Sūkta 10
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Padapaṅkti, Padapaṅkti Or Uṣṇih, Mahāpadapaṅkti, Uṣṇih
Metres by ṛk
1st set of styles bhurikgāyatrī (2-4, 7); svarāḍuṣnik (5, 8); gāyatrī (1); virāḍuṣnik (6)
2nd set of styles padapaṅkti (1-3); padapaṅkti or uṣṇih (4, 6, 7); mahāpadapaṅkti (5); uṣṇih (8)
-
Ṛk 1
अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृशं॑ ।
ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् |
ऋध्यामा त ओहैः ||ágne támadyā́śvam ná stómaiḥ krátum ná bhadrám hṛdispṛ́śam ǀ
ṛdhyā́mā ta óhaiḥ ǁagne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam |
ṛdhyāmā ta ohaiḥ ||अग्ने॑ । तम् । अ॒द्य । अश्व॑म् । न । स्तोमैः॑ । क्रतु॑म् । न । भ॒द्रम् । हृ॒दि॒ऽस्पृश॑म् ।
ऋ॒ध्याम॑ । ते॒ । ओहैः॑ ॥अग्ने । तम् । अद्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिऽस्पृशम् ।
ऋध्याम । ते । ओहैः ॥ágne ǀ tám ǀ adyá ǀ áśvam ǀ ná ǀ stómaiḥ ǀ krátum ǀ ná ǀ bhadrám ǀ hṛdi-spṛ́śam ǀ
ṛdhyā́ma ǀ te ǀ óhaiḥ ǁagne ǀ tam ǀ adya ǀ aśvam ǀ na ǀ stomaiḥ ǀ kratum ǀ na ǀ bhadram ǀ hṛdi-spṛśam ǀ
ṛdhyāma ǀ te ǀ ohaiḥ ǁ4.10.1 Aṣṭaka 3.5.10.1Anuvāka 4.1.125
-
Ṛk 2
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।
र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः |
रथीर् ऋतस्य बृहतो बभूथ ||ádhā hyágne krátorbhadrásya dákṣasya sādhóḥ ǀ
rathī́rṛtásya bṛható babhū́tha ǁadhā hy agne krator bhadrasya dakṣasya sādhoḥ |
rathīr ṛtasya bṛhato babhūtha ||अध॑ । हि । अ॒ग्ने॒ । क्रतोः॑ । भ॒द्रस्य॑ । दक्ष॑स्य । सा॒धोः ।
र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । ब॒भूथ॑ ॥अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः ।
रथीः । ऋतस्य । बृहतः । बभूथ ॥ádha ǀ hí ǀ agne ǀ krátoḥ ǀ bhadrásya ǀ dákṣasya ǀ sādhóḥ ǀ
rathī́ḥ ǀ ṛtásya ǀ bṛhatáḥ ǀ babhū́tha ǁadha ǀ hi ǀ agne ǀ kratoḥ ǀ bhadrasya ǀ dakṣasya ǀ sādhoḥ ǀ
rathīḥ ǀ ṛtasya ǀ bṛhataḥ ǀ babhūtha ǁ4.10.2 Aṣṭaka 3.5.10.2Anuvāka 4.1.126
-
Ṛk 3
ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ् स्व१॒॑र्ण ज्योतिः॑ ।
अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः |
अग्ने विश्वेभिः सुमना अनीकैः ||ebhírno arkáirbhávā no arvā́ṅ svárṇá jyótiḥ ǀ
ágne víśvebhiḥ sumánā ánīkaiḥ ǁebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ |
agne viśvebhiḥ sumanā anīkaiḥ ||ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । न । ज्योतिः॑ ।
अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः ।
अग्ने । विश्वेभिः । सुऽमनाः । अनीकैः ॥ebhíḥ ǀ naḥ ǀ arkáiḥ ǀ bháva ǀ naḥ ǀ arvā́ṅ ǀ sváḥ ǀ ná ǀ jyótiḥ ǀ
ágne ǀ víśvebhiḥ ǀ su-mánāḥ ǀ ánīkaiḥ ǁebhiḥ ǀ naḥ ǀ arkaiḥ ǀ bhava ǀ naḥ ǀ arvāṅ ǀ svaḥ ǀ na ǀ jyotiḥ ǀ
agne ǀ viśvebhiḥ ǀ su-manāḥ ǀ anīkaiḥ ǁ4.10.3 Aṣṭaka 3.5.10.3Anuvāka 4.1.127
-
Ṛk 4
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णंतोऽग्ने॒ दाशे॑म ।
प्र ते॑ दि॒वो न स्त॑नयंति॒ शुष्माः॑ ॥आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम |
प्र ते दिवो न स्तनयन्ति शुष्माः ||ābhíṣṭe adyá gīrbhírgṛṇántó’gne dā́śema ǀ
prá te divó ná stanayanti śúṣmāḥ ǁābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema |
pra te divo na stanayanti śuṣmāḥ ||आ॒भिः । ते॒ । अ॒द्य । गीः॒ऽभिः । गृ॒णन्तः॑ । अग्ने॑ । दाशे॑म ।
प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः॑ ॥आभिः । ते । अद्य । गीःऽभिः । गृणन्तः । अग्ने । दाशेम ।
प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः ॥ābhíḥ ǀ te ǀ adyá ǀ gīḥ-bhíḥ ǀ gṛṇántaḥ ǀ ágne ǀ dā́śema ǀ
prá ǀ te ǀ diváḥ ǀ ná ǀ stanayanti ǀ śúṣmāḥ ǁābhiḥ ǀ te ǀ adya ǀ gīḥ-bhiḥ ǀ gṛṇantaḥ ǀ agne ǀ dāśema ǀ
