Ṛgveda · Maṇḍala 4

Sūkta 21

Indra · Vāmadeva Gautama · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (1, 2, 7, 10); nicṛttriṣṭup (4, 5); virāṭtrisṭup (6, 8); svarāṭpaṅkti (3); triṣṭup (9); nicṛtpaṅkti (11)

2nd set of styles triṣṭubh

  1. Ṛk 1

    आ या॒त्विंद्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ ।
    वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥

    आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः |
    वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ||

    ā́ yātvíndró’vasa úpa na ihá stutáḥ sadhamā́dastu śū́raḥ ǀ
    vāvṛdhānástáviṣīryásya pūrvī́rdyáurná kṣatrámabhíbhūti púṣyāt ǁ

    ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ |
    vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt ||

    आ । या॒तु॒ । इन्द्रः॑ । अव॑से । उप॑ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒ऽमात् । अ॒स्तु॒ । शूरः॑ ।
    व॒वृ॒धा॒नः । तवि॑षीः । यस्य॑ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भिऽभू॑ति । पुष्या॑त् ॥

    आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सधऽमात् । अस्तु । शूरः ।
    ववृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभिऽभूति । पुष्यात् ॥

    ā́ ǀ yātu ǀ índraḥ ǀ ávase ǀ úpa ǀ naḥ ǀ ihá ǀ stutáḥ ǀ sadha-mā́t ǀ astu ǀ śū́raḥ ǀ
    vavṛdhānáḥ ǀ táviṣīḥ ǀ yásya ǀ pūrvī́ḥ ǀ dyáuḥ ǀ ná ǀ kṣatrám ǀ abhí-bhūti ǀ púṣyāt ǁ

    ā ǀ yātu ǀ indraḥ ǀ avase ǀ upa ǀ naḥ ǀ iha ǀ stutaḥ ǀ sadha-māt ǀ astu ǀ śūraḥ ǀ
    vavṛdhānaḥ ǀ taviṣīḥ ǀ yasya ǀ pūrvīḥ ǀ dyauḥ ǀ na ǀ kṣatram ǀ abhi-bhūti ǀ puṣyāt ǁ

    4.21.1 Aṣṭaka 3.6.5.1Anuvāka 4.2.110

  2. Ṛk 2

    तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।
    यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वाँ तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥

    तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् |
    यस्य क्रतुर् विदथ्यो न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः ||

    tásyédihá stavatha vṛ́ṣṇyāni tuvidyumnásya tuvirā́dhaso nṝ́n ǀ
    yásya kráturvidathyó ná samrā́ṭ sāhvā́m̐ tárutro abhyásti kṛṣṭī́ḥ ǁ

    tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn |
    yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ ||

    तस्य॑ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या॑नि । तु॒वि॒ऽद्यु॒म्नस्य॑ । तु॒वि॒ऽराध॑सः । नॄन् ।
    यस्य॑ । क्रतुः॑ । वि॒द॒थ्यः॑ । न । स॒म्ऽराट् । स॒ह्वान् । तरु॑त्रः । अ॒भि । अस्ति॑ । कृ॒ष्टीः ॥

    तस्य । इत् । इह । स्तवथ । वृष्ण्यानि । तुविऽद्युम्नस्य । तुविऽराधसः । नॄन् ।
    यस्य । क्रतुः । विदथ्यः । न । सम्ऽराट् । सह्वान् । तरुत्रः । अभि । अस्ति । कृष्टीः ॥

    tásya ǀ ít ǀ ihá ǀ stavatha ǀ vṛ́ṣṇyāni ǀ tuvi-dyumnásya ǀ tuvi-rā́dhasaḥ ǀ nṝ́n ǀ
    yásya ǀ krátuḥ ǀ vidathyáḥ ǀ ná ǀ sam-rā́ṭ ǀ sahvā́n ǀ tárutraḥ ǀ abhí ǀ ásti ǀ kṛṣṭī́ḥ ǁ

    tasya ǀ it ǀ iha ǀ stavatha ǀ vṛṣṇyāni ǀ tuvi-dyumnasya ǀ tuvi-rādhasaḥ ǀ nṝn ǀ
    yasya ǀ kratuḥ ǀ vidathyaḥ ǀ na ǀ sam-rāṭ ǀ sahvān ǀ tarutraḥ ǀ abhi ǀ asti ǀ kṛṣṭīḥ ǁ

    4.21.2 Aṣṭaka 3.6.5.2Anuvāka 4.2.111

  3. Ṛk 3

    आ या॒त्विंद्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
    स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥

    आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् |
    स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ||

