Ṛgveda · Maṇḍala 4

Sūkta 16

Indra · Vāmadeva Gautama · 21 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 4, 6, 8, 9, 12, 19); svarāṭpaṅkti (5, 13-15); bhurikpaṅkti (10, 11, 18, 20); virāṭtrisṭup (7, 16, 17); nicṛtpaṅkti (2, 21); triṣṭup (3)

2nd set of styles triṣṭubh

  1. Ṛk 1

    आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रवं॑त्वस्य॒ हर॑य॒ उप॑ नः ।
    तस्मा॒ इदंधः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥

    आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः |
    तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ||

    ā́ satyó yātu maghávām̐ ṛjīṣī́ drávantvasya háraya úpa naḥ ǀ
    tásmā ídándhaḥ suṣumā sudákṣamihā́bhipitvám karate gṛṇānáḥ ǁ

    ā satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ |
    tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ ||

    आ । स॒त्यः । या॒तु॒ । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑यः । उप॑ । नः॒ ।
    तस्मै॑ । इत् । अन्धः॑ । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒नः ॥

    आ । सत्यः । यातु । मघऽवान् । ऋजीषी । द्रवन्तु । अस्य । हरयः । उप । नः ।
    तस्मै । इत् । अन्धः । सुसुम । सुऽदक्षम् । इह । अभिऽपित्वम् । करते । गृणानः ॥

    ā́ ǀ satyáḥ ǀ yātu ǀ maghá-vān ǀ ṛjīṣī́ ǀ drávantu ǀ asya ǀ hárayaḥ ǀ úpa ǀ naḥ ǀ
    tásmai ǀ ít ǀ ándhaḥ ǀ susuma ǀ su-dákṣam ǀ ihá ǀ abhi-pitvám ǀ karate ǀ gṛṇānáḥ ǁ

    ā ǀ satyaḥ ǀ yātu ǀ magha-vān ǀ ṛjīṣī ǀ dravantu ǀ asya ǀ harayaḥ ǀ upa ǀ naḥ ǀ
    tasmai ǀ it ǀ andhaḥ ǀ susuma ǀ su-dakṣam ǀ iha ǀ abhi-pitvam ǀ karate ǀ gṛṇānaḥ ǁ

    4.16.1 Aṣṭaka 3.5.17.1Anuvāka 4.2.33

  2. Ṛk 2

    अव॑ स्य शू॒राध्व॑नो॒ नांते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने मं॒दध्यै॑ ।
    शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥

    अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै |
    शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ||

    áva sya śūrā́dhvano nā́nte’smínno adyá sávane mandádhyai ǀ
    śáṃsātyukthámuśáneva vedhā́ścikitúṣe asuryā́ya mánma ǁ

    ava sya śūrādhvano nānte 'smin no adya savane mandadhyai |
    śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma ||

    अव॑ । स्य॒ । शू॒र॒ । अध्व॑नः । न । अन्ते॑ । अ॒स्मिन् । नः॒ । अ॒द्य । सव॑ने । म॒न्दध्यै॑ ।
    शंसा॑ति । उ॒क्थम् । उ॒शना॑ऽइव । वे॒धाः । चि॒कि॒तुषे॑ । अ॒सु॒र्या॑य । मन्म॑ ॥

    अव । स्य । शूर । अध्वनः । न । अन्ते । अस्मिन् । नः । अद्य । सवने । मन्दध्यै ।
    शंसाति । उक्थम् । उशनाऽइव । वेधाः । चिकितुषे । असुर्याय । मन्म ॥

    áva ǀ sya ǀ śūra ǀ ádhvanaḥ ǀ ná ǀ ánte ǀ asmín ǀ naḥ ǀ adyá ǀ sávane ǀ mandádhyai ǀ
    śáṃsāti ǀ ukthám ǀ uśánā-iva ǀ vedhā́ḥ ǀ cikitúṣe ǀ asuryā́ya ǀ mánma ǁ

    ava ǀ sya ǀ śūra ǀ adhvanaḥ ǀ na ǀ ante ǀ asmin ǀ naḥ ǀ adya ǀ savane ǀ mandadhyai ǀ
    śaṃsāti ǀ uktham ǀ uśanā-iva ǀ vedhāḥ ǀ cikituṣe ǀ asuryāya ǀ manma ǁ

    4.16.2 Aṣṭaka 3.5.17.2Anuvāka 4.2.34

  3. Ṛk 3

    क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् ।
    दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णंतः॑ ॥

    कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् |
    दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ||

    kavírná niṇyám vidáthāni sā́dhanvṛ́ṣā yátsékam vipipānó árcāt ǀ
    divá itthā́ jījanatsaptá kārū́náhnā ciccakrurvayúnā gṛṇántaḥ ǁ

    kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt |
    diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ ||

    क॒विः । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒नः । अर्चा॑त् ।
    दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रुः॒ । व॒युना॑ । गृ॒णन्तः॑ ॥

