Ṛk 4.54.2
Saṃhitā
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मं ।
आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥
देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् |
आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ||
devébhyo hí prathamám yajñíyebhyo’mṛtatvám suvási bhāgámuttamám ǀ
ā́díddāmā́nam savitarvyū́rṇuṣe’nūcīnā́ jīvitā́ mā́nuṣebhyaḥ ǁ
devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam |
ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ ||
Padapāṭha
दे॒वेभ्यः॑ । हि । प्र॒थ॒मम् । य॒ज्ञिये॑भ्यः । अ॒मृ॒त॒ऽत्वम् । सु॒वसि॑ । भा॒गम् । उ॒त्ऽत॒मम् ।
आत् । इत् । दा॒मान॑म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु॑षेभ्यः ॥
देवेभ्यः । हि । प्रथमम् । यज्ञियेभ्यः । अमृतऽत्वम् । सुवसि । भागम् । उत्ऽतमम् ।
आत् । इत् । दामानम् । सवितः । वि । ऊर्णुषे । अनूचीना । जीविता । मानुषेभ्यः ॥
devébhyaḥ ǀ hí ǀ prathamám ǀ yajñíyebhyaḥ ǀ amṛta-tvám ǀ suvási ǀ bhāgám ǀ ut-tamám ǀ
ā́t ǀ ít ǀ dāmā́nam ǀ savitaḥ ǀ ví ǀ ūrṇuṣe ǀ anūcīnā́ ǀ jīvitā́ ǀ mā́nuṣebhyaḥ ǁ
devebhyaḥ ǀ hi ǀ prathamam ǀ yajñiyebhyaḥ ǀ amṛta-tvam ǀ suvasi ǀ bhāgam ǀ ut-tamam ǀ
āt ǀ it ǀ dāmānam ǀ savitaḥ ǀ vi ǀ ūrṇuṣe ǀ anūcīnā ǀ jīvitā ǀ mānuṣebhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.054.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.05.02
- Maṇḍala · Anuvāka · Ṛk
- 04.05.060
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.