Sūkta 54
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles svarāṭtriṣṭup (3-5); bhuriktriṣṭup (1); nicṛttriṣṭup (2); triṣṭup (6)
2nd set of styles jagatī (1-5); triṣṭubh (6)
-
Ṛk 1
अभू॑द्दे॒वः स॑वि॒ता वंद्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः |
वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ||ábhūddeváḥ savitā́ vándyo nú na idā́nīmáhna upavā́cyo nṛ́bhiḥ ǀ
ví yó rátnā bhájati mānavébhyaḥ śréṣṭham no átra dráviṇam yáthā dádhat ǁabhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ |
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ ।
वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥अभूत् । देवः । सविता । वन्द्यः । नु । नः । इदानीम् । अह्नः । उपऽवाच्यः । नृऽभिः ।
वि । यः । रत्ना । भजति । मानवेभ्यः । श्रेष्ठम् । नः । अत्र । द्रविणम् । यथा । दधत् ॥ábhūt ǀ deváḥ ǀ savitā́ ǀ vándyaḥ ǀ nú ǀ naḥ ǀ idā́nīm ǀ áhnaḥ ǀ upa-vā́cyaḥ ǀ nṛ́-bhiḥ ǀ
ví ǀ yáḥ ǀ rátnā ǀ bhájati ǀ mānavébhyaḥ ǀ śréṣṭham ǀ naḥ ǀ átra ǀ dráviṇam ǀ yáthā ǀ dádhat ǁabhūt ǀ devaḥ ǀ savitā ǀ vandyaḥ ǀ nu ǀ naḥ ǀ idānīm ǀ ahnaḥ ǀ upa-vācyaḥ ǀ nṛ-bhiḥ ǀ
vi ǀ yaḥ ǀ ratnā ǀ bhajati ǀ mānavebhyaḥ ǀ śreṣṭham ǀ naḥ ǀ atra ǀ draviṇam ǀ yathā ǀ dadhat ǁ4.54.1 Aṣṭaka 3.8.5.1Anuvāka 4.5.59
-
Ṛk 2
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मं ।
आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् |
आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ||devébhyo hí prathamám yajñíyebhyo’mṛtatvám suvási bhāgámuttamám ǀ
ā́díddāmā́nam savitarvyū́rṇuṣe’nūcīnā́ jīvitā́ mā́nuṣebhyaḥ ǁdevebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam |
ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ ||दे॒वेभ्यः॑ । हि । प्र॒थ॒मम् । य॒ज्ञिये॑भ्यः । अ॒मृ॒त॒ऽत्वम् । सु॒वसि॑ । भा॒गम् । उ॒त्ऽत॒मम् ।
आत् । इत् । दा॒मान॑म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु॑षेभ्यः ॥देवेभ्यः । हि । प्रथमम् । यज्ञियेभ्यः । अमृतऽत्वम् । सुवसि । भागम् । उत्ऽतमम् ।
आत् । इत् । दामानम् । सवितः । वि । ऊर्णुषे । अनूचीना । जीविता । मानुषेभ्यः ॥devébhyaḥ ǀ hí ǀ prathamám ǀ yajñíyebhyaḥ ǀ amṛta-tvám ǀ suvási ǀ bhāgám ǀ ut-tamám ǀ
ā́t ǀ ít ǀ dāmā́nam ǀ savitaḥ ǀ ví ǀ ūrṇuṣe ǀ anūcīnā́ ǀ jīvitā́ ǀ mā́nuṣebhyaḥ ǁdevebhyaḥ ǀ hi ǀ prathamam ǀ yajñiyebhyaḥ ǀ amṛta-tvam ǀ suvasi ǀ bhāgam ǀ ut-tamam ǀ
āt ǀ it ǀ dāmānam ǀ savitaḥ ǀ vi ǀ ūrṇuṣe ǀ anūcīnā ǀ jīvitā ǀ mānuṣebhyaḥ ǁ4.54.2 Aṣṭaka 3.8.5.2Anuvāka 4.5.60
-
Ṛk 3
अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ ।