    कविः । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । विऽपिपानः । अर्चात् ।
    दिवः । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रुः । वयुना । गृणन्तः ॥

    kavíḥ ǀ ná ǀ niṇyám ǀ vidáthāni ǀ sā́dhan ǀ vṛ́ṣā ǀ yát ǀ sékam ǀ vi-pipānáḥ ǀ árcāt ǀ
    diváḥ ǀ itthā́ ǀ jījanat ǀ saptá ǀ kārū́n ǀ áhnā ǀ cit ǀ cakruḥ ǀ vayúnā ǀ gṛṇántaḥ ǁ

    kaviḥ ǀ na ǀ niṇyam ǀ vidathāni ǀ sādhan ǀ vṛṣā ǀ yat ǀ sekam ǀ vi-pipānaḥ ǀ arcāt ǀ
    divaḥ ǀ itthā ǀ jījanat ǀ sapta ǀ kārūn ǀ ahnā ǀ cit ǀ cakruḥ ǀ vayunā ǀ gṛṇantaḥ ǁ

    4.16.3 Aṣṭaka 3.5.17.3Anuvāka 4.2.35

  4. Ṛk 4

    स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ ।
    अं॒धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥

    स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः |
    अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ||

    sváryádvédi sudṛ́śīkamarkáirmáhi jyótī rurucuryáddha vástoḥ ǀ
    andhā́ támāṃsi dúdhitā vicákṣe nṛ́bhyaścakāra nṛ́tamo abhíṣṭau ǁ

    svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ |
    andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau ||

    स्वः॑ । यत् । वेदि॑ । सु॒ऽदृशी॑कम् । अ॒र्कैः । महि॑ । ज्योतिः॑ । रु॒रु॒चुः॒ । यत् । ह॒ । वस्तोः॑ ।
    अ॒न्धा । तमां॑सि । दुधि॑ता । वि॒ऽचक्षे॑ । नृऽभ्यः॑ । च॒का॒र॒ । नृऽत॑मः । अ॒भिष्टौ॑ ॥

    स्वः । यत् । वेदि । सुऽदृशीकम् । अर्कैः । महि । ज्योतिः । रुरुचुः । यत् । ह । वस्तोः ।
    अन्धा । तमांसि । दुधिता । विऽचक्षे । नृऽभ्यः । चकार । नृऽतमः । अभिष्टौ ॥

    sváḥ ǀ yát ǀ védi ǀ su-dṛ́śīkam ǀ arkáiḥ ǀ máhi ǀ jyótiḥ ǀ rurucuḥ ǀ yát ǀ ha ǀ vástoḥ ǀ
    andhā́ ǀ támāṃsi ǀ dúdhitā ǀ vi-cákṣe ǀ nṛ́-bhyaḥ ǀ cakāra ǀ nṛ́-tamaḥ ǀ abhíṣṭau ǁ

    svaḥ ǀ yat ǀ vedi ǀ su-dṛśīkam ǀ arkaiḥ ǀ mahi ǀ jyotiḥ ǀ rurucuḥ ǀ yat ǀ ha ǀ vastoḥ ǀ
    andhā ǀ tamāṃsi ǀ dudhitā ǀ vi-cakṣe ǀ nṛ-bhyaḥ ǀ cakāra ǀ nṛ-tamaḥ ǀ abhiṣṭau ǁ

    4.16.4 Aṣṭaka 3.5.17.4Anuvāka 4.2.36

  5. Ṛk 5

    व॒व॒क्ष इंद्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
    अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥

    ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा |
    अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ||

    vavakṣá índro ámitamṛjīṣyúbhé ā́ paprau ródasī mahitvā́ ǀ
    átaścidasya mahimā́ ví recyabhí yó víśvā bhúvanā babhū́va ǁ

    vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā |
    ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva ||

    व॒व॒क्षे । इन्द्रः॑ । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
    अतः॑ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ । अ॒भि । यः । विश्वा॑ । भुव॑ना । ब॒भूव॑ ॥

    ववक्षे । इन्द्रः । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ।
    अतः । चित् । अस्य । महिमा । वि । रेचि । अभि । यः । विश्वा । भुवना । बभूव ॥

    vavakṣé ǀ índraḥ ǀ ámitam ǀ ṛjīṣī́ ǀ ubhé íti ǀ ā́ ǀ paprau ǀ ródasī íti ǀ mahi-tvā́ ǀ
    átaḥ ǀ cit ǀ asya ǀ mahimā́ ǀ ví ǀ reci ǀ abhí ǀ yáḥ ǀ víśvā ǀ bhúvanā ǀ babhū́va ǁ

    vavakṣe ǀ indraḥ ǀ amitam ǀ ṛjīṣī ǀ ubhe iti ǀ ā ǀ paprau ǀ rodasī iti ǀ mahi-tvā ǀ
    ataḥ ǀ cit ǀ asya ǀ mahimā ǀ vi ǀ reci ǀ abhi ǀ yaḥ ǀ viśvā ǀ bhuvanā ǀ babhūva ǁ

    4.16.5 Aṣṭaka 3.5.17.5Anuvāka 4.2.37

  6. Ṛk 6

    विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।
    अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥

    विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः |
    अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः ||

    víśvāni śakró náryāṇi vidvā́napó rireca sákhibhirníkāmaiḥ ǀ
    áśmānam cidyé bibhidúrvácobhirvrajám gómantamuśíjo ví vavruḥ ǁ

    viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ |
    aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ ||

    विश्वा॑नि । श॒क्रः । नर्या॑णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि॑ऽभिः । निऽका॑मैः ।
    अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दुः । वचः॑ऽभिः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रु॒रिति॑ वव्रुः ॥

