Sūkta 5
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 5-8, 11); triṣṭup (3, 4, 9, 12, 13, 15); bhurikpaṅkti (10, 14); virāṭtrisṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः ।
अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥वैश्वानराय मीऌहुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः |
अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः ||vaiśvānarā́ya mīḷhúṣe sajóṣāḥ kathā́ dāśemāgnáye bṛhádbhā́ḥ ǀ
ánūnena bṛhatā́ vakṣáthenópa stabhāyadupamínná ródhaḥ ǁvaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ |
anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ ||वै॒श्वा॒न॒राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ । क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । बृ॒हत् । भाः ।
अनू॑नेन । बृ॒ह॒ता । व॒क्षथे॑न । उप॑ । स्त॒भा॒य॒त् । उ॒प॒ऽमित् । न । रोधः॑ ॥वैश्वानराय । मीळ्हुषे । सऽजोषाः । कथा । दाशेम । अग्नये । बृहत् । भाः ।
अनूनेन । बृहता । वक्षथेन । उप । स्तभायत् । उपऽमित् । न । रोधः ॥vaiśvānarā́ya ǀ mīḷhúṣe ǀ sa-jóṣāḥ ǀ kathā́ ǀ dāśema ǀ agnáye ǀ bṛhát ǀ bhā́ḥ ǀ
ánūnena ǀ bṛhatā́ ǀ vakṣáthena ǀ úpa ǀ stabhāyat ǀ upa-mít ǀ ná ǀ ródhaḥ ǁvaiśvānarāya ǀ mīḷhuṣe ǀ sa-joṣāḥ ǀ kathā ǀ dāśema ǀ agnaye ǀ bṛhat ǀ bhāḥ ǀ
anūnena ǀ bṛhatā ǀ vakṣathena ǀ upa ǀ stabhāyat ǀ upa-mit ǀ na ǀ rodhaḥ ǁ4.5.1 Aṣṭaka 3.5.1.1Anuvāka 4.1.72
-
Ṛk 2
मा निं॑दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् ।
पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् |
पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ||mā́ nindata yá imā́m máhyam rātím devó dadáu mártyāya svadhā́vān ǀ
pā́kāya gṛ́tso amṛ́to vícetā vaiśvānaró nṛ́tamo yahvó agníḥ ǁmā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān |
pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ ||मा । नि॒न्द॒त॒ । यः । इ॒माम् । मह्य॑म् । रा॒तिम् । दे॒वः । द॒दौ । मर्त्या॑य । स्व॒धाऽवा॑न् ।
पाका॑य । गृत्सः॑ । अ॒मृतः॑ । विऽचे॑ताः । वै॒श्वा॒न॒रः । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥मा । निन्दत । यः । इमाम् । मह्यम् । रातिम् । देवः । ददौ । मर्त्याय । स्वधाऽवान् ।
पाकाय । गृत्सः । अमृतः । विऽचेताः । वैश्वानरः । नृऽतमः । यह्वः । अग्निः ॥mā́ ǀ nindata ǀ yáḥ ǀ imā́m ǀ máhyam ǀ rātím ǀ deváḥ ǀ dadáu ǀ mártyāya ǀ svadhā́-vān ǀ
pā́kāya ǀ gṛ́tsaḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ vaiśvānaráḥ ǀ nṛ́-tamaḥ ǀ yahváḥ ǀ agníḥ ǁmā ǀ nindata ǀ yaḥ ǀ imām ǀ mahyam ǀ rātim ǀ devaḥ ǀ dadau ǀ martyāya ǀ svadhā-vān ǀ
pākāya ǀ gṛtsaḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ vaiśvānaraḥ ǀ nṛ-tamaḥ ǀ yahvaḥ ǀ agniḥ ǁ4.5.2 Aṣṭaka 3.5.1.2Anuvāka 4.1.73
-
