Sūkta 2
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4-7, 9, 13, 15, 17, 18, 20); virāṭtrisṭup (8, 10, 11); paṅktiḥ (1, 19); triṣṭup (3, 16); nicṛtpaṅkti (12); svarāṭpaṅkti (14)
2nd set of styles triṣṭubh
-
Ṛk 1
यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ ।
होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि |
होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै ||yó mártyeṣvamṛ́ta ṛtā́vā devó devéṣvaratírnidhā́yi ǀ
hótā yájiṣṭho mahnā́ śucádhyai havyáiragnírmánuṣa īrayádhyai ǁyo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi |
hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai ||यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । दे॒वः । दे॒वेषु॑ । अ॒र॒तिः । नि॒ऽधायि॑ ।
होता॑ । यजि॑ष्ठः । म॒ह्ना । शु॒चध्यै॑ । ह॒व्यैः । अ॒ग्निः । मनु॑षः । ई॒र॒यध्यै॑ ॥यः । मर्त्येषु । अमृतः । ऋतऽवा । देवः । देवेषु । अरतिः । निऽधायि ।
होता । यजिष्ठः । मह्ना । शुचध्यै । हव्यैः । अग्निः । मनुषः । ईरयध्यै ॥yáḥ ǀ mártyeṣu ǀ amṛ́taḥ ǀ ṛtá-vā ǀ deváḥ ǀ devéṣu ǀ aratíḥ ǀ ni-dhā́yi ǀ
hótā ǀ yájiṣṭhaḥ ǀ mahnā́ ǀ śucádhyai ǀ havyáiḥ ǀ agníḥ ǀ mánuṣaḥ ǀ īrayádhyai ǁyaḥ ǀ martyeṣu ǀ amṛtaḥ ǀ ṛta-vā ǀ devaḥ ǀ deveṣu ǀ aratiḥ ǀ ni-dhāyi ǀ
hotā ǀ yajiṣṭhaḥ ǀ mahnā ǀ śucadhyai ǀ havyaiḥ ǀ agniḥ ǀ manuṣaḥ ǀ īrayadhyai ǁ4.2.1 Aṣṭaka 3.4.16.1Anuvāka 4.1.21
-
Ṛk 2
इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अं॒तर॑ग्ने ।
दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्रांश्च॑ ॥इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने |
दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च ||ihá tvám sūno sahaso no adyá jātó jātā́m̐ ubháyām̐ antáragne ǀ
dūtá īyase yuyujāná ṛṣva ṛjumuṣkā́nvṛ́ṣaṇaḥ śukrā́ṃśca ǁiha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar agne |
dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca ||इ॒ह । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । जा॒तः । जा॒तान् । उ॒भया॑न् । अ॒न्तः । अ॒ग्ने॒ ।
दू॒तः । ई॒य॒से॒ । यु॒यु॒जा॒नः । ऋ॒ष्व॒ । ऋ॒जु॒ऽमु॒ष्कान् । वृष॑णः । शु॒क्रान् । च॒ ॥इह । त्वम् । सूनो इति । सहसः । नः । अद्य । जातः । जातान् । उभयान् । अन्तः । अग्ने ।
दूतः । ईयसे । युयुजानः । ऋष्व । ऋजुऽमुष्कान् । वृषणः । शुक्रान् । च ॥ihá ǀ tvám ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ jātáḥ ǀ jātā́n ǀ ubháyān ǀ antáḥ ǀ agne ǀ
dūtáḥ ǀ īyase ǀ yuyujānáḥ ǀ ṛṣva ǀ ṛju-muṣkā́n ǀ vṛ́ṣaṇaḥ ǀ śukrā́n ǀ ca ǁiha ǀ tvam ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ jātaḥ ǀ jātān ǀ ubhayān ǀ antaḥ ǀ agne ǀ
dūtaḥ ǀ īyase ǀ yuyujānaḥ ǀ ṛṣva ǀ ṛju-muṣkān ǀ vṛṣaṇaḥ ǀ śukrān ǀ ca ǁ4.2.2 Aṣṭaka 3.4.16.2Anuvāka 4.1.22
-
Ṛk 3
अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा ।
अं॒तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्मांश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा |
अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् ||átyā vṛdhasnū́ róhitā ghṛtásnū ṛtásya manye mánasā jáviṣṭhā ǀ
antárīyase aruṣā́ yujānó yuṣmā́ṃśca devā́nvíśa ā́ ca mártān ǁatyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā |
antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān ||अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा ।
अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥अत्या । वृधस्नू इति वृधऽस्नू । रोहिता । घृतस्नू इति घृतऽस्नू । ऋतस्य । मन्ये । मनसा । जविष्ठा ।
अन्तः । ईयसे । अरुषा । युजानः । युष्मान् । च । देवान् । विशः । आ । च । मर्तान् ॥átyā ǀ vṛdhasnū́ íti vṛdha-snū́ ǀ róhitā ǀ ghṛtásnū íti ghṛtá-snū ǀ ṛtásya ǀ manye ǀ mánasā ǀ jáviṣṭhā ǀ
antáḥ ǀ īyase ǀ aruṣā́ ǀ yujānáḥ ǀ yuṣmā́n ǀ ca ǀ devā́n ǀ víśaḥ ǀ ā́ ǀ ca ǀ mártān ǁatyā ǀ vṛdhasnū iti vṛdha-snū ǀ rohitā ǀ ghṛtasnū iti ghṛta-snū ǀ ṛtasya ǀ manye ǀ manasā ǀ javiṣṭhā ǀ
antaḥ ǀ īyase ǀ aruṣā ǀ yujānaḥ ǀ yuṣmān ǀ ca ǀ devān ǀ viśaḥ ǀ ā ǀ ca ǀ martān ǁ4.2.3 Aṣṭaka 3.4.16.3Anuvāka 4.1.23
-
Ṛk 4
अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिंद्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त ।
स्वश्वो॑ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत |
स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ||aryamáṇam váruṇam mitrámeṣāmíndrāvíṣṇū marúto aśvínotá ǀ
sváśvo agne suráthaḥ surā́dhā édu vaha suhavíṣe jánāya ǁaryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota |
svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya ||अ॒र्य॒मण॑म् । वरु॑णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । अ॒श्विना॑ । उ॒त ।
सु॒ऽअश्वः॑ । अ॒ग्ने॒ । सु॒ऽरथः॑ । सु॒ऽराधाः॑ । आ । इत् । ऊं॒ इति॑ । व॒ह॒ । सु॒ऽह॒विषे॑ । जना॑य ॥अर्यमणम् । वरुणम् । मित्रम् । एषाम् । इन्द्राविष्णू इति । मरुतः । अश्विना । उत ।
सुऽअश्वः । अग्ने । सुऽरथः । सुऽराधाः । आ । इत् । ऊं इति । वह । सुऽहविषे । जनाय ॥aryamáṇam ǀ váruṇam ǀ mitrám ǀ eṣām ǀ índrāvíṣṇū íti ǀ marútaḥ ǀ aśvínā ǀ utá ǀ
su-áśvaḥ ǀ agne ǀ su-ráthaḥ ǀ su-rā́dhāḥ ǀ ā́ ǀ ít ǀ ūṃ íti ǀ vaha ǀ su-havíṣe ǀ jánāya ǁaryamaṇam ǀ varuṇam ǀ mitram ǀ eṣām ǀ indrāviṣṇū iti ǀ marutaḥ ǀ aśvinā ǀ uta ǀ
su-aśvaḥ ǀ agne ǀ su-rathaḥ ǀ su-rādhāḥ ǀ ā ǀ it ǀ ūṃ iti ǀ vaha ǀ su-haviṣe ǀ janāya ǁ4.2.4 Aṣṭaka 3.4.16.4Anuvāka 4.1.24
-
Ṛk 5
गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।
इळा॑वाँ ए॒षो अ॑सुर प्र॒जावां॑दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः |
इऌआवां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ||gómām̐ agné’vimām̐ aśvī́ yajñó nṛvátsakhā sádamídapramṛṣyáḥ ǀ
íḷāvām̐ eṣó asura prajā́vāndīrghó rayíḥ pṛthubudhnáḥ sabhā́vān ǁgomāṃ agne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ |
iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān ||गोऽमा॑न् । अ॒ग्ने॒ । अवि॑ऽमान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्ऽस॑खा । सद॑म् । इत् । अ॒प्र॒ऽमृ॒ष्यः ।
इळा॑ऽवान् । ए॒षः । अ॒सु॒र॒ । प्र॒जाऽवा॑न् । दी॒र्घः । र॒यिः । पृ॒थु॒ऽबु॒ध्नः । स॒भाऽवा॑न् ॥गोऽमान् । अग्ने । अविऽमान् । अश्वी । यज्ञः । नृवत्ऽसखा । सदम् । इत् । अप्रऽमृष्यः ।
इळाऽवान् । एषः । असुर । प्रजाऽवान् । दीर्घः । रयिः । पृथुऽबुध्नः । सभाऽवान् ॥gó-mān ǀ agne ǀ ávi-mān ǀ aśvī́ ǀ yajñáḥ ǀ nṛvát-sakhā ǀ sádam ǀ ít ǀ apra-mṛṣyáḥ ǀ
íḷā-vān ǀ eṣáḥ ǀ asura ǀ prajā́-vān ǀ dīrgháḥ ǀ rayíḥ ǀ pṛthu-budhnáḥ ǀ sabhā́-vān ǁgo-mān ǀ agne ǀ avi-mān ǀ aśvī ǀ yajñaḥ ǀ nṛvat-sakhā ǀ sadam ǀ it ǀ apra-mṛṣyaḥ ǀ
