Sūkta 40
- Devatā देवता
- 1-4: Dadhikrā; 5: Sūrya
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1); triṣṭup (2); svarāṭtriṣṭup (3); bhuriktriṣṭup (4); nicṛjjagatī (5)
2nd set of styles jagatī (2-5); triṣṭubh (1)
-
Ṛk 1
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयंतु ।
अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते॑रांगिर॒सस्य॑ जि॒ष्णोः ॥दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु |
अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः ||dadhikrā́vṇa ídu nú carkirāma víśvā ínmā́muṣásaḥ sūdayantu ǀ
apā́magnéruṣásaḥ sū́ryasya bṛ́haspáterāṅgirasásya jiṣṇóḥ ǁdadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu |
apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ ||द॒धि॒ऽक्राव्णः॑ । इत् । ऊं॒ इति॑ । नु । च॒र्कि॒रा॒म॒ । विश्वा॑ । इत् । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ ।
अ॒पाम् । अ॒ग्नेः । उ॒षसः॑ । सूर्य॑स्य । बृह॒स्पतेः॑ । आ॒ङ्गि॒र॒सस्य॑ । जि॒ष्णोः ॥दधिऽक्राव्णः । इत् । ऊं इति । नु । चर्किराम । विश्वा । इत् । माम् । उषसः । सूदयन्तु ।
अपाम् । अग्नेः । उषसः । सूर्यस्य । बृहस्पतेः । आङ्गिरसस्य । जिष्णोः ॥dadhi-krā́vṇaḥ ǀ ít ǀ ūṃ íti ǀ nú ǀ carkirāma ǀ víśvā ǀ ít ǀ mā́m ǀ uṣásaḥ ǀ sūdayantu ǀ
apā́m ǀ agnéḥ ǀ uṣásaḥ ǀ sū́ryasya ǀ bṛ́haspáteḥ ǀ āṅgirasásya ǀ jiṣṇóḥ ǁdadhi-krāvṇaḥ ǀ it ǀ ūṃ iti ǀ nu ǀ carkirāma ǀ viśvā ǀ it ǀ mām ǀ uṣasaḥ ǀ sūdayantu ǀ
apām ǀ agneḥ ǀ uṣasaḥ ǀ sūryasya ǀ bṛhaspateḥ ǀ āṅgirasasya ǀ jiṣṇoḥ ǁ4.40.1 Aṣṭaka 3.7.14.1Anuvāka 4.4.65
-
Ṛk 2
सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् ।
स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् |
सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ||sátvā bhariṣó gaviṣó duvanyasácchravasyā́diṣá uṣásasturaṇyasát ǀ
satyó dravó dravaráḥ pataṃgaró dadhikrā́véṣamū́rjam svárjanat ǁsatvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat |
satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat ||सत्वा॑ । भ॒रि॒षः । गो॒ऽइ॒षः । दु॒व॒न्य॒ऽसत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः॑ । तु॒र॒ण्य॒ऽसत् ।
स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒ऽक्रावा॑ । इष॑म् । ऊर्ज॑म् । स्वः॑ । ज॒न॒त् ॥सत्वा । भरिषः । गोऽइषः । दुवन्यऽसत् । श्रवस्यात् । इषः । उषसः । तुरण्यऽसत् ।
सत्यः । द्रवः । द्रवरः । पतङ्गरः । दधिऽक्रावा । इषम् । ऊर्जम् । स्वः । जनत् ॥sátvā ǀ bhariṣáḥ ǀ go-iṣáḥ ǀ duvanya-sát ǀ śravasyā́t ǀ iṣáḥ ǀ uṣásaḥ ǀ turaṇya-sát ǀ
satyáḥ ǀ draváḥ ǀ dravaráḥ ǀ pataṅgaráḥ ǀ dadhi-krā́vā ǀ íṣam ǀ ū́rjam ǀ sváḥ ǀ janat ǁsatvā ǀ bhariṣaḥ ǀ go-iṣaḥ ǀ duvanya-sat ǀ śravasyāt ǀ iṣaḥ ǀ uṣasaḥ ǀ turaṇya-sat ǀ
satyaḥ ǀ dravaḥ ǀ dravaraḥ ǀ pataṅgaraḥ ǀ dadhi-krāvā ǀ iṣam ǀ ūrjam ǀ svaḥ ǀ janat ǁ4.40.2 Aṣṭaka 3.7.14.2Anuvāka 4.4.66
-
Ṛk 3
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अंक॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः |
श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ||utá smāsya drávatasturaṇyatáḥ parṇám ná véránu vāti pragardhínaḥ ǀ
śyenásyeva dhrájato aṅkasám pári dadhikrā́vṇaḥ sahórjā́ táritrataḥ ǁuta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ |
śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ ||उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ ।
श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥उत । स्म । अस्य । द्रवतः । तुरण्यतः । पर्णम् । न । वेः । अनु । वाति । प्रऽगर्धिनः ।
श्येनस्यऽइव । ध्रजतः । अङ्कसम् । परि । दधिऽक्राव्णः । सह । ऊर्जा । तरित्रतः ॥utá ǀ sma ǀ asya ǀ drávataḥ ǀ turaṇyatáḥ ǀ parṇám ǀ ná ǀ véḥ ǀ ánu ǀ vāti ǀ pra-gardhínaḥ ǀ
śyenásya-iva ǀ dhrájataḥ ǀ aṅkasám ǀ pári ǀ dadhi-krā́vṇaḥ ǀ sahá ǀ ūrjā́ ǀ táritrataḥ ǁuta ǀ sma ǀ asya ǀ dravataḥ ǀ turaṇyataḥ ǀ parṇam ǀ na ǀ veḥ ǀ anu ǀ vāti ǀ pra-gardhinaḥ ǀ
śyenasya-iva ǀ dhrajataḥ ǀ aṅkasam ǀ pari ǀ dadhi-krāvṇaḥ ǀ saha ǀ ūrjā ǀ taritrataḥ ǁ4.40.3 Aṣṭaka 3.7.14.3Anuvāka 4.4.67
-
Ṛk 4
उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामंकां॒स्यन्वा॒पनी॑फणत् ॥उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि |
क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ||utá syá vājī́ kṣipaṇím turaṇyati grīvā́yām baddhó apikakṣá āsáni ǀ
krátum dadhikrā́ ánu saṃtávītvatpathā́máṅkāṃsyánvāpánīphaṇat ǁuta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani |
kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat ||उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया॑म् । ब॒द्धः । अ॒पि॒ऽक॒क्षे । आ॒सनि॑ ।
क्रतु॑म् । द॒धि॒ऽक्राः । अनु॑ । स॒म्ऽतवी॑त्वत् । प॒थाम् । अङ्कां॑सि । अनु॑ । आ॒ऽपनी॑फणत् ॥उत । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बद्धः । अपिऽकक्षे । आसनि ।
क्रतुम् । दधिऽक्राः । अनु । सम्ऽतवीत्वत् । पथाम् । अङ्कांसि । अनु । आऽपनीफणत् ॥utá ǀ syáḥ ǀ vājī́ ǀ kṣipaṇím ǀ turaṇyati ǀ grīvā́yām ǀ baddháḥ ǀ api-kakṣé ǀ āsáni ǀ
krátum ǀ dadhi-krā́ḥ ǀ ánu ǀ sam-távītvat ǀ pathā́m ǀ áṅkāṃsi ǀ ánu ǀ ā-pánīphaṇat ǁuta ǀ syaḥ ǀ vājī ǀ kṣipaṇim ǀ turaṇyati ǀ grīvāyām ǀ baddhaḥ ǀ api-kakṣe ǀ āsani ǀ
kratum ǀ dadhi-krāḥ ǀ anu ǀ sam-tavītvat ǀ pathām ǀ aṅkāṃsi ǀ anu ǀ ā-panīphaṇat ǁ4.40.4 Aṣṭaka 3.7.14.4Anuvāka 4.4.68
-
Ṛk 5
हं॒सः शु॑चि॒षद्वसु॑रंतरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं ॥हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् |
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ||haṃsáḥ śuciṣádvásurantarikṣasáddhótā vediṣádátithirduroṇasát ǀ
nṛṣádvarasádṛtasádvyomasádabjā́ gojā́ ṛtajā́ adrijā́ ṛtám ǁhaṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat |
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam ||हं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् ।
नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥हंसः । शुचिऽसत् । वसुः । अन्तरिक्षऽसत् । होता । वेदिऽसत् । अतिथिः । दुरोणऽसत् ।
नृऽसत् । वरऽसत् । ऋतऽसत् । व्योमऽसत् । अप्ऽजाः । गोऽजाः । ऋतऽजाः । अद्रिऽजाः । ऋतम् ॥haṃsáḥ ǀ śuci-sát ǀ vásuḥ ǀ antarikṣa-sát ǀ hótā ǀ vedi-sát ǀ átithiḥ ǀ duroṇa-sát ǀ
nṛ-sát ǀ vara-sát ǀ ṛta-sát ǀ vyoma-sát ǀ ap-jā́ḥ ǀ go-jā́ḥ ǀ ṛta-jā́ḥ ǀ adri-jā́ḥ ǀ ṛtám ǁhaṃsaḥ ǀ śuci-sat ǀ vasuḥ ǀ antarikṣa-sat ǀ hotā ǀ vedi-sat ǀ atithiḥ ǀ duroṇa-sat ǀ
nṛ-sat ǀ vara-sat ǀ ṛta-sat ǀ vyoma-sat ǀ ap-jāḥ ǀ go-jāḥ ǀ ṛta-jāḥ ǀ adri-jāḥ ǀ ṛtam ǁ4.40.5 Aṣṭaka 3.7.14.5Anuvāka 4.4.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.