāyatrī
-
Ṛk 1
अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जनं॑ ।
इ॒येथ॑ ब॒र्हिरा॒सदं॑ ॥अग्ने मृऌअ महां असि य ईम् आ देवयुं जनम् |
इयेथ बर्हिर् आसदम् ||ágne mṛḷá mahā́m̐ asi yá īmā́ devayúm jánam ǀ
iyétha barhírāsádam ǁagne mṛḷa mahāṃ asi ya īm ā devayuṃ janam |
iyetha barhir āsadam ||अग्ने॑ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒ऽयुम् । जन॑म् ।
इ॒येथ॑ । ब॒र्हिः । आ॒ऽसद॑म् ॥अग्ने । मृळ । महान् । असि । यः । ईम् । आ । देवऽयुम् । जनम् ।
इयेथ । बर्हिः । आऽसदम् ॥ágne ǀ mṛḷá ǀ mahā́n ǀ asi ǀ yáḥ ǀ īm ǀ ā́ ǀ deva-yúm ǀ jánam ǀ
iyétha ǀ barhíḥ ǀ ā-sádam ǁagne ǀ mṛḷa ǀ mahān ǀ asi ǀ yaḥ ǀ īm ǀ ā ǀ deva-yum ǀ janam ǀ
iyetha ǀ barhiḥ ǀ ā-sadam ǁ4.9.1 Aṣṭaka 3.5.9.1Anuvāka 4.1.117
-
Ṛk 2
स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।
दू॒तो विश्वे॑षां भुवत् ॥स मानुषीषु दूऌअभो विक्षु प्रावीर् अमर्त्यः |
दूतो विश्वेषाम् भुवत् ||sá mā́nuṣīṣu dūḷábho vikṣú prāvī́rámartyaḥ ǀ
dūtó víśveṣām bhuvat ǁsa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ |
dūto viśveṣām bhuvat ||सः । मानु॑षीषु । दुः॒ऽदभः॑ । वि॒क्षु । प्र॒ऽअ॒वीः । अम॑र्त्यः ।
दू॒तः । विश्वे॑षाम् । भु॒व॒त् ॥सः । मानुषीषु । दुःऽदभः । विक्षु । प्रऽअवीः । अमर्त्यः ।
दूतः । विश्वेषाम् । भुवत् ॥sáḥ ǀ mā́nuṣīṣu ǀ duḥ-dábhaḥ ǀ vikṣú ǀ pra-avī́ḥ ǀ ámartyaḥ ǀ
dūtáḥ ǀ víśveṣām ǀ bhuvat ǁsaḥ ǀ mānuṣīṣu ǀ duḥ-dabhaḥ ǀ vikṣu ǀ pra-avīḥ ǀ amartyaḥ ǀ
dūtaḥ ǀ viśveṣām ǀ bhuvat ǁ4.9.2 Aṣṭaka 3.5.9.2Anuvāka 4.1.118
-
Ṛk 3
स सद्म॒ परि॑ णीयते॒ होता॑ मं॒द्रो दिवि॑ष्टिषु ।
उ॒त पोता॒ नि षी॑दति ॥स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
उत पोता नि षीदति ||sá sádma pári ṇīyate hótā mandró díviṣṭiṣu ǀ
utá pótā ní ṣīdati ǁsa sadma pari ṇīyate hotā mandro diviṣṭiṣu |
uta potā ni ṣīdati ||सः । सद्म॑ । परि॑ । नी॒य॒ते॒ । होता॑ । म॒न्द्रः । दिवि॑ष्टिषु ।
उ॒त । पोता॑ । नि । सी॒द॒ति॒ ॥सः । सद्म । परि । नीयते । होता । मन्द्रः । दिविष्टिषु ।
उत । पोता । नि । सीदति ॥sáḥ ǀ sádma ǀ pári ǀ nīyate ǀ hótā ǀ mandráḥ ǀ díviṣṭiṣu ǀ
utá ǀ pótā ǀ ní ǀ sīdati ǁsaḥ ǀ sadma ǀ pari ǀ nīyate ǀ hotā ǀ mandraḥ ǀ diviṣṭiṣu ǀ
uta ǀ potā ǀ ni ǀ sīdati ǁ4.9.3 Aṣṭaka 3.5.9.3Anuvāka 4.1.119
-
Ṛk 4
उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।
उ॒त ब्र॒ह्मा नि षी॑दति ॥उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे |
उत ब्रह्मा नि षीदति ||utá gnā́ agníradhvará utó gṛhápatirdáme ǀ
utá brahmā́ ní ṣīdati ǁuta gnā agnir adhvara uto gṛhapatir dame |
uta brahmā ni ṣīdati ||उ॒त । ग्नाः । अ॒ग्निः । अ॒ध्व॒रे । उ॒तो इति॑ । गृ॒हऽप॑तिः । दमे॑ ।
उ॒त । ब्र॒ह्मा । नि । सी॒द॒ति॒ ॥उत । ग्नाः । अग्निः । अध्वरे । उतो इति । गृहऽपतिः । दमे ।
उत । ब्रह्मा । नि । सीदति ॥utá ǀ gnā́ḥ ǀ agníḥ ǀ adhvaré ǀ utó íti ǀ gṛhá-patiḥ ǀ dáme ǀ
utá ǀ brahmā́ ǀ ní ǀ sīdati ǁuta ǀ gnāḥ ǀ agniḥ ǀ adhvare ǀ uto iti ǀ gṛha-patiḥ ǀ dame ǀ
uta ǀ brahmā ǀ ni ǀ sīdati ǁ4.9.4 Aṣṭaka 3.5.9.4Anuvāka 4.1.120
-
Ṛk 5
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नां ।