iḷā-vān ǀ eṣaḥ ǀ asura ǀ prajā-vān ǀ dīrghaḥ ǀ rayiḥ ǀ pṛthu-budhnaḥ ǀ sabhā-vān ǁ4.2.5 Aṣṭaka 3.4.16.5Anuvāka 4.1.25
-
Ṛk 6
यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वा त॒तप॑ते त्वा॒या ।
भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ॥यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया |
भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य ||yásta idhmám jabháratsiṣvidānó mūrdhā́nam vā tatápate tvāyā́ ǀ
bhúvastásya svátavām̐ḥ pāyúragne víśvasmātsīmaghāyatá uruṣya ǁyas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā |
bhuvas tasya svatavāṃḥ pāyur agne viśvasmāt sīm aghāyata uruṣya ||यः । ते॒ । इ॒ध्मम् । ज॒भर॑त् । सि॒स्वि॒दा॒नः । मू॒र्धान॑म् । वा॒ । त॒तप॑ते । त्वा॒ऽया ।
भुवः॑ । तस्य॑ । स्वऽत॑वान् । पा॒युः । अ॒ग्ने॒ । विश्व॑स्मात् । सी॒म् । अ॒घ॒ऽय॒तः । उ॒रु॒ष्य॒ ॥यः । ते । इध्मम् । जभरत् । सिस्विदानः । मूर्धानम् । वा । ततपते । त्वाऽया ।
भुवः । तस्य । स्वऽतवान् । पायुः । अग्ने । विश्वस्मात् । सीम् । अघऽयतः । उरुष्य ॥yáḥ ǀ te ǀ idhmám ǀ jabhárat ǀ sisvidānáḥ ǀ mūrdhā́nam ǀ vā ǀ tatápate ǀ tvā-yā́ ǀ
bhúvaḥ ǀ tásya ǀ svá-tavān ǀ pāyúḥ ǀ agne ǀ víśvasmāt ǀ sīm ǀ agha-yatáḥ ǀ uruṣya ǁyaḥ ǀ te ǀ idhmam ǀ jabharat ǀ sisvidānaḥ ǀ mūrdhānam ǀ vā ǀ tatapate ǀ tvā-yā ǀ
bhuvaḥ ǀ tasya ǀ sva-tavān ǀ pāyuḥ ǀ agne ǀ viśvasmāt ǀ sīm ǀ agha-yataḥ ǀ uruṣya ǁ4.2.6 Aṣṭaka 3.4.17.1Anuvāka 4.1.26
-
Ṛk 7
यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्मं॒द्रमति॑थिमु॒दीर॑त् ।
आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् |
आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् ||yáste bhárādánniyate cidánnam niśíṣanmandrámátithimudī́rat ǀ
ā́ devayúrinádhate duroṇé tásminrayírdhruvó astu dā́svān ǁyas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat |
ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān ||यः । ते॒ । भरा॑त् । अन्नि॑ऽयते । चि॒त् । अन्न॑म् । नि॒ऽशिष॑त् । म॒न्द्रम् । अति॑थिम् । उ॒त्ऽईर॑त् ।
आ । दे॒व॒ऽयुः । इ॒नध॑ते । दु॒रो॒णे । तस्मि॑न् । र॒यिः । ध्रु॒वः । अ॒स्तु॒ । दास्वा॑न् ॥यः । ते । भरात् । अन्निऽयते । चित् । अन्नम् । निऽशिषत् । मन्द्रम् । अतिथिम् । उत्ऽईरत् ।
आ । देवऽयुः । इनधते । दुरोणे । तस्मिन् । रयिः । ध्रुवः । अस्तु । दास्वान् ॥yáḥ ǀ te ǀ bhárāt ǀ ánni-yate ǀ cit ǀ ánnam ǀ ni-śíṣat ǀ mandrám ǀ átithim ǀ ut-ī́rat ǀ
ā́ ǀ deva-yúḥ ǀ inádhate ǀ duroṇé ǀ tásmin ǀ rayíḥ ǀ dhruváḥ ǀ astu ǀ dā́svān ǁyaḥ ǀ te ǀ bharāt ǀ anni-yate ǀ cit ǀ annam ǀ ni-śiṣat ǀ mandram ǀ atithim ǀ ut-īrat ǀ
ā ǀ deva-yuḥ ǀ inadhate ǀ duroṇe ǀ tasmin ǀ rayiḥ ǀ dhruvaḥ ǀ astu ǀ dāsvān ǁ4.2.7 Aṣṭaka 3.4.17.2Anuvāka 4.1.27
-
Ṛk 8
यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् ।
अश्वो॒ न स्वे दम॒ आ हे॒म्यावां॒तमंह॑सः पीपरो दा॒श्वांसं॑ ॥यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् |
अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ||yástvā doṣā́ yá uṣási praśáṃsātpriyám vā tvā kṛṇávate havíṣmān ǀ
áśvo ná své dáma ā́ hemyā́vāntámáṃhasaḥ pīparo dāśvā́ṃsam ǁyas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān |
aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam ||यः । त्वा॒ । दो॒षा । यः । उ॒षसि॑ । प्र॒ऽशंसा॑त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव॑ते । ह॒विष्मा॑न् ।