    विश्वानि । शक्रः । नर्याणि । विद्वान् । अपः । रिरेच । सखिऽभिः । निऽकामैः ।
    अश्मानम् । चित् । ये । बिभिदुः । वचःऽभिः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुरिति वव्रुः ॥

    víśvāni ǀ śakráḥ ǀ náryāṇi ǀ vidvā́n ǀ apáḥ ǀ rireca ǀ sákhi-bhiḥ ǀ ní-kāmaiḥ ǀ
    áśmānam ǀ cit ǀ yé ǀ bibhidúḥ ǀ vácaḥ-bhiḥ ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruríti vavruḥ ǁ

    viśvāni ǀ śakraḥ ǀ naryāṇi ǀ vidvān ǀ apaḥ ǀ rireca ǀ sakhi-bhiḥ ǀ ni-kāmaiḥ ǀ
    aśmānam ǀ cit ǀ ye ǀ bibhiduḥ ǀ vacaḥ-bhiḥ ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruriti vavruḥ ǁ

    4.16.6 Aṣṭaka 3.5.18.1Anuvāka 4.2.38

  7. Ṛk 7

    अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः ।
    प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥

    अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः |
    प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो ||

    apó vṛtrám vavrivā́ṃsam párāhanprā́vatte vájram pṛthivī́ sácetāḥ ǀ
    prā́rṇāṃsi samudríyāṇyainoḥ pátirbhávañchávasā śūra dhṛṣṇo ǁ

    apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ |
    prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo ||

    अ॒पः । वृ॒त्रम् । व॒व्रि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ताः ।
    प्र । अर्णां॑सि । स॒मु॒द्रिया॑णि । ऐ॒नोः॒ । पतिः॑ । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥

    अपः । वृत्रम् । वव्रिऽवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सऽचेताः ।
    प्र । अर्णांसि । समुद्रियाणि । ऐनोः । पतिः । भवन् । शवसा । शूर । धृष्णो इति ॥

    apáḥ ǀ vṛtrám ǀ vavri-vā́ṃsam ǀ párā ǀ ahan ǀ prá ǀ āvat ǀ te ǀ vájram ǀ pṛthivī́ ǀ sá-cetāḥ ǀ
    prá ǀ árṇāṃsi ǀ samudríyāṇi ǀ ainoḥ ǀ pátiḥ ǀ bhávan ǀ śávasā ǀ śūra ǀ dhṛṣṇo íti ǁ

    apaḥ ǀ vṛtram ǀ vavri-vāṃsam ǀ parā ǀ ahan ǀ pra ǀ āvat ǀ te ǀ vajram ǀ pṛthivī ǀ sa-cetāḥ ǀ
    pra ǀ arṇāṃsi ǀ samudriyāṇi ǀ ainoḥ ǀ patiḥ ǀ bhavan ǀ śavasā ǀ śūra ǀ dhṛṣṇo iti ǁ

    4.16.7 Aṣṭaka 3.5.18.2Anuvāka 4.2.39

  8. Ṛk 8

    अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ ।
    स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नंगि॑रोभिर्गृणा॒नः ॥

    अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते |
    स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ||

    apó yádádrim puruhūta dárdarāvírbhuvatsarámā pūrvyám te ǀ
    sá no netā́ vā́jamā́ darṣi bhū́rim gotrā́ rujánnáṅgirobhirgṛṇānáḥ ǁ

    apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te |
    sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ ||

    अ॒पः । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्दः॑ । आ॒विः । भु॒व॒त् । स॒रमा॑ । पू॒र्व्यम् । ते॒ ।
    सः । नः॒ । ने॒ता । वाज॑म् । आ । द॒र्षि॒ । भूरि॑म् । गो॒त्रा । रु॒जन् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ॥

    अपः । यत् । अद्रिम् । पुरुऽहूत । दर्दः । आविः । भुवत् । सरमा । पूर्व्यम् । ते ।
    सः । नः । नेता । वाजम् । आ । दर्षि । भूरिम् । गोत्रा । रुजन् । अङ्गिरःऽभिः । गृणानः ॥

    apáḥ ǀ yát ǀ ádrim ǀ puru-hūta ǀ dárdaḥ ǀ āvíḥ ǀ bhuvat ǀ sarámā ǀ pūrvyám ǀ te ǀ
    sáḥ ǀ naḥ ǀ netā́ ǀ vā́jam ǀ ā́ ǀ darṣi ǀ bhū́rim ǀ gotrā́ ǀ ruján ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǁ

    apaḥ ǀ yat ǀ adrim ǀ puru-hūta ǀ dardaḥ ǀ āviḥ ǀ bhuvat ǀ saramā ǀ pūrvyam ǀ te ǀ
    saḥ ǀ naḥ ǀ netā ǀ vājam ǀ ā ǀ darṣi ǀ bhūrim ǀ gotrā ǀ rujan ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǁ

    4.16.8 Aṣṭaka 3.5.18.3Anuvāka 4.2.40

  9. Ṛk 9

    अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानं ।
    ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥

    अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् |
    ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त ||

    ácchā kavím nṛmaṇo gā abhíṣṭau svárṣātā maghavannā́dhamānam ǀ
    ūtíbhistámiṣaṇo dyumnáhūtau ní māyā́vānábrahmā dásyurarta ǁ

    acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam |
    ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta ||