Ṛk 3
साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् ।
प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षां ॥साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् |
पदं न गोर् अपगूऌहं विविद्वान् अग्निर् मह्यम् प्रेद् उ वोचन् मनीषाम् ||sā́ma dvibárhā máhi tigmábhṛṣṭiḥ sahásraretā vṛṣabhástúviṣmān ǀ
padám ná górápagūḷham vividvā́nagnírmáhyam prédu vocanmanīṣā́m ǁsāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān |
padaṃ na gor apagūḷhaṃ vividvān agnir mahyam pred u vocan manīṣām ||साम॑ । द्वि॒ऽबर्हाः॑ । महि॑ । ति॒ग्मऽभृ॑ष्टिः । स॒हस्र॑ऽरेताः । वृ॒ष॒भः । तुवि॑ष्मान् ।
प॒दम् । न । गोः । अप॑ऽगूळ्हम् । वि॒वि॒द्वान् । अ॒ग्निः । मह्य॑म् । प्र । इत् । ऊं॒ इति॑ । वो॒च॒त् । म॒नी॒षाम् ॥साम । द्विऽबर्हाः । महि । तिग्मऽभृष्टिः । सहस्रऽरेताः । वृषभः । तुविष्मान् ।
पदम् । न । गोः । अपऽगूळ्हम् । विविद्वान् । अग्निः । मह्यम् । प्र । इत् । ऊं इति । वोचत् । मनीषाम् ॥sā́ma ǀ dvi-bárhāḥ ǀ máhi ǀ tigmá-bhṛṣṭiḥ ǀ sahásra-retāḥ ǀ vṛṣabháḥ ǀ túviṣmān ǀ
padám ǀ ná ǀ góḥ ǀ ápa-gūḷham ǀ vividvā́n ǀ agníḥ ǀ máhyam ǀ prá ǀ ít ǀ ūṃ íti ǀ vocat ǀ manīṣā́m ǁsāma ǀ dvi-barhāḥ ǀ mahi ǀ tigma-bhṛṣṭiḥ ǀ sahasra-retāḥ ǀ vṛṣabhaḥ ǀ tuviṣmān ǀ
padam ǀ na ǀ goḥ ǀ apa-gūḷham ǀ vividvān ǀ agniḥ ǀ mahyam ǀ pra ǀ it ǀ ūṃ iti ǀ vocat ǀ manīṣām ǁ4.5.3 Aṣṭaka 3.5.1.3Anuvāka 4.1.74
-
Ṛk 4
प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मजं॑भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः॑ ।
प्र ये मि॒नंति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः |
प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ||prá tā́m̐ agnírbabhasattigmájambhastápiṣṭhena śocíṣā yáḥ surā́dhāḥ ǀ
prá yé minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi ǁpra tāṃ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ |
pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi ||प्र । तान् । अ॒ग्निः । ब॒भ॒स॒त् । ति॒ग्मऽज॑म्भः । तपि॑ष्ठेन । शो॒चिषा॑ । यः । सु॒ऽराधाः॑ ।
प्र । ये । मि॒नन्ति॑ । वरु॑णस्य । धाम॑ । प्रि॒या । मि॒त्रस्य॑ । चेत॑तः । ध्रु॒वाणि॑ ॥प्र । तान् । अग्निः । बभसत् । तिग्मऽजम्भः । तपिष्ठेन । शोचिषा । यः । सुऽराधाः ।
प्र । ये । मिनन्ति । वरुणस्य । धाम । प्रिया । मित्रस्य । चेततः । ध्रुवाणि ॥prá ǀ tā́n ǀ agníḥ ǀ babhasat ǀ tigmá-jambhaḥ ǀ tápiṣṭhena ǀ śocíṣā ǀ yáḥ ǀ su-rā́dhāḥ ǀ
prá ǀ yé ǀ minánti ǀ váruṇasya ǀ dhā́ma ǀ priyā́ ǀ mitrásya ǀ cétataḥ ǀ dhruvā́ṇi ǁpra ǀ tān ǀ agniḥ ǀ babhasat ǀ tigma-jambhaḥ ǀ tapiṣṭhena ǀ śociṣā ǀ yaḥ ǀ su-rādhāḥ ǀ
pra ǀ ye ǀ minanti ǀ varuṇasya ǀ dhāma ǀ priyā ǀ mitrasya ǀ cetataḥ ǀ dhruvāṇi ǁ4.5.4 Aṣṭaka 3.5.1.4Anuvāka 4.1.75
-
Ṛk 5
अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यंतः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः॑ ।
पा॒पासः॒ संतो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रं ॥अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः |
पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ||abhrātáro ná yóṣaṇo vyántaḥ patirípo ná jánayo durévāḥ ǀ
pāpā́saḥ sánto anṛtā́ asatyā́ idám padámajanatā gabhīrám ǁabhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ |
pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram ||अ॒भ्रा॒तरः॑ । न । योष॑णः । व्यन्तः॑ । प॒ति॒ऽरिपः॑ । न । जन॑यः । दुः॒ऽएवाः॑ ।
पा॒पासः॑ । सन्तः॑ । अ॒नृ॒ताः । अ॒स॒त्याः । इ॒दम् । प॒दम् । अ॒ज॒न॒त॒ । ग॒भी॒रम् ॥अभ्रातरः । न । योषणः । व्यन्तः । पतिऽरिपः । न । जनयः । दुःऽएवाः ।
पापासः । सन्तः । अनृताः । असत्याः । इदम् । पदम् । अजनत । गभीरम् ॥abhrātáraḥ ǀ ná ǀ yóṣaṇaḥ ǀ vyántaḥ ǀ pati-rípaḥ ǀ ná ǀ jánayaḥ ǀ duḥ-évāḥ ǀ
pāpā́saḥ ǀ sántaḥ ǀ anṛtā́ḥ ǀ asatyā́ḥ ǀ idám ǀ padám ǀ ajanata ǀ gabhīrám ǁabhrātaraḥ ǀ na ǀ yoṣaṇaḥ ǀ vyantaḥ ǀ pati-ripaḥ ǀ na ǀ janayaḥ ǀ duḥ-evāḥ ǀ
pāpāsaḥ ǀ santaḥ ǀ anṛtāḥ ǀ asatyāḥ ǀ idam ǀ padam ǀ ajanata ǀ gabhīram ǁ4.5.5 Aṣṭaka 3.5.1.5Anuvāka 4.1.76
-
Ṛk 6
इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ ।
बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म |
बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु ||idám me agne kíyate pāvakā́minate gurúm bhārám ná mánma ǀ
bṛháddadhātha dhṛṣatā́ gabhīrám yahvám pṛṣṭhám práyasā saptádhātu ǁidam me agne kiyate pāvakāminate gurum bhāraṃ na manma |
bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu ||इ॒दम् । मे॒ । अ॒ग्ने॒ । किय॑ते । पा॒व॒क॒ । अमि॑नते । गु॒रुम् । भा॒रम् । न । मन्म॑ ।
बृ॒हत् । द॒धा॒थ॒ । धृ॒ष॒ता । ग॒भी॒रम् । य॒ह्वम् । पृ॒ष्ठम् । प्रय॑सा । स॒प्तऽधा॑तु ॥इदम् । मे । अग्ने । कियते । पावक । अमिनते । गुरुम् । भारम् । न । मन्म ।
बृहत् । दधाथ । धृषता । गभीरम् । यह्वम् । पृष्ठम् । प्रयसा । सप्तऽधातु ॥idám ǀ me ǀ agne ǀ kíyate ǀ pāvaka ǀ áminate ǀ gurúm ǀ bhārám ǀ ná ǀ mánma ǀ
bṛhát ǀ dadhātha ǀ dhṛṣatā́ ǀ gabhīrám ǀ yahvám ǀ pṛṣṭhám ǀ práyasā ǀ saptá-dhātu ǁidam ǀ me ǀ agne ǀ kiyate ǀ pāvaka ǀ aminate ǀ gurum ǀ bhāram ǀ na ǀ manma ǀ
bṛhat ǀ dadhātha ǀ dhṛṣatā ǀ gabhīram ǀ yahvam ǀ pṛṣṭham ǀ prayasā ǀ sapta-dhātu ǁ4.5.6 Aṣṭaka 3.5.2.1Anuvāka 4.1.77
-
Ṛk 7
तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः ।
स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः |
ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु ||támínnvévá samanā́ samānámabhí krátvā punatī́ dhītíraśyāḥ ǀ