ह॒व्या च॒ मानु॑षाणां ॥वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् |
हव्या च मानुषाणाम् ||véṣi hyádhvarīyatā́mupavaktā́ jánānām ǀ
havyā́ ca mā́nuṣāṇām ǁveṣi hy adhvarīyatām upavaktā janānām |
havyā ca mānuṣāṇām ||वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् ।
ह॒व्या । च॒ । मानु॑षाणाम् ॥वेषि । हि । अध्वरिऽयताम् । उपऽवक्ता । जनानाम् ।
हव्या । च । मानुषाणाम् ॥véṣi ǀ hí ǀ adhvari-yatā́m ǀ upa-vaktā́ ǀ jánānām ǀ
havyā́ ǀ ca ǀ mā́nuṣāṇām ǁveṣi ǀ hi ǀ adhvari-yatām ǀ upa-vaktā ǀ janānām ǀ
havyā ǀ ca ǀ mānuṣāṇām ǁ4.9.5 Aṣṭaka 3.5.9.5Anuvāka 4.1.121
-
Ṛk 6
वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रं ।
ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥वेषीद् व् अस्य दूत्यं यस्य जुजोषो अध्वरम् |
हव्यम् मर्तस्य वोऌहवे ||véṣī́dvasya dūtyám yásya jújoṣo adhvarám ǀ
havyám mártasya vóḷhave ǁveṣīd v asya dūtyaṃ yasya jujoṣo adhvaram |
havyam martasya voḷhave ||वेषि॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । दू॒त्य॑म् । यस्य॑ । जुजो॑षः । अ॒ध्व॒रम् ।
ह॒व्यम् । मर्त॑स्य । वोळ्ह॑वे ॥वेषि । इत् । ऊं इति । अस्य । दूत्यम् । यस्य । जुजोषः । अध्वरम् ।
हव्यम् । मर्तस्य । वोळ्हवे ॥véṣi ǀ ít ǀ ūṃ íti ǀ asya ǀ dūtyám ǀ yásya ǀ jújoṣaḥ ǀ adhvarám ǀ
havyám ǀ mártasya ǀ vóḷhave ǁveṣi ǀ it ǀ ūṃ iti ǀ asya ǀ dūtyam ǀ yasya ǀ jujoṣaḥ ǀ adhvaram ǀ
havyam ǀ martasya ǀ voḷhave ǁ4.9.6 Aṣṭaka 3.5.9.6Anuvāka 4.1.122
-
Ṛk 7
अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञमं॑गिरः ।
अ॒स्माकं॑ शृणुधी॒ हवं॑ ॥अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः |
अस्माकं शृणुधी हवम् ||asmā́kam joṣyadhvarámasmā́kam yajñámaṅgiraḥ ǀ
asmā́kam śṛṇudhī hávam ǁasmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ |
asmākaṃ śṛṇudhī havam ||अ॒स्माक॑म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक॑म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।
अ॒स्माक॑म् । शृ॒णु॒धि॒ । हव॑म् ॥अस्माकम् । जोषि । अध्वरम् । अस्माकम् । यज्ञम् । अङ्गिरः ।
अस्माकम् । शृणुधि । हवम् ॥asmā́kam ǀ joṣi ǀ adhvarám ǀ asmā́kam ǀ yajñám ǀ aṅgiraḥ ǀ
asmā́kam ǀ śṛṇudhi ǀ hávam ǁasmākam ǀ joṣi ǀ adhvaram ǀ asmākam ǀ yajñam ǀ aṅgiraḥ ǀ
asmākam ǀ śṛṇudhi ǀ havam ǁ4.9.7 Aṣṭaka 3.5.9.7Anuvāka 4.1.123
-
Ṛk 8
परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ ।
येन॒ रक्ष॑सि दा॒शुषः॑ ॥परि ते दूऌअभो रथो ऽस्मां अश्नोतु विश्वतः |
येन रक्षसि दाशुषः ||pári te dūḷábho rátho’smā́m̐ aśnotu viśvátaḥ ǀ
yéna rákṣasi dāśúṣaḥ ǁpari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ |
yena rakṣasi dāśuṣaḥ ||परि॑ । ते॒ । दुः॒ऽदभः॑ । रथः॑ । अ॒स्मान् । अ॒श्नो॒तु॒ । वि॒श्वतः॑ ।
येन॑ । रक्ष॑सि । दा॒शुषः॑ ॥परि । ते । दुःऽदभः । रथः । अस्मान् । अश्नोतु । विश्वतः ।
येन । रक्षसि । दाशुषः ॥pári ǀ te ǀ duḥ-dábhaḥ ǀ ráthaḥ ǀ asmā́n ǀ aśnotu ǀ viśvátaḥ ǀ
yéna ǀ rákṣasi ǀ dāśúṣaḥ ǁpari ǀ te ǀ duḥ-dabhaḥ ǀ rathaḥ ǀ asmān ǀ aśnotu ǀ viśvataḥ ǀ
yena ǀ rakṣasi ǀ dāśuṣaḥ ǁ4.9.8 Aṣṭaka 3.5.9.8Anuvāka 4.1.124
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.