    अच्छ॑ । क॒विम् । नृ॒ऽम॒नः॒ । गाः॒ । अ॒भिष्टौ॑ । स्वः॑ऽसाता । म॒घ॒ऽव॒न् । नाध॑मानम् ।
    ऊ॒तिऽभिः॑ । तम् । इ॒ष॒णः॒ । द्यु॒म्नऽहू॑तौ । नि । मा॒याऽवा॑न् । अब्र॑ह्मा । दस्युः॑ । अ॒र्त॒ ॥

    अच्छ । कविम् । नृऽमनः । गाः । अभिष्टौ । स्वःऽसाता । मघऽवन् । नाधमानम् ।
    ऊतिऽभिः । तम् । इषणः । द्युम्नऽहूतौ । नि । मायाऽवान् । अब्रह्मा । दस्युः । अर्त ॥

    áccha ǀ kavím ǀ nṛ-manaḥ ǀ gāḥ ǀ abhíṣṭau ǀ sváḥ-sātā ǀ magha-van ǀ nā́dhamānam ǀ
    ūtí-bhiḥ ǀ tám ǀ iṣaṇaḥ ǀ dyumná-hūtau ǀ ní ǀ māyā́-vān ǀ ábrahmā ǀ dásyuḥ ǀ arta ǁ

    accha ǀ kavim ǀ nṛ-manaḥ ǀ gāḥ ǀ abhiṣṭau ǀ svaḥ-sātā ǀ magha-van ǀ nādhamānam ǀ
    ūti-bhiḥ ǀ tam ǀ iṣaṇaḥ ǀ dyumna-hūtau ǀ ni ǀ māyā-vān ǀ abrahmā ǀ dasyuḥ ǀ arta ǁ

    4.16.9 Aṣṭaka 3.5.18.4Anuvāka 4.2.41

  10. Ṛk 10

    आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः ।
    स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥

    आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः |
    स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी ||

    ā́ dasyughnā́ mánasā yāhyástam bhúvatte kútsaḥ sakhyé níkāmaḥ ǀ
    své yónau ní ṣadatam sárūpā ví vām cikitsadṛtacíddha nā́rī ǁ

    ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ |
    sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī ||

    आ । द॒स्यु॒ऽघ्ना । मन॑सा । या॒हि॒ । अस्त॑म् । भुव॑त् । ते॒ । कुत्सः॑ । स॒ख्ये । निऽका॑मः ।
    स्वे । योनौ॑ । नि । स॒द॒त॒म् । सऽरू॑पा । वि । वा॒म् । चि॒कि॒त्स॒त् । ऋ॒त॒ऽचित् । ह॒ । नारी॑ ॥

    आ । दस्युऽघ्ना । मनसा । याहि । अस्तम् । भुवत् । ते । कुत्सः । सख्ये । निऽकामः ।
    स्वे । योनौ । नि । सदतम् । सऽरूपा । वि । वाम् । चिकित्सत् । ऋतऽचित् । ह । नारी ॥

    ā́ ǀ dasyu-ghnā́ ǀ mánasā ǀ yāhi ǀ ástam ǀ bhúvat ǀ te ǀ kútsaḥ ǀ sakhyé ǀ ní-kāmaḥ ǀ
    své ǀ yónau ǀ ní ǀ sadatam ǀ sá-rūpā ǀ ví ǀ vām ǀ cikitsat ǀ ṛta-cít ǀ ha ǀ nā́rī ǁ

    ā ǀ dasyu-ghnā ǀ manasā ǀ yāhi ǀ astam ǀ bhuvat ǀ te ǀ kutsaḥ ǀ sakhye ǀ ni-kāmaḥ ǀ
    sve ǀ yonau ǀ ni ǀ sadatam ǀ sa-rūpā ǀ vi ǀ vām ǀ cikitsat ǀ ṛta-cit ǀ ha ǀ nārī ǁ

    4.16.10 Aṣṭaka 3.5.18.5Anuvāka 4.2.42

  11. Ṛk 11

    यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः ।
    ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥

    यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः |
    ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् ||

    yā́si kútsena saráthamavasyústodó vā́tasya háryorī́śānaḥ ǀ
    ṛjrā́ vā́jam ná gádhyam yúyūṣankavíryádáhanpā́ryāya bhū́ṣāt ǁ

    yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ |
    ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt ||

    यासि॑ । कुत्से॑न । स॒ऽरथ॑म् । अ॒व॒स्युः । तो॒दः । वात॑स्य । हर्योः॑ । ईशा॑नः ।
    ऋ॒ज्रा । वाज॑म् । न । गध्य॑म् । युयू॑षन् । क॒विः । यत् । अह॑न् । पार्या॑य । भूषा॑त् ॥