sasásya cármannádhi cā́ru pṛ́śnerágre rupá ā́rupitam jábāru ǁtam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ |
sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru ||तम् । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नम् । अ॒भि । क्रत्वा॑ । पु॒न॒ती । धी॒तिः । अ॒श्याः॒ ।
स॒सस्य॑ । चर्म॑न् । अधि॑ । चारु॑ । पृश्नेः॑ । अग्ने॑ । रु॒पः । अरु॑पितम् । जबा॑रु ॥तम् । इत् । नु । एव । समना । समानम् । अभि । क्रत्वा । पुनती । धीतिः । अश्याः ।
ससस्य । चर्मन् । अधि । चारु । पृश्नेः । अग्ने । रुपः । अरुपितम् । जबारु ॥tám ǀ ít ǀ nú ǀ evá ǀ samanā́ ǀ samānám ǀ abhí ǀ krátvā ǀ punatī́ ǀ dhītíḥ ǀ aśyāḥ ǀ
sasásya ǀ cárman ǀ ádhi ǀ cā́ru ǀ pṛ́śneḥ ǀ ágne ǀ rupáḥ ǀ árupitam ǀ jábāru ǁtam ǀ it ǀ nu ǀ eva ǀ samanā ǀ samānam ǀ abhi ǀ kratvā ǀ punatī ǀ dhītiḥ ǀ aśyāḥ ǀ
sasasya ǀ carman ǀ adhi ǀ cāru ǀ pṛśneḥ ǀ agne ǀ rupaḥ ǀ arupitam ǀ jabāru ǁ4.5.7 Aṣṭaka 3.5.2.2Anuvāka 4.1.78
-
Ṛk 8
प्र॒वाच्यं॒ वच॑सः॒ किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दंति ।
यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति |
यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः ||pravā́cyam vácasaḥ kím me asyá gúhā hitámúpa niṇígvadanti ǀ
yádusríyāṇāmápa vā́riva vránpā́ti priyám rupó ágram padám véḥ ǁpravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti |
yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ ||प्र॒ऽवाच्य॑म् । वच॑सः । किम् । मे॒ । अ॒स्य । गुहा॑ । हि॒तम् । उप॑ । नि॒णिक् । व॒द॒न्ति॒ ।
यत् । उ॒स्रिया॑णाम् । अप॑ । वाःऽइ॑व । व्रन् । पाति॑ । प्रि॒यम् । रु॒पः । अग्र॑म् । प॒दम् । वेरिति॒ वेः ॥प्रऽवाच्यम् । वचसः । किम् । मे । अस्य । गुहा । हितम् । उप । निणिक् । वदन्ति ।
यत् । उस्रियाणाम् । अप । वाःऽइव । व्रन् । पाति । प्रियम् । रुपः । अग्रम् । पदम् । वेरिति वेः ॥pra-vā́cyam ǀ vácasaḥ ǀ kím ǀ me ǀ asyá ǀ gúhā ǀ hitám ǀ úpa ǀ niṇík ǀ vadanti ǀ
yát ǀ usríyāṇām ǀ ápa ǀ vā́ḥ-iva ǀ vrán ǀ pā́ti ǀ priyám ǀ rupáḥ ǀ ágram ǀ padám ǀ véríti véḥ ǁpra-vācyam ǀ vacasaḥ ǀ kim ǀ me ǀ asya ǀ guhā ǀ hitam ǀ upa ǀ niṇik ǀ vadanti ǀ
yat ǀ usriyāṇām ǀ apa ǀ vāḥ-iva ǀ vran ǀ pāti ǀ priyam ǀ rupaḥ ǀ agram ǀ padam ǀ veriti veḥ ǁ4.5.8 Aṣṭaka 3.5.2.3Anuvāka 4.1.79
-
Ṛk 9
इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः ।
ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः |
ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद ||idámu tyánmáhi mahā́mánīkam yádusríyā sácata pūrvyám gáuḥ ǀ
ṛtásya padé ádhi dī́dyānam gúhā raghuṣyádraghuyádviveda ǁidam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ |
ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda ||इ॒दम् । ऊं॒ इति॑ । त्यत् । महि॑ । म॒हाम् । अनी॑कम् । यत् । उ॒स्रिया॑ । सच॑त । पू॒र्व्यम् । गौः ।
