Ṛgveda · Maṇḍala 4 · Sūkta 54

Ṛk 4.54.6

Savitṛ · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वंति॑ ।
इंद्रो॒ द्यावा॑पृथि॒वी सिंधु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥

ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति |
इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ||

yé te tríráhantsavitaḥ savā́so divédive sáubhagamāsuvánti ǀ
índro dyā́vāpṛthivī́ síndhuradbhírādityáirno áditiḥ śárma yaṃsat ǁ

ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti |
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||

Padapāṭha

ये । ते॒ । त्रिः । अह॑न् । स॒वि॒त॒रिति॑ । स॒वासः॑ । दि॒वेऽदि॑वे । सौभ॑गम् । आ॒ऽसु॒वन्ति॑ ।
इन्द्रः॑ । द्यावा॑पृथि॒वी इति॑ । सिन्धुः॑ । अ॒त्ऽभिः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥

ये । ते । त्रिः । अहन् । सवितरिति । सवासः । दिवेऽदिवे । सौभगम् । आऽसुवन्ति ।
इन्द्रः । द्यावापृथिवी इति । सिन्धुः । अत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥

yé ǀ te ǀ tríḥ ǀ áhan ǀ savitaríti ǀ savā́saḥ ǀ divé-dive ǀ sáubhagam ǀ ā-suvánti ǀ
índraḥ ǀ dyā́vāpṛthivī́ íti ǀ síndhuḥ ǀ at-bhíḥ ǀ ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yaṃsat ǁ

ye ǀ te ǀ triḥ ǀ ahan ǀ savitariti ǀ savāsaḥ ǀ dive-dive ǀ saubhagam ǀ ā-suvanti ǀ
indraḥ ǀ dyāvāpṛthivī iti ǀ sindhuḥ ǀ at-bhiḥ ǀ ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yaṃsat ǁ

References

Maṇḍala · Sūkta · Ṛk
04.054.06
Aṣṭaka · Adhyāya · Varga · Ṛk
3.8.05.06
Maṇḍala · Anuvāka · Ṛk
04.05.064
Devatā देवता
Savitṛ
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.54.6

Interpretations

Sāyaṇa

ये यजमाना हे सवितस्ते त्वदर्थं सवासः सवाः सोमाः । द्वितीयार्थ प्रथमा । सोमान् । यद्वा । सवासः सवनानि प्रातरादीनि प्रति त्रिरहन्नभिषुण्वन्ति । न केवलमेकस्मिन्नेवाहनि सवनत्रयेषु अपि तु दिवे दिवे प्रतिदिनं सौभागं सौभाग्यजनकमासुवन्ति । अभिषुन्वन्ति । तेभ्यो नोऽस्मभ्यमिन्द्रः शर्म यंसत् । यच्छतु । द्यावापृथिव्यौ चा द्भिर्विशिष्टा सिन्धुः सिन्ध्वभिमानिदेवता चादित्यैः सहितादितिश्च शर्म यंसत् । सावित्रे सूक्त इन्द्रादीनां निपातमिक्त्वा तेषां प्रार्थना न विरुध्यते ॥ ६ ॥