pra ǀ te ǀ divaḥ ǀ na ǀ stanayanti ǀ śuṣmāḥ ǁ4.10.4 Aṣṭaka 3.5.10.4Anuvāka 4.1.128
-
Ṛk 5
तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।
श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः |
श्रिये रुक्मो न रोचत उपाके ||táva svā́diṣṭhā́gne sáṃdṛṣṭiridā́ cidáhna idā́ cidaktóḥ ǀ
śriyé rukmó ná rocata upāké ǁtava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ |
śriye rukmo na rocata upāke ||तव॑ । स्वादि॑ष्ठा । अग्ने॑ । सम्ऽदृ॑ष्टिः । इ॒दा । चि॒त् । अह्नः॑ । इ॒दा । चि॒त् । अ॒क्तोः ।
श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥तव । स्वादिष्ठा । अग्ने । सम्ऽदृष्टिः । इदा । चित् । अह्नः । इदा । चित् । अक्तोः ।
श्रिये । रुक्मः । न । रोचते । उपाके ॥táva ǀ svā́diṣṭhā ǀ ágne ǀ sám-dṛṣṭiḥ ǀ idā́ ǀ cit ǀ áhnaḥ ǀ idā́ ǀ cit ǀ aktóḥ ǀ
śriyé ǀ rukmáḥ ǀ ná ǀ rocate ǀ upāké ǁtava ǀ svādiṣṭhā ǀ agne ǀ sam-dṛṣṭiḥ ǀ idā ǀ cit ǀ ahnaḥ ǀ idā ǀ cit ǀ aktoḥ ǀ
śriye ǀ rukmaḥ ǀ na ǀ rocate ǀ upāke ǁ4.10.5 Aṣṭaka 3.5.10.5Anuvāka 4.1.129
-
Ṛk 6
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यं ।
तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् |
तत् ते रुक्मो न रोचत स्वधावः ||ghṛtám ná pūtám tanū́rarepā́ḥ śúci híraṇyam ǀ
tátte rukmó ná rocata svadhāvaḥ ǁghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam |
tat te rukmo na rocata svadhāvaḥ ||घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् ।
तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् ।
तत् । ते । रुक्मः । न । रोचत । स्वधाऽवः ॥ghṛtám ǀ ná ǀ pūtám ǀ tanū́ḥ ǀ arepā́ḥ ǀ śúci ǀ híraṇyam ǀ
tát ǀ te ǀ rukmáḥ ǀ ná ǀ rocata ǀ svadhā-vaḥ ǁghṛtam ǀ na ǀ pūtam ǀ tanūḥ ǀ arepāḥ ǀ śuci ǀ hiraṇyam ǀ
tat ǀ te ǀ rukmaḥ ǀ na ǀ rocata ǀ svadhā-vaḥ ǁ4.10.6 Aṣṭaka 3.5.10.6Anuvāka 4.1.130
-
Ṛk 7
कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।
इ॒त्था यज॑मानादृतावः ॥कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् |
इत्था यजमानाद् ऋतावः ||kṛtám ciddhí ṣmā sánemi dvéṣó’gna inóṣi mártāt ǀ
itthā́ yájamānādṛtāvaḥ ǁkṛtaṃ cid dhi ṣmā sanemi dveṣo 'gna inoṣi martāt |
itthā yajamānād ṛtāvaḥ ||कृ॒तम् । चि॒त् । हि । स्म॒ । सने॑मि । द्वेषः॑ । अग्ने॑ । इ॒नोषि॑ । मर्ता॑त् ।
इ॒त्था । यज॑मानात् । ऋ॒त॒ऽवः॒ ॥कृतम् । चित् । हि । स्म । सनेमि । द्वेषः । अग्ने । इनोषि । मर्तात् ।
इत्था । यजमानात् । ऋतऽवः ॥kṛtám ǀ cit ǀ hí ǀ sma ǀ sánemi ǀ dvéṣaḥ ǀ ágne ǀ inóṣi ǀ mártāt ǀ
itthā́ ǀ yájamānāt ǀ ṛta-vaḥ ǁkṛtam ǀ cit ǀ hi ǀ sma ǀ sanemi ǀ dveṣaḥ ǀ agne ǀ inoṣi ǀ martāt ǀ
itthā ǀ yajamānāt ǀ ṛta-vaḥ ǁ4.10.7 Aṣṭaka 3.5.10.7Anuvāka 4.1.131
-
Ṛk 8
शि॒वा नः॑ स॒ख्या संतु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे ।
सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे |
सा नो नाभिः सदने सस्मिन्न् ऊधन् ||śivā́ naḥ sakhyā́ sántu bhrātrā́gne devéṣu yuṣmé ǀ
sā́ no nā́bhiḥ sádane sásminnū́dhan ǁśivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme |
sā no nābhiḥ sadane sasminn ūdhan ||शि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ ।
सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑न् ॥शिवा । नः । सख्या । सन्तु । भ्रात्रा । अग्ने । देवेषु । युष्मे इति ।
सा । नः । नाभिः । सदने । सस्मिन् । ऊधन् ॥śivā́ ǀ naḥ ǀ sakhyā́ ǀ sántu ǀ bhrātrā́ ǀ ágne ǀ devéṣu ǀ yuṣmé íti ǀ
sā́ ǀ naḥ ǀ nā́bhiḥ ǀ sádane ǀ sásmin ǀ ū́dhan ǁśivā ǀ naḥ ǀ sakhyā ǀ santu ǀ bhrātrā ǀ agne ǀ deveṣu ǀ yuṣme iti ǀ
sā ǀ naḥ ǀ nābhiḥ ǀ sadane ǀ sasmin ǀ ūdhan ǁ4.10.8 Aṣṭaka 3.5.10.8Anuvāka 4.1.132
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.