अश्वः॑ । न । स्वे । दमे॑ । आ । हे॒म्याऽवा॑न् । तम् । अंह॑सः । पी॒प॒रः॒ । दा॒श्वांस॑म् ॥यः । त्वा । दोषा । यः । उषसि । प्रऽशंसात् । प्रियम् । वा । त्वा । कृणवते । हविष्मान् ।
अश्वः । न । स्वे । दमे । आ । हेम्याऽवान् । तम् । अंहसः । पीपरः । दाश्वांसम् ॥yáḥ ǀ tvā ǀ doṣā́ ǀ yáḥ ǀ uṣási ǀ pra-śáṃsāt ǀ priyám ǀ vā ǀ tvā ǀ kṛṇávate ǀ havíṣmān ǀ
áśvaḥ ǀ ná ǀ své ǀ dáme ǀ ā́ ǀ hemyā́-vān ǀ tám ǀ áṃhasaḥ ǀ pīparaḥ ǀ dāśvā́ṃsam ǁyaḥ ǀ tvā ǀ doṣā ǀ yaḥ ǀ uṣasi ǀ pra-śaṃsāt ǀ priyam ǀ vā ǀ tvā ǀ kṛṇavate ǀ haviṣmān ǀ
aśvaḥ ǀ na ǀ sve ǀ dame ǀ ā ǀ hemyā-vān ǀ tam ǀ aṃhasaḥ ǀ pīparaḥ ǀ dāśvāṃsam ǁ4.2.8 Aṣṭaka 3.4.17.3Anuvāka 4.1.28
-
Ṛk 9
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् ।
न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् |
न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ||yástúbhyamagne amṛ́tāya dā́śaddúvastvé kṛṇávate yatásruk ǀ
ná sá rāyā́ śaśamānó ví yoṣannáinamáṃhaḥ pári varadaghāyóḥ ǁyas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk |
na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ ||यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दाश॑त् । दुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् ।
न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥यः । तुभ्यम् । अग्ने । अमृताय । दाशत् । दुवः । त्वे इति । कृणवते । यतऽस्रुक् ।
न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघऽयोः ॥yáḥ ǀ túbhyam ǀ agne ǀ amṛ́tāya ǀ dā́śat ǀ dúvaḥ ǀ tvé íti ǀ kṛṇávate ǀ yatá-sruk ǀ
ná ǀ sáḥ ǀ rāyā́ ǀ śaśamānáḥ ǀ ví ǀ yoṣat ǀ ná ǀ enam ǀ áṃhaḥ ǀ pári ǀ varat ǀ agha-yóḥ ǁyaḥ ǀ tubhyam ǀ agne ǀ amṛtāya ǀ dāśat ǀ duvaḥ ǀ tve iti ǀ kṛṇavate ǀ yata-sruk ǀ
na ǀ saḥ ǀ rāyā ǀ śaśamānaḥ ǀ vi ǀ yoṣat ǀ na ǀ enam ǀ aṃhaḥ ǀ pari ǀ varat ǀ agha-yoḥ ǁ4.2.9 Aṣṭaka 3.4.17.4Anuvāka 4.1.29
-
Ṛk 10
यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो॑षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा॑णः ।
प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा॑म॒ यस्य॑ विध॒तो वृ॒धासः॑ ॥यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः |
प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ||yásya tvámagne adhvarám jújoṣo devó mártasya súdhitam rárāṇaḥ ǀ
prītédasaddhótrā sā́ yaviṣṭhā́sāma yásya vidható vṛdhā́saḥ ǁyasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ |
prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ ||यस्य॑ । त्वम् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जुजो॑षः । दे॒वः । मर्त॑स्य । सुऽधि॑तम् । ररा॑णः ।
प्री॒ता । इत् । अ॒स॒त् । होत्रा॑ । सा । य॒वि॒ष्ठ॒ । असा॑म । यस्य॑ । वि॒ध॒तः । वृ॒धासः॑ ॥यस्य । त्वम् । अग्ने । अध्वरम् । जुजोषः । देवः । मर्तस्य । सुऽधितम् । रराणः ।
प्रीता । इत् । असत् । होत्रा । सा । यविष्ठ । असाम । यस्य । विधतः । वृधासः ॥yásya ǀ tvám ǀ agne ǀ adhvarám ǀ jújoṣaḥ ǀ deváḥ ǀ mártasya ǀ sú-dhitam ǀ rárāṇaḥ ǀ
prītā́ ǀ ít ǀ asat ǀ hótrā ǀ sā́ ǀ yaviṣṭha ǀ ásāma ǀ yásya ǀ vidhatáḥ ǀ vṛdhā́saḥ ǁyasya ǀ tvam ǀ agne ǀ adhvaram ǀ jujoṣaḥ ǀ devaḥ ǀ martasya ǀ su-dhitam ǀ rarāṇaḥ ǀ