    यासि । कुत्सेन । सऽरथम् । अवस्युः । तोदः । वातस्य । हर्योः । ईशानः ।
    ऋज्रा । वाजम् । न । गध्यम् । युयूषन् । कविः । यत् । अहन् । पार्याय । भूषात् ॥

    yā́si ǀ kútsena ǀ sa-rátham ǀ avasyúḥ ǀ todáḥ ǀ vā́tasya ǀ háryoḥ ǀ ī́śānaḥ ǀ
    ṛjrā́ ǀ vā́jam ǀ ná ǀ gádhyam ǀ yúyūṣan ǀ kavíḥ ǀ yát ǀ áhan ǀ pā́ryāya ǀ bhū́ṣāt ǁ

    yāsi ǀ kutsena ǀ sa-ratham ǀ avasyuḥ ǀ todaḥ ǀ vātasya ǀ haryoḥ ǀ īśānaḥ ǀ
    ṛjrā ǀ vājam ǀ na ǀ gadhyam ǀ yuyūṣan ǀ kaviḥ ǀ yat ǀ ahan ǀ pāryāya ǀ bhūṣāt ǁ

    4.16.11 Aṣṭaka 3.5.19.1Anuvāka 4.2.43

  12. Ṛk 12

    कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ ।
    स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥

    कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा |
    सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके ||

    kútsāya śúṣṇamaśúṣam ní barhīḥ prapitvé áhnaḥ kúyavam sahásrā ǀ
    sadyó dásyūnprá mṛṇa kutsyéna prá sū́raścakrám vṛhatādabhī́ke ǁ

    kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā |
    sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke ||

    कुत्सा॑य । शुष्ण॑म् । अ॒शुष॑म् । नि । ब॒र्हीः॒ । प्र॒ऽपि॒त्वे । अह्नः॑ । कुय॑वम् । स॒हस्रा॑ ।
    स॒द्यः । दस्यू॑न् । प्र । मृ॒ण॒ । कु॒त्स्येन॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ ॥

    कुत्साय । शुष्णम् । अशुषम् । नि । बर्हीः । प्रऽपित्वे । अह्नः । कुयवम् । सहस्रा ।
    सद्यः । दस्यून् । प्र । मृण । कुत्स्येन । प्र । सूरः । चक्रम् । वृहतात् । अभीके ॥

    kútsāya ǀ śúṣṇam ǀ aśúṣam ǀ ní ǀ barhīḥ ǀ pra-pitvé ǀ áhnaḥ ǀ kúyavam ǀ sahásrā ǀ
    sadyáḥ ǀ dásyūn ǀ prá ǀ mṛṇa ǀ kutsyéna ǀ prá ǀ sū́raḥ ǀ cakrám ǀ vṛhatāt ǀ abhī́ke ǁ

    kutsāya ǀ śuṣṇam ǀ aśuṣam ǀ ni ǀ barhīḥ ǀ pra-pitve ǀ ahnaḥ ǀ kuyavam ǀ sahasrā ǀ
    sadyaḥ ǀ dasyūn ǀ pra ǀ mṛṇa ǀ kutsyena ǀ pra ǀ sūraḥ ǀ cakram ǀ vṛhatāt ǀ abhīke ǁ

    4.16.12 Aṣṭaka 3.5.19.2Anuvāka 4.2.44

  13. Ṛk 13

    त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रंधीः ।
    पं॒चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥

    त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः |
    पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ||

    tvám píprum mṛ́gayam śūśuvā́ṃsamṛjíśvane vaidathinā́ya randhīḥ ǀ
    pañcāśátkṛṣṇā́ ní vapaḥ sahásrā́tkam ná púro jarimā́ ví dardaḥ ǁ

    tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ |
    pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ ||

    त्वम् । पिप्रु॑म् । मृग॑यम् । शू॒शु॒ऽवांस॑म् । ऋ॒जिश्व॑ने । वै॒द॒थि॒नाय॑ । र॒न्धीः॒ ।
    प॒ञ्चा॒शत् । कृ॒ष्णा । नि । व॒पः॒ । स॒हस्रा॑ । अत्क॑म् । न । पुरः॑ । ज॒रि॒मा । वि । द॒र्द॒रिति॑ दर्दः ॥

    त्वम् । पिप्रुम् । मृगयम् । शूशुऽवांसम् । ऋजिश्वने । वैदथिनाय । रन्धीः ।
    पञ्चाशत् । कृष्णा । नि । वपः । सहस्रा । अत्कम् । न । पुरः । जरिमा । वि । दर्दरिति दर्दः ॥

    tvám ǀ píprum ǀ mṛ́gayam ǀ śūśu-vā́ṃsam ǀ ṛjíśvane ǀ vaidathinā́ya ǀ randhīḥ ǀ
    pañcāśát ǀ kṛṣṇā́ ǀ ní ǀ vapaḥ ǀ sahásrā ǀ átkam ǀ ná ǀ púraḥ ǀ jarimā́ ǀ ví ǀ dardaríti dardaḥ ǁ

    tvam ǀ piprum ǀ mṛgayam ǀ śūśu-vāṃsam ǀ ṛjiśvane ǀ vaidathināya ǀ randhīḥ ǀ
    pañcāśat ǀ kṛṣṇā ǀ ni ǀ vapaḥ ǀ sahasrā ǀ atkam ǀ na ǀ puraḥ ǀ jarimā ǀ vi ǀ dardariti dardaḥ ǁ

    4.16.13 Aṣṭaka 3.5.19.3Anuvāka 4.2.45

  14. Ṛk 14

    सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ ।
    मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥

    सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः |
    मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् ||

    sū́ra upāké tanvám dádhāno ví yátte cétyamṛ́tasya várpaḥ ǀ
    mṛgó ná hastī́ táviṣīmuṣāṇáḥ siṃhó ná bhīmá ā́yudhāni bíbhrat ǁ

    sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ |
    mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat ||

    सूरः॑ । उ॒पा॒के । त॒न्व॑म् । दधा॑नः । वि । यत् । ते॒ । चेति॑ । अ॒मृत॑स्य । वर्पः॑ ।
    मृ॒गः । न । ह॒स्ती । तवि॑षीम् । उ॒षा॒णः । सिं॒हः । न । भी॒मः । आयु॑धानि । बिभ्र॑त् ॥

    सूरः । उपाके । तन्वम् । दधानः । वि । यत् । ते । चेति । अमृतस्य । वर्पः ।
    मृगः । न । हस्ती । तविषीम् । उषाणः । सिंहः । न । भीमः । आयुधानि । बिभ्रत् ॥

    sū́raḥ ǀ upāké ǀ tanvám ǀ dádhānaḥ ǀ ví ǀ yát ǀ te ǀ céti ǀ amṛ́tasya ǀ várpaḥ ǀ
    mṛgáḥ ǀ ná ǀ hastī́ ǀ táviṣīm ǀ uṣāṇáḥ ǀ siṃháḥ ǀ ná ǀ bhīmáḥ ǀ ā́yudhāni ǀ bíbhrat ǁ

    sūraḥ ǀ upāke ǀ tanvam ǀ dadhānaḥ ǀ vi ǀ yat ǀ te ǀ ceti ǀ amṛtasya ǀ varpaḥ ǀ
    mṛgaḥ ǀ na ǀ hastī ǀ taviṣīm ǀ uṣāṇaḥ ǀ siṃhaḥ ǀ na ǀ bhīmaḥ ǀ āyudhāni ǀ bibhrat ǁ

    4.16.14 Aṣṭaka 3.5.19.4Anuvāka 4.2.46

  15. Ṛk 15

    इंद्रं॒ कामा॑ वसू॒यंतो॑ अग्म॒न्त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः ।
    श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥

    इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीऌहे न सवने चकानाः |
    श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः ||

    índram kā́mā vasūyánto agmantsvármīḷhe ná sávane cakānā́ḥ ǀ
    śravasyávaḥ śaśamānā́sa uktháiróko ná raṇvā́ sudṛ́śīva puṣṭíḥ ǁ

    indraṃ kāmā vasūyanto agman svarmīḷhe na savane cakānāḥ |
    śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ ||

    इन्द्र॑म् । कामाः॑ । व॒सु॒ऽयन्तः॑ । अ॒ग्म॒न् । स्वः॑ऽमीळ्हे । न । सव॑ने । च॒का॒नाः ।
    श्र॒व॒स्यवः॑ । श॒श॒मा॒नासः॑ । उ॒क्थैः । ओकः॑ । न । र॒ण्वा । सु॒दृशी॑ऽइव । पु॒ष्टिः ॥

    इन्द्रम् । कामाः । वसुऽयन्तः । अग्मन् । स्वःऽमीळ्हे । न । सवने । चकानाः ।
    श्रवस्यवः । शशमानासः । उक्थैः । ओकः । न । रण्वा । सुदृशीऽइव । पुष्टिः ॥

    índram ǀ kā́māḥ ǀ vasu-yántaḥ ǀ agman ǀ sváḥ-mīḷhe ǀ ná ǀ sávane ǀ cakānā́ḥ ǀ
    śravasyávaḥ ǀ śaśamānā́saḥ ǀ uktháiḥ ǀ ókaḥ ǀ ná ǀ raṇvā́ ǀ sudṛ́śī-iva ǀ puṣṭíḥ ǁ

    indram ǀ kāmāḥ ǀ vasu-yantaḥ ǀ agman ǀ svaḥ-mīḷhe ǀ na ǀ savane ǀ cakānāḥ ǀ
    śravasyavaḥ ǀ śaśamānāsaḥ ǀ ukthaiḥ ǀ okaḥ ǀ na ǀ raṇvā ǀ sudṛśī-iva ǀ puṣṭiḥ ǁ

    4.16.15 Aṣṭaka 3.5.19.5Anuvāka 4.2.47

  16. Ṛk 16

    तमिद्व॒ इंद्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ ।
    यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥

    तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि |
    यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः ||

    támídva índram suhávam huvema yástā́ cakā́ra náryā purū́ṇi ǀ
    yó mā́vate jaritré gádhyam cinmakṣū́ vā́jam bhárati spārhárādhāḥ ǁ

    tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi |
    yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ ||

    तम् । इत् । वः॒ । इन्द्र॑म् । सु॒ऽहव॑म् । हु॒वे॒म॒ । यः । ता । च॒कार॑ । नर्या॑ । पु॒रूणि॑ ।
    यः । माऽव॑ते । ज॒रि॒त्रे । गध्य॑म् । चि॒त् । म॒क्षु । वाज॑म् । भर॑ति । स्पा॒र्हऽरा॑धाः ॥