ऋ॒तस्य॑ । प॒दे । अधि॑ । दीद्या॑नम् । गुहा॑ । र॒घु॒ऽस्यत् । र॒घु॒ऽयत् । वि॒वे॒द॒ ॥इदम् । ऊं इति । त्यत् । महि । महाम् । अनीकम् । यत् । उस्रिया । सचत । पूर्व्यम् । गौः ।
ऋतस्य । पदे । अधि । दीद्यानम् । गुहा । रघुऽस्यत् । रघुऽयत् । विवेद ॥idám ǀ ūṃ íti ǀ tyát ǀ máhi ǀ mahā́m ǀ ánīkam ǀ yát ǀ usríyā ǀ sácata ǀ pūrvyám ǀ gáuḥ ǀ
ṛtásya ǀ padé ǀ ádhi ǀ dī́dyānam ǀ gúhā ǀ raghu-syát ǀ raghu-yát ǀ viveda ǁidam ǀ ūṃ iti ǀ tyat ǀ mahi ǀ mahām ǀ anīkam ǀ yat ǀ usriyā ǀ sacata ǀ pūrvyam ǀ gauḥ ǀ
ṛtasya ǀ pade ǀ adhi ǀ dīdyānam ǀ guhā ǀ raghu-syat ǀ raghu-yat ǀ viveda ǁ4.5.9 Aṣṭaka 3.5.2.4Anuvāka 4.1.80
-
Ṛk 10
अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ ।
मा॒तुष्प॒दे प॑र॒मे अंति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः |
मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ||ádha dyutānáḥ pitróḥ sácāsā́manuta gúhyam cā́ru pṛ́śneḥ ǀ
mātúṣpadé paramé ánti ṣádgórvṛ́ṣṇaḥ śocíṣaḥ práyatasya jihvā́ ǁadha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ |
mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā ||अध॑ । द्यु॒ता॒नः । पि॒त्रोः । सचा॑ । आ॒सा । अम॑नुत । गुह्य॑म् । चारु॑ । पृश्नेः॑ ।
मा॒तुः । प॒दे । प॒र॒मे । अन्ति॑ । सत् । गोः । वृष्णः॑ । शो॒चिषः॑ । प्रऽय॑तस्य । जि॒ह्वा ॥अध । द्युतानः । पित्रोः । सचा । आसा । अमनुत । गुह्यम् । चारु । पृश्नेः ।
मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्रऽयतस्य । जिह्वा ॥ádha ǀ dyutānáḥ ǀ pitróḥ ǀ sácā ǀ āsā́ ǀ ámanuta ǀ gúhyam ǀ cā́ru ǀ pṛ́śneḥ ǀ
mātúḥ ǀ padé ǀ paramé ǀ ánti ǀ sát ǀ góḥ ǀ vṛ́ṣṇaḥ ǀ śocíṣaḥ ǀ prá-yatasya ǀ jihvā́ ǁadha ǀ dyutānaḥ ǀ pitroḥ ǀ sacā ǀ āsā ǀ amanuta ǀ guhyam ǀ cāru ǀ pṛśneḥ ǀ
mātuḥ ǀ pade ǀ parame ǀ anti ǀ sat ǀ goḥ ǀ vṛṣṇaḥ ǀ śociṣaḥ ǀ pra-yatasya ǀ jihvā ǁ4.5.10 Aṣṭaka 3.5.2.5Anuvāka 4.1.81
-
Ṛk 11
ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दं ।
त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्यां ॥ऋतं वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् |
त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् ||ṛtám voce námasā pṛcchyámānastávāśásā jātavedo yádīdám ǀ
tvámasyá kṣayasi yáddha víśvam diví yádu dráviṇam yátpṛthivyā́m ǁṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam |
tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām ||ऋ॒तम् । वो॒चे॒ । नम॑सा । पृ॒च्छ्यमा॑नः । तव॑ । आ॒ऽशसा॑ । जा॒त॒ऽवे॒दः॒ । यदि॑ । इ॒दम् ।
त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व॑म् । दि॒वि । यत् । ऊं॒ इति॑ । द्रवि॑णम् । यत् । पृ॒थि॒व्याम् ॥ऋतम् । वोचे । नमसा । पृच्छ्यमानः । तव । आऽशसा । जातऽवेदः । यदि । इदम् ।
