Ṛk 4.10.6
Saṃhitā
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यं ।
तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥
घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् |
तत् ते रुक्मो न रोचत स्वधावः ||
ghṛtám ná pūtám tanū́rarepā́ḥ śúci híraṇyam ǀ
tátte rukmó ná rocata svadhāvaḥ ǁ
ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam |
tat te rukmo na rocata svadhāvaḥ ||
Padapāṭha
घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् ।
तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥
घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् ।
तत् । ते । रुक्मः । न । रोचत । स्वधाऽवः ॥
ghṛtám ǀ ná ǀ pūtám ǀ tanū́ḥ ǀ arepā́ḥ ǀ śúci ǀ híraṇyam ǀ
tát ǀ te ǀ rukmáḥ ǀ ná ǀ rocata ǀ svadhā-vaḥ ǁ
ghṛtam ǀ na ǀ pūtam ǀ tanūḥ ǀ arepāḥ ǀ śuci ǀ hiraṇyam ǀ
tat ǀ te ǀ rukmaḥ ǀ na ǀ rocata ǀ svadhā-vaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.010.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.10.06
- Maṇḍala · Anuvāka · Ṛk
- 04.01.130
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Padapaṅkti, Padapaṅkti Or Uṣṇih, Mahāpadapaṅkti, Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.