    तम् । इत् । वः । इन्द्रम् । सुऽहवम् । हुवेम । यः । ता । चकार । नर्या । पुरूणि ।
    यः । माऽवते । जरित्रे । गध्यम् । चित् । मक्षु । वाजम् । भरति । स्पार्हऽराधाः ॥

    tám ǀ ít ǀ vaḥ ǀ índram ǀ su-hávam ǀ huvema ǀ yáḥ ǀ tā́ ǀ cakā́ra ǀ náryā ǀ purū́ṇi ǀ
    yáḥ ǀ mā́-vate ǀ jaritré ǀ gádhyam ǀ cit ǀ makṣú ǀ vā́jam ǀ bhárati ǀ spārhá-rādhāḥ ǁ

    tam ǀ it ǀ vaḥ ǀ indram ǀ su-havam ǀ huvema ǀ yaḥ ǀ tā ǀ cakāra ǀ naryā ǀ purūṇi ǀ
    yaḥ ǀ mā-vate ǀ jaritre ǀ gadhyam ǀ cit ǀ makṣu ǀ vājam ǀ bharati ǀ spārha-rādhāḥ ǁ

    4.16.16 Aṣṭaka 3.5.20.1Anuvāka 4.2.48

  17. Ṛk 17

    ति॒ग्मा यदं॒तर॒शनिः॒ पता॑ति॒ कस्मिं॑चिच्छूर मुहु॒के जना॑नां ।
    घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥

    तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् |
    घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः ||

    tigmā́ yádantáraśániḥ pátāti kásmiñcicchūra muhuké jánānām ǀ
    ghorā́ yádarya sámṛtirbhávātyádha smā nastanvó bodhi gopā́ḥ ǁ

    tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām |
    ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ ||

    ति॒ग्मा । यत् । अ॒न्तः । अ॒शनिः॑ । पता॑ति । कस्मि॑न् । चि॒त् । शू॒र॒ । मु॒हु॒के । जना॑नाम् ।
    घो॒रा । यत् । अ॒र्य॒ । सम्ऽऋ॑तिः । भवा॑ति । अध॑ । स्म॒ । नः॒ । त॒न्वः॑ । बो॒धि॒ । गो॒पाः ॥

    तिग्मा । यत् । अन्तः । अशनिः । पताति । कस्मिन् । चित् । शूर । मुहुके । जनानाम् ।
    घोरा । यत् । अर्य । सम्ऽऋतिः । भवाति । अध । स्म । नः । तन्वः । बोधि । गोपाः ॥

    tigmā́ ǀ yát ǀ antáḥ ǀ aśániḥ ǀ pátāti ǀ kásmin ǀ cit ǀ śūra ǀ muhuké ǀ jánānām ǀ
    ghorā́ ǀ yát ǀ arya ǀ sám-ṛtiḥ ǀ bhávāti ǀ ádha ǀ sma ǀ naḥ ǀ tanváḥ ǀ bodhi ǀ gopā́ḥ ǁ

    tigmā ǀ yat ǀ antaḥ ǀ aśaniḥ ǀ patāti ǀ kasmin ǀ cit ǀ śūra ǀ muhuke ǀ janānām ǀ
    ghorā ǀ yat ǀ arya ǀ sam-ṛtiḥ ǀ bhavāti ǀ adha ǀ sma ǀ naḥ ǀ tanvaḥ ǀ bodhi ǀ gopāḥ ǁ

    4.16.17 Aṣṭaka 3.5.20.2Anuvāka 4.2.49

  18. Ṛk 18

    भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ ।
    त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥

    भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ |
    त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः ||

    bhúvo’vitā́ vāmádevasya dhīnā́m bhúvaḥ sákhāvṛkó vā́jasātau ǀ
    tvā́mánu prámatimā́ jaganmoruśáṃso jaritré viśvádha syāḥ ǁ

    bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau |
    tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ ||

    भुवः॑ । अ॒वि॒ता । वा॒मऽदे॑वस्य । धी॒नाम् । भुवः॑ । सखा॑ । अ॒वृ॒कः । वाज॑ऽसातौ ।
    त्वाम् । अनु॑ । प्रऽम॑तिम् । आ । ज॒ग॒न्म॒ । उ॒रु॒ऽशंसः॑ । ज॒रि॒त्रे । वि॒श्वध॑ । स्याः॒ ॥

    भुवः । अविता । वामऽदेवस्य । धीनाम् । भुवः । सखा । अवृकः । वाजऽसातौ ।
    त्वाम् । अनु । प्रऽमतिम् । आ । जगन्म । उरुऽशंसः । जरित्रे । विश्वध । स्याः ॥

    bhúvaḥ ǀ avitā́ ǀ vāmá-devasya ǀ dhīnā́m ǀ bhúvaḥ ǀ sákhā ǀ avṛkáḥ ǀ vā́ja-sātau ǀ
    tvā́m ǀ ánu ǀ prá-matim ǀ ā́ ǀ jaganma ǀ uru-śáṃsaḥ ǀ jaritré ǀ viśvádha ǀ syāḥ ǁ

    bhuvaḥ ǀ avitā ǀ vāma-devasya ǀ dhīnām ǀ bhuvaḥ ǀ sakhā ǀ avṛkaḥ ǀ vāja-sātau ǀ
    tvām ǀ anu ǀ pra-matim ǀ ā ǀ jaganma ǀ uru-śaṃsaḥ ǀ jaritre ǀ viśvadha ǀ syāḥ ǁ

