Ṛk 4.40.4
Saṃhitā
उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामंकां॒स्यन्वा॒पनी॑फणत् ॥
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि |
क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ||
utá syá vājī́ kṣipaṇím turaṇyati grīvā́yām baddhó apikakṣá āsáni ǀ
krátum dadhikrā́ ánu saṃtávītvatpathā́máṅkāṃsyánvāpánīphaṇat ǁ
uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani |
kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat ||
Padapāṭha
उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया॑म् । ब॒द्धः । अ॒पि॒ऽक॒क्षे । आ॒सनि॑ ।
क्रतु॑म् । द॒धि॒ऽक्राः । अनु॑ । स॒म्ऽतवी॑त्वत् । प॒थाम् । अङ्कां॑सि । अनु॑ । आ॒ऽपनी॑फणत् ॥
उत । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बद्धः । अपिऽकक्षे । आसनि ।
क्रतुम् । दधिऽक्राः । अनु । सम्ऽतवीत्वत् । पथाम् । अङ्कांसि । अनु । आऽपनीफणत् ॥
utá ǀ syáḥ ǀ vājī́ ǀ kṣipaṇím ǀ turaṇyati ǀ grīvā́yām ǀ baddháḥ ǀ api-kakṣé ǀ āsáni ǀ
krátum ǀ dadhi-krā́ḥ ǀ ánu ǀ sam-távītvat ǀ pathā́m ǀ áṅkāṃsi ǀ ánu ǀ ā-pánīphaṇat ǁ
uta ǀ syaḥ ǀ vājī ǀ kṣipaṇim ǀ turaṇyati ǀ grīvāyām ǀ baddhaḥ ǀ api-kakṣe ǀ āsani ǀ
kratum ǀ dadhi-krāḥ ǀ anu ǀ sam-tavītvat ǀ pathām ǀ aṅkāṃsi ǀ anu ǀ ā-panīphaṇat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.040.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.14.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.068
- Devatā देवता
- 1-4: Dadhikrā; 5: Sūrya
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.