त्वम् । अस्य । क्षयसि । यत् । ह । विश्वम् । दिवि । यत् । ऊं इति । द्रविणम् । यत् । पृथिव्याम् ॥ṛtám ǀ voce ǀ námasā ǀ pṛcchyámānaḥ ǀ táva ǀ ā-śásā ǀ jāta-vedaḥ ǀ yádi ǀ idám ǀ
tvám ǀ asyá ǀ kṣayasi ǀ yát ǀ ha ǀ víśvam ǀ diví ǀ yát ǀ ūṃ íti ǀ dráviṇam ǀ yát ǀ pṛthivyā́m ǁṛtam ǀ voce ǀ namasā ǀ pṛcchyamānaḥ ǀ tava ǀ ā-śasā ǀ jāta-vedaḥ ǀ yadi ǀ idam ǀ
tvam ǀ asya ǀ kṣayasi ǀ yat ǀ ha ǀ viśvam ǀ divi ǀ yat ǀ ūṃ iti ǀ draviṇam ǀ yat ǀ pṛthivyām ǁ4.5.11 Aṣṭaka 3.5.3.1Anuvāka 4.1.82
-
Ṛk 12
किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् ।
गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् |
गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ||kím no asyá dráviṇam káddha rátnam ví no voco jātavedaścikitvā́n ǀ
gúhā́dhvanaḥ paramám yánno asyá réku padám ná nidānā́ áganma ǁkiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān |
guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma ||किम् । नः॒ । अ॒स्य । द्रवि॑णम् । कत् । ह॒ । रत्न॑म् । वि । नः॒ । वो॒चः॒ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।
गुहा॑ । अध्व॑नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु॑ । प॒दम् । न । नि॒दा॒नाः । अग॑न्म ॥किम् । नः । अस्य । द्रविणम् । कत् । ह । रत्नम् । वि । नः । वोचः । जातऽवेदः । चिकित्वान् ।
गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । निदानाः । अगन्म ॥kím ǀ naḥ ǀ asyá ǀ dráviṇam ǀ kát ǀ ha ǀ rátnam ǀ ví ǀ naḥ ǀ vocaḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǀ
gúhā ǀ ádhvanaḥ ǀ paramám ǀ yát ǀ naḥ ǀ asyá ǀ réku ǀ padám ǀ ná ǀ nidānā́ḥ ǀ áganma ǁkim ǀ naḥ ǀ asya ǀ draviṇam ǀ kat ǀ ha ǀ ratnam ǀ vi ǀ naḥ ǀ vocaḥ ǀ jāta-vedaḥ ǀ cikitvān ǀ
guhā ǀ adhvanaḥ ǀ paramam ǀ yat ǀ naḥ ǀ asya ǀ reku ǀ padam ǀ na ǀ nidānāḥ ǀ aganma ǁ4.5.12 Aṣṭaka 3.5.3.2Anuvāka 4.1.83
-
Ṛk 13
का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाजं॑ ।
क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् |
कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः ||kā́ maryā́dā vayúnā káddha vāmámácchā gamema raghávo ná vā́jam ǀ
kadā́ no devī́ramṛ́tasya pátnīḥ sū́ro várṇena tatanannuṣā́saḥ ǁkā maryādā vayunā kad dha vāmam acchā gamema raghavo na vājam |
kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ ||का । म॒र्यादा॑ । व॒युना॑ । कत् । ह॒ । वा॒मम् । अच्छ॑ । ग॒मे॒म॒ । र॒घवः॑ । न । वाज॑म् ।
क॒दा । नः॒ । दे॒वीः । अ॒मृत॑स्य । पत्नीः॑ । सूरः॑ । वर्णे॑न । त॒त॒न॒न् । उ॒षसः॑ ॥का । मर्यादा । वयुना । कत् । ह । वामम् । अच्छ । गमेम । रघवः । न । वाजम् ।
कदा । नः । देवीः । अमृतस्य । पत्नीः । सूरः । वर्णेन । ततनन् । उषसः ॥kā́ ǀ maryā́dā ǀ vayúnā ǀ kát ǀ ha ǀ vāmám ǀ áccha ǀ gamema ǀ raghávaḥ ǀ ná ǀ vā́jam ǀ