    4.16.18 Aṣṭaka 3.5.20.3Anuvāka 4.2.50

  19. Ṛk 19

    ए॒भिर्नृभि॑रिंद्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ ।
    द्यावो॒ न द्यु॒म्नैर॒भि संतो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥

    एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ |
    द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः ||

    ebhírnṛ́bhirindra tvāyúbhiṣṭvā maghávadbhirmaghavanvíśva ājáu ǀ
    dyā́vo ná dyumnáirabhí sánto aryáḥ kṣapó madema śarádaśca pūrvī́ḥ ǁ

    ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau |
    dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ ||

    ए॒भिः । नृऽभिः॑ । इ॒न्द्र॒ । त्वा॒युऽभिः॑ । त्वा॒ । म॒घव॑त्ऽभिः । म॒घ॒ऽव॒न् । विश्वे॑ । आ॒जौ ।
    द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्तः॑ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः॑ । च॒ । पू॒र्वीः ॥

    एभिः । नृऽभिः । इन्द्र । त्वायुऽभिः । त्वा । मघवत्ऽभिः । मघऽवन् । विश्वे । आजौ ।
    द्यावः । न । द्युम्नैः । अभि । सन्तः । अर्यः । क्षपः । मदेम । शरदः । च । पूर्वीः ॥

    ebhíḥ ǀ nṛ́-bhiḥ ǀ indra ǀ tvāyú-bhiḥ ǀ tvā ǀ maghávat-bhiḥ ǀ magha-van ǀ víśve ǀ ājáu ǀ
    dyā́vaḥ ǀ ná ǀ dyumnáiḥ ǀ abhí ǀ sántaḥ ǀ aryáḥ ǀ kṣapáḥ ǀ madema ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǁ

    ebhiḥ ǀ nṛ-bhiḥ ǀ indra ǀ tvāyu-bhiḥ ǀ tvā ǀ maghavat-bhiḥ ǀ magha-van ǀ viśve ǀ ājau ǀ
    dyāvaḥ ǀ na ǀ dyumnaiḥ ǀ abhi ǀ santaḥ ǀ aryaḥ ǀ kṣapaḥ ǀ madema ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǁ

    4.16.19 Aṣṭaka 3.5.20.4Anuvāka 4.2.51

  20. Ṛk 20

    ए॒वेदिंद्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथं॑ ।
    नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥

    एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् |
    नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः ||

    evédíndrāya vṛṣabhā́ya vṛ́ṣṇe bráhmākarma bhṛ́gavo ná rátham ǀ
    nū́ cidyáthā naḥ sakhyā́ viyóṣadásanna ugró’vitā́ tanūpā́ḥ ǁ

    eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham |
    nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ ||

    ए॒व । इत् । इन्द्रा॑य । वृ॒ष॒भाय॑ । वृष्णे॑ । ब्रह्म॑ । अ॒क॒र्म॒ । भृग॑वः । न । रथ॑म् ।
    नु । चि॒त् । यथा॑ । नः॒ । स॒ख्या । वि॒ऽयोष॑त् । अस॑त् । नः॒ । उ॒ग्रः । अ॒वि॒ता । त॒नू॒ऽपाः ॥

    एव । इत् । इन्द्राय । वृषभाय । वृष्णे । ब्रह्म । अकर्म । भृगवः । न । रथम् ।
    नु । चित् । यथा । नः । सख्या । विऽयोषत् । असत् । नः । उग्रः । अविता । तनूऽपाः ॥

    evá ǀ ít ǀ índrāya ǀ vṛṣabhā́ya ǀ vṛ́ṣṇe ǀ bráhma ǀ akarma ǀ bhṛ́gavaḥ ǀ ná ǀ rátham ǀ
    nú ǀ cit ǀ yáthā ǀ naḥ ǀ sakhyā́ ǀ vi-yóṣat ǀ ásat ǀ naḥ ǀ ugráḥ ǀ avitā́ ǀ tanū-pā́ḥ ǁ

    eva ǀ it ǀ indrāya ǀ vṛṣabhāya ǀ vṛṣṇe ǀ brahma ǀ akarma ǀ bhṛgavaḥ ǀ na ǀ ratham ǀ
    nu ǀ cit ǀ yathā ǀ naḥ ǀ sakhyā ǀ vi-yoṣat ǀ asat ǀ naḥ ǀ ugraḥ ǀ avitā ǀ tanū-pāḥ ǁ

    4.16.20 Aṣṭaka 3.5.20.5Anuvāka 4.2.52

  21. Ṛk 21

    नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
    अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

    नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
    अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||

    nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
    ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

    nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
    akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

    नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
    अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

    नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
    अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

    nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
    ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

    nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
    akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ

    4.16.21 Aṣṭaka 3.5.20.6Anuvāka 4.2.53

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.16 · Indra

Interpretations

Sri Aurobindo

Ṛk 4

When by the hymns of illumination (arkaiU) Swar was found, entirely visible, when they ( the Angirasas) made to shine the great light out of the night, he (Indra) made the darkness ill-assured (i.e. loosened their firm hold) so that men might have vision. (SABCL, Vol. 10, p.143)

Ṛk 8

“When thou didst tear the waters out of the hill, Sarama became manifest before thee; so do thou as our leader tear out much wealth for us, breaking the pens, hymned by the Angirasas”. (SABCL, Vol. 10, p. 210)