prītā ǀ it ǀ asat ǀ hotrā ǀ sā ǀ yaviṣṭha ǀ asāma ǀ yasya ǀ vidhataḥ ǀ vṛdhāsaḥ ǁ4.2.10 Aṣṭaka 3.4.17.5Anuvāka 4.1.30
-
Ṛk 11
चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् ।
रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् |
राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ||cíttimácittim cinavadví vidvā́npṛṣṭhéva vītā́ vṛjinā́ ca mártān ǀ
rāyé ca naḥ svapatyā́ya deva dítim ca rā́svā́ditimuruṣya ǁcittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān |
rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya ||चित्ति॑म् । अचि॑त्तिम् । चि॒न॒व॒त् । वि । वि॒द्वान् । पृ॒ष्ठाऽइ॑व । वी॒ता । वृ॒जि॒ना । च॒ । मर्ता॑न् ।
रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्याय॑ । दे॒व॒ । दिति॑म् । च॒ । रास्व॑ । अदि॑तिम् । उ॒रु॒ष्य॒ ॥चित्तिम् । अचित्तिम् । चिनवत् । वि । विद्वान् । पृष्ठाऽइव । वीता । वृजिना । च । मर्तान् ।
राये । च । नः । सुऽअपत्याय । देव । दितिम् । च । रास्व । अदितिम् । उरुष्य ॥cíttim ǀ ácittim ǀ cinavat ǀ ví ǀ vidvā́n ǀ pṛṣṭhā́-iva ǀ vītā́ ǀ vṛjinā́ ǀ ca ǀ mártān ǀ
rāyé ǀ ca ǀ naḥ ǀ su-apatyā́ya ǀ deva ǀ dítim ǀ ca ǀ rā́sva ǀ áditim ǀ uruṣya ǁcittim ǀ acittim ǀ cinavat ǀ vi ǀ vidvān ǀ pṛṣṭhā-iva ǀ vītā ǀ vṛjinā ǀ ca ǀ martān ǀ
rāye ǀ ca ǀ naḥ ǀ su-apatyāya ǀ deva ǀ ditim ǀ ca ǀ rāsva ǀ aditim ǀ uruṣya ǁ4.2.11 Aṣṭaka 3.4.18.1Anuvāka 4.1.31
-
Ṛk 12
क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रयं॑तो॒ दुर्या॑स्वा॒योः ।
अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवैः॑ ॥कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः |
अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः ||kavím śaśāsuḥ kaváyó’dabdhā nidhāráyanto dúryāsvāyóḥ ǀ
átastvám dṛ́śyām̐ agna etā́npaḍbhíḥ paśyerádbhutām̐ aryá évaiḥ ǁkaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ |
atas tvaṃ dṛśyāṃ agna etān paḍbhiḥ paśyer adbhutāṃ arya evaiḥ ||क॒विम् । श॒शा॒सुः॒ । क॒वयः॑ । अद॑ब्धाः । नि॒ऽधा॒रय॑न्तः । दुर्या॑सु । आ॒योः ।
अतः॑ । त्वम् । दृश्या॑न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्ऽभिः । प॒श्येः॒ । अद्भु॑तान् । अ॒र्यः । एवैः॑ ॥कविम् । शशासुः । कवयः । अदब्धाः । निऽधारयन्तः । दुर्यासु । आयोः ।
अतः । त्वम् । दृश्यान् । अग्ने । एतान् । पट्ऽभिः । पश्येः । अद्भुतान् । अर्यः । एवैः ॥kavím ǀ śaśāsuḥ ǀ kaváyaḥ ǀ ádabdhāḥ ǀ ni-dhāráyantaḥ ǀ dúryāsu ǀ āyóḥ ǀ
átaḥ ǀ tvám ǀ dṛ́śyān ǀ agne ǀ etā́n ǀ paṭ-bhíḥ ǀ paśyeḥ ǀ ádbhutān ǀ aryáḥ ǀ évaiḥ ǁkavim ǀ śaśāsuḥ ǀ kavayaḥ ǀ adabdhāḥ ǀ ni-dhārayantaḥ ǀ duryāsu ǀ āyoḥ ǀ
ataḥ ǀ tvam ǀ dṛśyān ǀ agne ǀ etān ǀ paṭ-bhiḥ ǀ paśyeḥ ǀ adbhutān ǀ aryaḥ ǀ evaiḥ ǁ4.2.12 Aṣṭaka 3.4.18.2Anuvāka 4.1.32
-
Ṛk 13
त्वम॑ग्ने वा॒घते॑ सु॒प्रणी॑तिः सु॒तसो॑माय विध॒ते य॑विष्ठ ।
रत्नं॑ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्चं॒द्रमव॑से चर्षणि॒प्राः ॥त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ |
रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः ||tvámagne vāgháte supráṇītiḥ sutásomāya vidhaté yaviṣṭha ǀ
rátnam bhara śaśamānā́ya ghṛṣve pṛthú ścandrámávase carṣaṇiprā́ḥ ǁtvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha |
ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ ||त्वम् । अ॒ग्ने॒ । वा॒घते॑ । सु॒ऽप्रनी॑तिः । सु॒तऽसो॑माय । वि॒ध॒ते । य॒वि॒ष्ठ॒ ।
