Ṛk 4.54.1
Saṃhitā
अभू॑द्दे॒वः स॑वि॒ता वंद्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥
अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः |
वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ||
ábhūddeváḥ savitā́ vándyo nú na idā́nīmáhna upavā́cyo nṛ́bhiḥ ǀ
ví yó rátnā bhájati mānavébhyaḥ śréṣṭham no átra dráviṇam yáthā dádhat ǁ
abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ |
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||
Padapāṭha
अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ ।
वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥
अभूत् । देवः । सविता । वन्द्यः । नु । नः । इदानीम् । अह्नः । उपऽवाच्यः । नृऽभिः ।
वि । यः । रत्ना । भजति । मानवेभ्यः । श्रेष्ठम् । नः । अत्र । द्रविणम् । यथा । दधत् ॥
ábhūt ǀ deváḥ ǀ savitā́ ǀ vándyaḥ ǀ nú ǀ naḥ ǀ idā́nīm ǀ áhnaḥ ǀ upa-vā́cyaḥ ǀ nṛ́-bhiḥ ǀ
ví ǀ yáḥ ǀ rátnā ǀ bhájati ǀ mānavébhyaḥ ǀ śréṣṭham ǀ naḥ ǀ átra ǀ dráviṇam ǀ yáthā ǀ dádhat ǁ
abhūt ǀ devaḥ ǀ savitā ǀ vandyaḥ ǀ nu ǀ naḥ ǀ idānīm ǀ ahnaḥ ǀ upa-vācyaḥ ǀ nṛ-bhiḥ ǀ
vi ǀ yaḥ ǀ ratnā ǀ bhajati ǀ mānavebhyaḥ ǀ śreṣṭham ǀ naḥ ǀ atra ǀ draviṇam ǀ yathā ǀ dadhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.054.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.05.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.059
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.