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता |
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ||ácittī yáccakṛmā́ dáivye jáne dīnáirdákṣaiḥ prábhūtī pūruṣatvátā ǀ
devéṣu ca savitarmā́nuṣeṣu ca tvám no átra suvatādánāgasaḥ ǁacittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā |
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ ||अचि॑त्ती । यत् । च॒कृ॒म । दैव्ये॑ । जने॑ । दी॒नैः । दक्षः॑ । प्रऽभू॑ती । पु॒रु॒ष॒त्वता॑ ।
दे॒वेषु॑ । च॒ । स॒वि॒तः॒ । मानु॑षेषु । च॒ । त्वम् । नः॒ । अत्र॑ । सु॒व॒ता॒त् । अना॑गसः ॥अचित्ती । यत् । चकृम । दैव्ये । जने । दीनैः । दक्षः । प्रऽभूती । पुरुषत्वता ।
देवेषु । च । सवितः । मानुषेषु । च । त्वम् । नः । अत्र । सुवतात् । अनागसः ॥ácittī ǀ yát ǀ cakṛmá ǀ dáivye ǀ jáne ǀ dīnáiḥ ǀ dákṣaḥ ǀ prá-bhūtī ǀ puruṣatvátā ǀ
devéṣu ǀ ca ǀ savitaḥ ǀ mā́nuṣeṣu ǀ ca ǀ tvám ǀ naḥ ǀ átra ǀ suvatāt ǀ ánāgasaḥ ǁacittī ǀ yat ǀ cakṛma ǀ daivye ǀ jane ǀ dīnaiḥ ǀ dakṣaḥ ǀ pra-bhūtī ǀ puruṣatvatā ǀ
deveṣu ǀ ca ǀ savitaḥ ǀ mānuṣeṣu ǀ ca ǀ tvam ǀ naḥ ǀ atra ǀ suvatāt ǀ anāgasaḥ ǁ4.54.3 Aṣṭaka 3.8.5.3Anuvāka 4.5.61
-
Ṛk 4
न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।
यत्पृ॑थि॒व्या वरि॑म॒न्ना स्वं॑गु॒रिर्वर्ष्मं॑दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति |
यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ||ná pramíye savitúrdáivyasya tádyáthā víśvam bhúvanam dhārayiṣyáti ǀ
yátpṛthivyā́ várimannā́ svaṅgurírvárṣmandiváḥ suváti satyámasya tát ǁna pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati |
yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat ||न । प्र॒ऽमिये॑ । स॒वि॒तुः । दैव्य॑स्य । तत् । यथा॑ । विश्व॑म् । भुव॑नम् । धा॒र॒यि॒ष्यति॑ ।
यत् । पृ॒थि॒व्याः । वरि॑मन् । आ । सु॒ऽअ॒ङ्गु॒रिः । वर्ष्म॑न् । दि॒वः । सु॒वति॑ । स॒त्यम् । अ॒स्य॒ । तत् ॥न । प्रऽमिये । सवितुः । दैव्यस्य । तत् । यथा । विश्वम् । भुवनम् । धारयिष्यति ।
यत् । पृथिव्याः । वरिमन् । आ । सुऽअङ्गुरिः । वर्ष्मन् । दिवः । सुवति । सत्यम् । अस्य । तत् ॥ná ǀ pra-míye ǀ savitúḥ ǀ dáivyasya ǀ tát ǀ yáthā ǀ víśvam ǀ bhúvanam ǀ dhārayiṣyáti ǀ
yát ǀ pṛthivyā́ḥ ǀ váriman ǀ ā́ ǀ su-aṅguríḥ ǀ várṣman ǀ diváḥ ǀ suváti ǀ satyám ǀ asya ǀ tát ǁna ǀ pra-miye ǀ savituḥ ǀ daivyasya ǀ tat ǀ yathā ǀ viśvam ǀ bhuvanam ǀ dhārayiṣyati ǀ
yat ǀ pṛthivyāḥ ǀ variman ǀ ā ǀ su-aṅguriḥ ǀ varṣman ǀ divaḥ ǀ suvati ǀ satyam ǀ asya ǀ tat ǁ4.54.4 Aṣṭaka 3.8.5.4Anuvāka 4.5.62
-
Ṛk 5
इंद्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः ।
यथा॑यथा प॒तयं॑तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः |
यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ||índrajyeṣṭhānbṛhádbhyaḥ párvatebhyaḥ kṣáyām̐ ebhyaḥ suvasi pastyā́vataḥ ǀ
yáthāyathā patáyanto viyemirá eváivá tasthuḥ savitaḥ savā́ya te ǁindrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ |
yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ||इन्द्र॑ऽज्येष्ठान् । बृ॒हत्ऽभ्यः॑ । पर्व॑तेभ्यः । क्षया॑न् । ए॒भ्यः॒ । सु॒व॒सि॒ । प॒स्त्य॑ऽवतः ।
यथा॑ऽयथा । प॒तय॑न्तः । वि॒ऽये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः॒ । स॒वि॒त॒रिति॑ । स॒वाय॑ । ते॒ ॥इन्द्रऽज्येष्ठान् । बृहत्ऽभ्यः । पर्वतेभ्यः । क्षयान् । एभ्यः । सुवसि । पस्त्यऽवतः ।
यथाऽयथा । पतयन्तः । विऽयेमिरे । एव । एव । तस्थुः । सवितरिति । सवाय । ते ॥índra-jyeṣṭhān ǀ bṛhát-bhyaḥ ǀ párvatebhyaḥ ǀ kṣáyān ǀ ebhyaḥ ǀ suvasi ǀ pastyá-vataḥ ǀ
yáthā-yathā ǀ patáyantaḥ ǀ vi-yemiré ǀ evá ǀ evá ǀ tasthuḥ ǀ savitaríti ǀ savā́ya ǀ te ǁindra-jyeṣṭhān ǀ bṛhat-bhyaḥ ǀ parvatebhyaḥ ǀ kṣayān ǀ ebhyaḥ ǀ suvasi ǀ pastya-vataḥ ǀ
yathā-yathā ǀ patayantaḥ ǀ vi-yemire ǀ eva ǀ eva ǀ tasthuḥ ǀ savitariti ǀ savāya ǀ te ǁ4.54.5 Aṣṭaka 3.8.5.5Anuvāka 4.5.63
-
Ṛk 6
ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वंति॑ ।
इंद्रो॒ द्यावा॑पृथि॒वी सिंधु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति |
इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ||yé te tríráhantsavitaḥ savā́so divédive sáubhagamāsuvánti ǀ
índro dyā́vāpṛthivī́ síndhuradbhírādityáirno áditiḥ śárma yaṃsat ǁye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti |
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||ये । ते॒ । त्रिः । अह॑न् । स॒वि॒त॒रिति॑ । स॒वासः॑ । दि॒वेऽदि॑वे । सौभ॑गम् । आ॒ऽसु॒वन्ति॑ ।
इन्द्रः॑ । द्यावा॑पृथि॒वी इति॑ । सिन्धुः॑ । अ॒त्ऽभिः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥ये । ते । त्रिः । अहन् । सवितरिति । सवासः । दिवेऽदिवे । सौभगम् । आऽसुवन्ति ।
इन्द्रः । द्यावापृथिवी इति । सिन्धुः । अत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥yé ǀ te ǀ tríḥ ǀ áhan ǀ savitaríti ǀ savā́saḥ ǀ divé-dive ǀ sáubhagam ǀ ā-suvánti ǀ
índraḥ ǀ dyā́vāpṛthivī́ íti ǀ síndhuḥ ǀ at-bhíḥ ǀ ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yaṃsat ǁye ǀ te ǀ triḥ ǀ ahan ǀ savitariti ǀ savāsaḥ ǀ dive-dive ǀ saubhagam ǀ ā-suvanti ǀ
indraḥ ǀ dyāvāpṛthivī iti ǀ sindhuḥ ǀ at-bhiḥ ǀ ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yaṃsat ǁ4.54.6 Aṣṭaka 3.8.5.6Anuvāka 4.5.64
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.