Ṛk 4.40.5
Saṃhitā
हं॒सः शु॑चि॒षद्वसु॑रंतरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं ॥
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् |
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ||
haṃsáḥ śuciṣádvásurantarikṣasáddhótā vediṣádátithirduroṇasát ǀ
nṛṣádvarasádṛtasádvyomasádabjā́ gojā́ ṛtajā́ adrijā́ ṛtám ǁ
haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat |
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam ||
Padapāṭha
हं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् ।
नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥
हंसः । शुचिऽसत् । वसुः । अन्तरिक्षऽसत् । होता । वेदिऽसत् । अतिथिः । दुरोणऽसत् ।
नृऽसत् । वरऽसत् । ऋतऽसत् । व्योमऽसत् । अप्ऽजाः । गोऽजाः । ऋतऽजाः । अद्रिऽजाः । ऋतम् ॥
haṃsáḥ ǀ śuci-sát ǀ vásuḥ ǀ antarikṣa-sát ǀ hótā ǀ vedi-sát ǀ átithiḥ ǀ duroṇa-sát ǀ
nṛ-sát ǀ vara-sát ǀ ṛta-sát ǀ vyoma-sát ǀ ap-jā́ḥ ǀ go-jā́ḥ ǀ ṛta-jā́ḥ ǀ adri-jā́ḥ ǀ ṛtám ǁ
haṃsaḥ ǀ śuci-sat ǀ vasuḥ ǀ antarikṣa-sat ǀ hotā ǀ vedi-sat ǀ atithiḥ ǀ duroṇa-sat ǀ
nṛ-sat ǀ vara-sat ǀ ṛta-sat ǀ vyoma-sat ǀ ap-jāḥ ǀ go-jāḥ ǀ ṛta-jāḥ ǀ adri-jāḥ ǀ ṛtam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.040.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.14.05
- Maṇḍala · Anuvāka · Ṛk
- 04.04.069
- Devatā देवता
- 1-4: Dadhikrā; 5: Sūrya
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.