रत्न॑म् । भ॒र॒ । श॒श॒मा॒नाय॑ । घृष्वे॒ । पृ॒थु । च॒न्द्रम् । अव॑से । च॒र्ष॒णि॒ऽप्राः ॥त्वम् । अग्ने । वाघते । सुऽप्रनीतिः । सुतऽसोमाय । विधते । यविष्ठ ।
रत्नम् । भर । शशमानाय । घृष्वे । पृथु । चन्द्रम् । अवसे । चर्षणिऽप्राः ॥tvám ǀ agne ǀ vāgháte ǀ su-pránītiḥ ǀ sutá-somāya ǀ vidhaté ǀ yaviṣṭha ǀ
rátnam ǀ bhara ǀ śaśamānā́ya ǀ ghṛ́ṣve ǀ pṛthú ǀ candrám ǀ ávase ǀ carṣaṇi-prā́ḥ ǁtvam ǀ agne ǀ vāghate ǀ su-pranītiḥ ǀ suta-somāya ǀ vidhate ǀ yaviṣṭha ǀ
ratnam ǀ bhara ǀ śaśamānāya ǀ ghṛṣve ǀ pṛthu ǀ candram ǀ avase ǀ carṣaṇi-prāḥ ǁ4.2.13 Aṣṭaka 3.4.18.3Anuvāka 4.1.33
-
Ṛk 14
अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभिः॑ ।
रथं॒ न क्रंतो॒ अप॑सा भु॒रिजो॑र्ऋ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः |
रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ||ádhā ha yádvayámagne tvāyā́ paḍbhírhástebhiścakṛmā́ tanū́bhiḥ ǀ
rátham ná kránto ápasā bhuríjorṛtám yemuḥ sudhyá āśuṣāṇā́ḥ ǁadhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ |
rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ ||अध॑ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒ऽया । प॒ट्ऽभिः । हस्ते॑भिः । च॒कृ॒म । त॒नूभिः॑ ।
रथ॑म् । न । क्रन्तः॑ । अप॑सा । भु॒रिजोः॑ । ऋ॒तम् । ये॒मुः॒ । सु॒ऽध्यः॑ । आ॒शु॒षा॒णाः ॥अध । ह । यत् । वयम् । अग्ने । त्वाऽया । पट्ऽभिः । हस्तेभिः । चकृम । तनूभिः ।
रथम् । न । क्रन्तः । अपसा । भुरिजोः । ऋतम् । येमुः । सुऽध्यः । आशुषाणाः ॥ádha ǀ ha ǀ yát ǀ vayám ǀ agne ǀ tvā-yā́ ǀ paṭ-bhíḥ ǀ hástebhiḥ ǀ cakṛmá ǀ tanū́bhiḥ ǀ
rátham ǀ ná ǀ krántaḥ ǀ ápasā ǀ bhuríjoḥ ǀ ṛtám ǀ yemuḥ ǀ su-dhyáḥ ǀ āśuṣāṇā́ḥ ǁadha ǀ ha ǀ yat ǀ vayam ǀ agne ǀ tvā-yā ǀ paṭ-bhiḥ ǀ hastebhiḥ ǀ cakṛma ǀ tanūbhiḥ ǀ
ratham ǀ na ǀ krantaḥ ǀ apasā ǀ bhurijoḥ ǀ ṛtam ǀ yemuḥ ǀ su-dhyaḥ ǀ āśuṣāṇāḥ ǁ4.2.14 Aṣṭaka 3.4.18.4Anuvāka 4.1.34
-
Ṛk 15
अधा॑ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् ।
दि॒वस्पु॒त्रा अंगि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चंतः॑ ॥अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् |
दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ||ádhā mātúruṣásaḥ saptá víprā jā́yemahi prathamā́ vedháso nṝ́n ǀ
divásputrā́ áṅgiraso bhavemā́drim rujema dhanínam śucántaḥ ǁadhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn |
divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ ||अध॑ । मा॒तुः । उ॒षसः॑ । स॒प्त । विप्राः॑ । जाये॑महि । प्र॒थ॒माः । वे॒धसः॑ । नॄन् ।
दि॒वः । पु॒त्राः । अङ्गि॑रसः । भ॒वे॒म॒ । अद्रि॑म् । रु॒जे॒म॒ । ध॒निन॑म् । शु॒चन्तः॑ ॥अध । मातुः । उषसः । सप्त । विप्राः । जायेमहि । प्रथमाः । वेधसः । नॄन् ।
दिवः । पुत्राः । अङ्गिरसः । भवेम । अद्रिम् । रुजेम । धनिनम् । शुचन्तः ॥ádha ǀ mātúḥ ǀ uṣásaḥ ǀ saptá ǀ víprāḥ ǀ jā́yemahi ǀ prathamā́ḥ ǀ vedhásaḥ ǀ nṝ́n ǀ
diváḥ ǀ putrā́ḥ ǀ áṅgirasaḥ ǀ bhavema ǀ ádrim ǀ rujema ǀ dhanínam ǀ śucántaḥ ǁadha ǀ mātuḥ ǀ uṣasaḥ ǀ sapta ǀ viprāḥ ǀ jāyemahi ǀ prathamāḥ ǀ vedhasaḥ ǀ nṝn ǀ
divaḥ ǀ putrāḥ ǀ aṅgirasaḥ ǀ bhavema ǀ adrim ǀ rujema ǀ dhaninam ǀ śucantaḥ ǁ4.2.15 Aṣṭaka 3.4.18.5Anuvāka 4.1.35
-
Ṛk 16
