Ṛk 4.2.8
Saṃhitā
यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् ।
अश्वो॒ न स्वे दम॒ आ हे॒म्यावां॒तमंह॑सः पीपरो दा॒श्वांसं॑ ॥
यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् |
अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ||
yástvā doṣā́ yá uṣási praśáṃsātpriyám vā tvā kṛṇávate havíṣmān ǀ
áśvo ná své dáma ā́ hemyā́vāntámáṃhasaḥ pīparo dāśvā́ṃsam ǁ
yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān |
aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam ||
Padapāṭha
यः । त्वा॒ । दो॒षा । यः । उ॒षसि॑ । प्र॒ऽशंसा॑त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव॑ते । ह॒विष्मा॑न् ।
अश्वः॑ । न । स्वे । दमे॑ । आ । हे॒म्याऽवा॑न् । तम् । अंह॑सः । पी॒प॒रः॒ । दा॒श्वांस॑म् ॥
यः । त्वा । दोषा । यः । उषसि । प्रऽशंसात् । प्रियम् । वा । त्वा । कृणवते । हविष्मान् ।
अश्वः । न । स्वे । दमे । आ । हेम्याऽवान् । तम् । अंहसः । पीपरः । दाश्वांसम् ॥
yáḥ ǀ tvā ǀ doṣā́ ǀ yáḥ ǀ uṣási ǀ pra-śáṃsāt ǀ priyám ǀ vā ǀ tvā ǀ kṛṇávate ǀ havíṣmān ǀ
áśvaḥ ǀ ná ǀ své ǀ dáme ǀ ā́ ǀ hemyā́-vān ǀ tám ǀ áṃhasaḥ ǀ pīparaḥ ǀ dāśvā́ṃsam ǁ
yaḥ ǀ tvā ǀ doṣā ǀ yaḥ ǀ uṣasi ǀ pra-śaṃsāt ǀ priyam ǀ vā ǀ tvā ǀ kṛṇavate ǀ haviṣmān ǀ
aśvaḥ ǀ na ǀ sve ǀ dame ǀ ā ǀ hemyā-vān ǀ tam ǀ aṃhasaḥ ǀ pīparaḥ ǀ dāśvāṃsam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.002.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.17.03
- Maṇḍala · Anuvāka · Ṛk
- 04.01.028
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.