kadā́ ǀ naḥ ǀ devī́ḥ ǀ amṛ́tasya ǀ pátnīḥ ǀ sū́raḥ ǀ várṇena ǀ tatanan ǀ uṣásaḥ ǁkā ǀ maryādā ǀ vayunā ǀ kat ǀ ha ǀ vāmam ǀ accha ǀ gamema ǀ raghavaḥ ǀ na ǀ vājam ǀ
kadā ǀ naḥ ǀ devīḥ ǀ amṛtasya ǀ patnīḥ ǀ sūraḥ ǀ varṇena ǀ tatanan ǀ uṣasaḥ ǁ4.5.13 Aṣṭaka 3.5.3.3Anuvāka 4.1.84
-
Ṛk 14
अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ ।
अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दंत्यनायु॒धास॒ आस॑ता सचंतां ॥अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः |
अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ||aniréṇa vácasā phalgvéna pratī́tyena kṛdhúnātṛpā́saḥ ǀ
ádhā té agne kímihā́ vadantyanāyudhā́sa ā́satā sacantām ǁanireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ |
adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām ||अ॒नि॒रेण॑ । वच॑सा । फ॒ल्ग्वे॑न । प्र॒तीत्ये॑न । कृ॒धुना॑ । अ॒तृ॒पासः॑ ।
अध॑ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः॑ । अस॑ता । स॒च॒न्ता॒म् ॥अनिरेण । वचसा । फल्ग्वेन । प्रतीत्येन । कृधुना । अतृपासः ।
अध । ते । अग्ने । किम् । इह । वदन्ति । अनायुधासः । असता । सचन्ताम् ॥aniréṇa ǀ vácasā ǀ phalgvéna ǀ pratī́tyena ǀ kṛdhúnā ǀ atṛpā́saḥ ǀ
ádha ǀ té ǀ agne ǀ kím ǀ ihá ǀ vadanti ǀ anāyudhā́saḥ ǀ ásatā ǀ sacantām ǁanireṇa ǀ vacasā ǀ phalgvena ǀ pratītyena ǀ kṛdhunā ǀ atṛpāsaḥ ǀ
adha ǀ te ǀ agne ǀ kim ǀ iha ǀ vadanti ǀ anāyudhāsaḥ ǀ asatā ǀ sacantām ǁ4.5.14 Aṣṭaka 3.5.3.4Anuvāka 4.1.85
-
Ṛk 15
अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच ।
रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच |
रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् ||asyá śriyé samidhānásya vṛ́ṣṇo vásoránīkam dáma ā́ ruroca ǀ
rúśadvásānaḥ sudṛ́śīkarūpaḥ kṣitírná rāyā́ puruvā́ro adyaut ǁasya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca |
ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut ||अ॒स्य । श्रि॒ये । स॒म्ऽइ॒धा॒नस्य॑ । वृष्णः॑ । वसोः॑ । अनी॑कम् । दमे॑ । आ । रु॒रो॒च॒ ।
रुश॑त् । वसा॑नः । सु॒दृशी॑कऽरूपः । क्षि॒तिः । न । रा॒या । पु॒रु॒ऽवारः॑ । अ॒द्यौ॒त् ॥अस्य । श्रिये । सम्ऽइधानस्य । वृष्णः । वसोः । अनीकम् । दमे । आ । रुरोच ।
रुशत् । वसानः । सुदृशीकऽरूपः । क्षितिः । न । राया । पुरुऽवारः । अद्यौत् ॥asyá ǀ śriyé ǀ sam-idhānásya ǀ vṛ́ṣṇaḥ ǀ vásoḥ ǀ ánīkam ǀ dáme ǀ ā́ ǀ ruroca ǀ
rúśat ǀ vásānaḥ ǀ sudṛ́śīka-rūpaḥ ǀ kṣitíḥ ǀ ná ǀ rāyā́ ǀ puru-vā́raḥ ǀ adyaut ǁasya ǀ śriye ǀ sam-idhānasya ǀ vṛṣṇaḥ ǀ vasoḥ ǀ anīkam ǀ dame ǀ ā ǀ ruroca ǀ
ruśat ǀ vasānaḥ ǀ sudṛśīka-rūpaḥ ǀ kṣitiḥ ǀ na ǀ rāyā ǀ puru-vāraḥ ǀ adyaut ǁ4.5.15 Aṣṭaka 3.5.3.5Anuvāka 4.1.86
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.