Ṛk 4.2.9
Saṃhitā
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् ।
न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥
यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् |
न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ||
yástúbhyamagne amṛ́tāya dā́śaddúvastvé kṛṇávate yatásruk ǀ
ná sá rāyā́ śaśamānó ví yoṣannáinamáṃhaḥ pári varadaghāyóḥ ǁ
yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk |
na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ ||
Padapāṭha
यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दाश॑त् । दुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् ।
न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥
यः । तुभ्यम् । अग्ने । अमृताय । दाशत् । दुवः । त्वे इति । कृणवते । यतऽस्रुक् ।
न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघऽयोः ॥
yáḥ ǀ túbhyam ǀ agne ǀ amṛ́tāya ǀ dā́śat ǀ dúvaḥ ǀ tvé íti ǀ kṛṇávate ǀ yatá-sruk ǀ
ná ǀ sáḥ ǀ rāyā́ ǀ śaśamānáḥ ǀ ví ǀ yoṣat ǀ ná ǀ enam ǀ áṃhaḥ ǀ pári ǀ varat ǀ agha-yóḥ ǁ
yaḥ ǀ tubhyam ǀ agne ǀ amṛtāya ǀ dāśat ǀ duvaḥ ǀ tve iti ǀ kṛṇavate ǀ yata-sruk ǀ
na ǀ saḥ ǀ rāyā ǀ śaśamānaḥ ǀ vi ǀ yoṣat ǀ na ǀ enam ǀ aṃhaḥ ǀ pari ǀ varat ǀ agha-yoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.002.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.17.04
- Maṇḍala · Anuvāka · Ṛk
- 04.01.029
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.