Ṛk 4.54.3
Saṃhitā
अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ ।
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥
अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता |
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ||
ácittī yáccakṛmā́ dáivye jáne dīnáirdákṣaiḥ prábhūtī pūruṣatvátā ǀ
devéṣu ca savitarmā́nuṣeṣu ca tvám no átra suvatādánāgasaḥ ǁ
acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā |
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ ||
Padapāṭha
अचि॑त्ती । यत् । च॒कृ॒म । दैव्ये॑ । जने॑ । दी॒नैः । दक्षः॑ । प्रऽभू॑ती । पु॒रु॒ष॒त्वता॑ ।
दे॒वेषु॑ । च॒ । स॒वि॒तः॒ । मानु॑षेषु । च॒ । त्वम् । नः॒ । अत्र॑ । सु॒व॒ता॒त् । अना॑गसः ॥
अचित्ती । यत् । चकृम । दैव्ये । जने । दीनैः । दक्षः । प्रऽभूती । पुरुषत्वता ।
देवेषु । च । सवितः । मानुषेषु । च । त्वम् । नः । अत्र । सुवतात् । अनागसः ॥
ácittī ǀ yát ǀ cakṛmá ǀ dáivye ǀ jáne ǀ dīnáiḥ ǀ dákṣaḥ ǀ prá-bhūtī ǀ puruṣatvátā ǀ
devéṣu ǀ ca ǀ savitaḥ ǀ mā́nuṣeṣu ǀ ca ǀ tvám ǀ naḥ ǀ átra ǀ suvatāt ǀ ánāgasaḥ ǁ
acittī ǀ yat ǀ cakṛma ǀ daivye ǀ jane ǀ dīnaiḥ ǀ dakṣaḥ ǀ pra-bhūtī ǀ puruṣatvatā ǀ
deveṣu ǀ ca ǀ savitaḥ ǀ mānuṣeṣu ǀ ca ǀ tvam ǀ naḥ ǀ atra ǀ suvatāt ǀ anāgasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.054.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.05.03
- Maṇḍala · Anuvāka · Ṛk
- 04.05.061
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.