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑यं॒दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भिं॒दंतो॑ अरु॒णीरप॑ व्रन् ॥अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः |
शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ||ádhā yáthā naḥ pitáraḥ párāsaḥ pratnā́so agna ṛtámāśuṣāṇā́ḥ ǀ
śúcī́dayandī́dhitimukthaśā́saḥ kṣā́mā bhindánto aruṇī́rápa vran ǁadhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ |
śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran ||अध॑ । यथा॑ । नः॒ । पि॒तरः॑ । परा॑सः । प्र॒त्नासः॑ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
शुचि॑ । इत् । अ॒य॒न् । दीधि॑तिम् । उ॒क्थ॒ऽशसः॑ । क्षामा॑ । भि॒न्दन्तः॑ । अ॒रु॒णीः । अप॑ । व्र॒न् ॥अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आशुषाणाः ।
शुचि । इत् । अयन् । दीधितिम् । उक्थऽशसः । क्षामा । भिन्दन्तः । अरुणीः । अप । व्रन् ॥ádha ǀ yáthā ǀ naḥ ǀ pitáraḥ ǀ párāsaḥ ǀ pratnā́saḥ ǀ agne ǀ ṛtám ǀ āśuṣāṇā́ḥ ǀ
śúci ǀ ít ǀ ayan ǀ dī́dhitim ǀ uktha-śásaḥ ǀ kṣā́mā ǀ bhindántaḥ ǀ aruṇī́ḥ ǀ ápa ǀ vran ǁadha ǀ yathā ǀ naḥ ǀ pitaraḥ ǀ parāsaḥ ǀ pratnāsaḥ ǀ agne ǀ ṛtam ǀ āśuṣāṇāḥ ǀ
śuci ǀ it ǀ ayan ǀ dīdhitim ǀ uktha-śasaḥ ǀ kṣāmā ǀ bhindantaḥ ǀ aruṇīḥ ǀ apa ǀ vran ǁ4.2.16 Aṣṭaka 3.4.19.1Anuvāka 4.1.36
-
Ṛk 17
सु॒कर्मा॑णः सु॒रुचो॑ देव॒यंतोऽयो॒ न दे॒वा जनि॑मा॒ धमं॑तः ।
शु॒चंतो॑ अ॒ग्निं व॑वृ॒धंत॒ इंद्र॑मू॒र्वं गव्यं॑ परि॒षदं॑तो अग्मन् ॥सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः |
शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् ||sukármāṇaḥ surúco devayántó’yo ná devā́ jánimā dhámantaḥ ǀ
śucánto agním vavṛdhánta índramūrvám gávyam pariṣádanto agman ǁsukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ |
śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman ||सु॒ऽकर्मा॑णः । सु॒ऽरुचः॑ । दे॒व॒ऽयन्तः॑ । अयः॑ । न । दे॒वाः । जनि॑म । धम॑न्तः ।
शु॒चन्तः॑ । अ॒ग्निम् । व॒वृ॒धन्तः॑ । इन्द्र॑म् । ऊ॒र्वम् । गव्य॑म् । प॒रि॒ऽसद॑न्तः । अ॒ग्म॒न् ॥सुऽकर्माणः । सुऽरुचः । देवऽयन्तः । अयः । न । देवाः । जनिम । धमन्तः ।
शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । ऊर्वम् । गव्यम् । परिऽसदन्तः । अग्मन् ॥su-kármāṇaḥ ǀ su-rúcaḥ ǀ deva-yántaḥ ǀ áyaḥ ǀ ná ǀ devā́ḥ ǀ jánima ǀ dhámantaḥ ǀ
śucántaḥ ǀ agním ǀ vavṛdhántaḥ ǀ índram ǀ ūrvám ǀ gávyam ǀ pari-sádantaḥ ǀ agman ǁsu-karmāṇaḥ ǀ su-rucaḥ ǀ deva-yantaḥ ǀ ayaḥ ǀ na ǀ devāḥ ǀ janima ǀ dhamantaḥ ǀ
śucantaḥ ǀ agnim ǀ vavṛdhantaḥ ǀ indram ǀ ūrvam ǀ gavyam ǀ pari-sadantaḥ ǀ agman ǁ4.2.17 Aṣṭaka 3.4.19.2Anuvāka 4.1.37
-
Ṛk 18
आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मांत्यु॑ग्र ।
मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र |
मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ||ā́ yūthéva kṣumáti paśvó akhyaddevā́nām yájjánimā́ntyugra ǀ
mártānām cidurváśīrakṛpranvṛdhé cidaryá úparasyāyóḥ ǁā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra |
martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ ||आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्वः । अ॒ख्य॒त् । दे॒वाना॑म् । यत् । जनि॑म । अन्ति॑ । उ॒ग्र॒ ।