    ā́ yātvíndro divá ā́ pṛthivyā́ makṣū́ samudrā́dutá vā púrīṣāt ǀ
    svárṇarādávase no marútvānparāváto vā sádanādṛtásya ǁ

    ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt |
    svarṇarād avase no marutvān parāvato vā sadanād ṛtasya ||

    आ । या॒तु॒ । इन्द्रः॑ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।
    स्वः॑ऽनरात् । अव॑से । नः॒ । म॒रुत्वा॑न् । प॒रा॒ऽवतः॑ । वा॒ । सद॑नात् । ऋ॒तस्य॑ ॥

    आ । यातु । इन्द्रः । दिवः । आ । पृथिव्याः । मक्षु । समुद्रात् । उत । वा । पुरीषात् ।
    स्वःऽनरात् । अवसे । नः । मरुत्वान् । पराऽवतः । वा । सदनात् । ऋतस्य ॥

    ā́ ǀ yātu ǀ índraḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ makṣú ǀ samudrā́t ǀ utá ǀ vā ǀ púrīṣāt ǀ
    sváḥ-narāt ǀ ávase ǀ naḥ ǀ marútvān ǀ parā-vátaḥ ǀ vā ǀ sádanāt ǀ ṛtásya ǁ

    ā ǀ yātu ǀ indraḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ makṣu ǀ samudrāt ǀ uta ǀ vā ǀ purīṣāt ǀ
    svaḥ-narāt ǀ avase ǀ naḥ ǀ marutvān ǀ parā-vataḥ ǀ vā ǀ sadanāt ǀ ṛtasya ǁ

    4.21.3 Aṣṭaka 3.6.5.3Anuvāka 4.2.112

  4. Ṛk 4

    स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विंद्रं॑ ।
    यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥

    स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् |
    यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ||

    sthūrásya rāyó bṛható yá ī́śe támu ṣṭavāma vidátheṣvíndram ǀ
    yó vāyúnā jáyati gómatīṣu prá dhṛṣṇuyā́ náyati vásyo áccha ǁ

    sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram |
    yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha ||

    स्थू॒रस्य॑ । रा॒यः । बृ॒ह॒तः । यः । ईशे॑ । तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । वि॒दथे॑षु । इन्द्र॑म् ।
    यः । वा॒युना॑ । जय॑ति । गोऽम॑तीषु । प्र । धृ॒ष्णु॒ऽया । नय॑ति । वस्यः॑ । अच्छ॑ ॥

    स्थूरस्य । रायः । बृहतः । यः । ईशे । तम् । ऊं इति । स्तवाम । विदथेषु । इन्द्रम् ।
    यः । वायुना । जयति । गोऽमतीषु । प्र । धृष्णुऽया । नयति । वस्यः । अच्छ ॥

    sthūrásya ǀ rāyáḥ ǀ bṛhatáḥ ǀ yáḥ ǀ ī́śe ǀ tám ǀ ūṃ íti ǀ stavāma ǀ vidátheṣu ǀ índram ǀ
    yáḥ ǀ vāyúnā ǀ jáyati ǀ gó-matīṣu ǀ prá ǀ dhṛṣṇu-yā́ ǀ náyati ǀ vásyaḥ ǀ áccha ǁ

    sthūrasya ǀ rāyaḥ ǀ bṛhataḥ ǀ yaḥ ǀ īśe ǀ tam ǀ ūṃ iti ǀ stavāma ǀ vidatheṣu ǀ indram ǀ
    yaḥ ǀ vāyunā ǀ jayati ǀ go-matīṣu ǀ pra ǀ dhṛṣṇu-yā ǀ nayati ǀ vasyaḥ ǀ accha ǁ

    4.21.4 Aṣṭaka 3.6.5.4Anuvāka 4.2.113

  5. Ṛk 5

    उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै ।
    ऋं॒ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेंद्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥

    उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै |
    ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता ||

    úpa yó námo námasi stabhāyánníyarti vā́cam janáyanyájadhyai ǀ
    ṛñjasānáḥ puruvā́ra uktháiréndram kṛṇvīta sádaneṣu hótā ǁ

    upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai |
    ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā ||

    उप॑ । यः । नमः॑ । नम॑सि । स्त॒भा॒यन् । इय॑र्ति । वाच॑म् । ज॒नय॑न् । यज॑ध्यै ।
    ऋ॒ञ्ज॒सा॒नः । पु॒रु॒ऽवारः॑ । उ॒क्थैः । आ । इन्द्र॑म् । कृ॒ण्वी॒त॒ । सद॑नेषु । होता॑ ॥

    उप । यः । नमः । नमसि । स्तभायन् । इयर्ति । वाचम् । जनयन् । यजध्यै ।
    ऋञ्जसानः । पुरुऽवारः । उक्थैः । आ । इन्द्रम् । कृण्वीत । सदनेषु । होता ॥