मर्ता॑नाम् । चि॒त् । उ॒र्वशीः॑ । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्यः । उप॑रस्य । आ॒योः ॥आ । यूथाऽइव । क्षुऽमति । पश्वः । अख्यत् । देवानाम् । यत् । जनिम । अन्ति । उग्र ।
मर्तानाम् । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्यः । उपरस्य । आयोः ॥ā́ ǀ yūthā́-iva ǀ kṣu-máti ǀ paśváḥ ǀ akhyat ǀ devā́nām ǀ yát ǀ jánima ǀ ánti ǀ ugra ǀ
mártānām ǀ cit ǀ urváśīḥ ǀ akṛpran ǀ vṛdhé ǀ cit ǀ aryáḥ ǀ úparasya ǀ āyóḥ ǁā ǀ yūthā-iva ǀ kṣu-mati ǀ paśvaḥ ǀ akhyat ǀ devānām ǀ yat ǀ janima ǀ anti ǀ ugra ǀ
martānām ǀ cit ǀ urvaśīḥ ǀ akṛpran ǀ vṛdhe ǀ cit ǀ aryaḥ ǀ uparasya ǀ āyoḥ ǁ4.2.18 Aṣṭaka 3.4.19.3Anuvāka 4.1.38
-
Ṛk 19
अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः ।
अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्चं॒द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ॥अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः |
अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः ||ákarma te svápaso abhūma ṛtámavasrannuṣáso vibhātī́ḥ ǀ
ánūnamagním purudhā́ suścandrám devásya mármṛjataścā́ru cákṣuḥ ǁakarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ |
anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ ||अक॑र्म । ते॒ । सु॒ऽअप॑सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः॑ । वि॒ऽभा॒तीः ।
अनू॑नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒ऽच॒न्द्रम् । दे॒वस्य॑ । मर्मृ॑जतः । चारु॑ । चक्षुः॑ ॥अकर्म । ते । सुऽअपसः । अभूम । ऋतम् । अवस्रन् । उषसः । विऽभातीः ।
अनूनम् । अग्निम् । पुरुधा । सुऽचन्द्रम् । देवस्य । मर्मृजतः । चारु । चक्षुः ॥ákarma ǀ te ǀ su-ápasaḥ ǀ abhūma ǀ ṛtám ǀ avasran ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ
ánūnam ǀ agním ǀ purudhā́ ǀ su-candrám ǀ devásya ǀ mármṛjataḥ ǀ cā́ru ǀ cákṣuḥ ǁakarma ǀ te ǀ su-apasaḥ ǀ abhūma ǀ ṛtam ǀ avasran ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ
anūnam ǀ agnim ǀ purudhā ǀ su-candram ǀ devasya ǀ marmṛjataḥ ǀ cāru ǀ cakṣuḥ ǁ4.2.19 Aṣṭaka 3.4.19.4Anuvāka 4.1.39
-
Ṛk 20
ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व ।
उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र यं॑धि ॥एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व |
उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ||etā́ te agna ucáthāni vedhó’vocāma kaváye tā́ juṣasva ǀ
úcchocasva kṛṇuhí vásyaso no mahó rāyáḥ puruvāra prá yandhi ǁetā te agna ucathāni vedho 'vocāma kavaye tā juṣasva |
uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ||ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । अवो॑चाम । क॒वये॑ । ता । जु॒ष॒स्व॒ ।
उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒ऽवा॒र॒ । प्र । य॒न्धि॒ ॥एता । ते । अग्ने । उचथानि । वेधः । अवोचाम । कवये । ता । जुषस्व ।
उत् । शोचस्व । कृणुहि । वस्यसः । नः । महः । रायः । पुरुऽवार । प्र । यन्धि ॥etā́ ǀ te ǀ agne ǀ ucáthāni ǀ vedhaḥ ǀ ávocāma ǀ kaváye ǀ tā́ ǀ juṣasva ǀ
út ǀ śocasva ǀ kṛṇuhí ǀ vásyasaḥ ǀ naḥ ǀ maháḥ ǀ rāyáḥ ǀ puru-vāra ǀ prá ǀ yandhi ǁetā ǀ te ǀ agne ǀ ucathāni ǀ vedhaḥ ǀ avocāma ǀ kavaye ǀ tā ǀ juṣasva ǀ
ut ǀ śocasva ǀ kṛṇuhi ǀ vasyasaḥ ǀ naḥ ǀ mahaḥ ǀ rāyaḥ ǀ puru-vāra ǀ pra ǀ yandhi ǁ4.2.20 Aṣṭaka 3.4.19.5Anuvāka 4.1.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.