    úpa ǀ yáḥ ǀ námaḥ ǀ námasi ǀ stabhāyán ǀ íyarti ǀ vā́cam ǀ janáyan ǀ yájadhyai ǀ
    ṛñjasānáḥ ǀ puru-vā́raḥ ǀ uktháiḥ ǀ ā́ ǀ índram ǀ kṛṇvīta ǀ sádaneṣu ǀ hótā ǁ

    upa ǀ yaḥ ǀ namaḥ ǀ namasi ǀ stabhāyan ǀ iyarti ǀ vācam ǀ janayan ǀ yajadhyai ǀ
    ṛñjasānaḥ ǀ puru-vāraḥ ǀ ukthaiḥ ǀ ā ǀ indram ǀ kṛṇvīta ǀ sadaneṣu ǀ hotā ǁ

    4.21.5 Aṣṭaka 3.6.5.5Anuvāka 4.2.114

  6. Ṛk 6

    धि॒षा यदि॑ धिष॒ण्यंतः॑ सर॒ण्यान्त्सदं॑तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।
    आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्निः॑ ॥

    धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे |
    आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ||

    dhiṣā́ yádi dhiṣaṇyántaḥ saraṇyā́ntsádanto ádrimauśijásya góhe ǀ
    ā́ duróṣāḥ pāstyásya hótā yó no mahā́ntsaṃváraṇeṣu váhniḥ ǁ

    dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe |
    ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ ||

    धि॒षा । यदि॑ । धि॒ष॒ण्यन्तः॑ । स॒र॒ण्यान् । सद॑न्तः । अद्रि॑म् । औ॒शि॒जस्य॑ । गोहे॑ ।
    आ । दु॒रोषाः॑ । पा॒स्त्यस्य॑ । होता॑ । यः । नः॒ । म॒हान् । स॒म्ऽवर॑णेषु । वह्निः॑ ॥

    धिषा । यदि । धिषण्यन्तः । सरण्यान् । सदन्तः । अद्रिम् । औशिजस्य । गोहे ।
    आ । दुरोषाः । पास्त्यस्य । होता । यः । नः । महान् । सम्ऽवरणेषु । वह्निः ॥

    dhiṣā́ ǀ yádi ǀ dhiṣaṇyántaḥ ǀ saraṇyā́n ǀ sádantaḥ ǀ ádrim ǀ auśijásya ǀ góhe ǀ
    ā́ ǀ duróṣāḥ ǀ pāstyásya ǀ hótā ǀ yáḥ ǀ naḥ ǀ mahā́n ǀ sam-váraṇeṣu ǀ váhniḥ ǁ

    dhiṣā ǀ yadi ǀ dhiṣaṇyantaḥ ǀ saraṇyān ǀ sadantaḥ ǀ adrim ǀ auśijasya ǀ gohe ǀ
    ā ǀ duroṣāḥ ǀ pāstyasya ǀ hotā ǀ yaḥ ǀ naḥ ǀ mahān ǀ sam-varaṇeṣu ǀ vahniḥ ǁ

    4.21.6 Aṣṭaka 3.6.6.1Anuvāka 4.2.115

  7. Ṛk 7

    स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य ।
    गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥

    सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय |
    गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय ||

    satrā́ yádīm bhārvarásya vṛ́ṣṇaḥ síṣakti śúṣmaḥ stuvaté bhárāya ǀ
    gúhā yádīmauśijásya góhe prá yáddhiyé prā́yase mádāya ǁ

    satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya |
    guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya ||

    स॒त्रा । यत् । ई॒म् । भा॒र्व॒रस्य॑ । वृष्णः॑ । सिस॑क्ति । शुष्मः॑ । स्तु॒व॒ते । भरा॑य ।
    गुहा॑ । यत् । ई॒म् । औ॒शि॒जस्य॑ । गोहे॑ । प्र । यत् । धि॒ये । प्र । अय॑से । मदा॑य ॥

    सत्रा । यत् । ईम् । भार्वरस्य । वृष्णः । सिसक्ति । शुष्मः । स्तुवते । भराय ।
    गुहा । यत् । ईम् । औशिजस्य । गोहे । प्र । यत् । धिये । प्र । अयसे । मदाय ॥

    satrā́ ǀ yát ǀ īm ǀ bhārvarásya ǀ vṛ́ṣṇaḥ ǀ sísakti ǀ śúṣmaḥ ǀ stuvaté ǀ bhárāya ǀ
    gúhā ǀ yát ǀ īm ǀ auśijásya ǀ góhe ǀ prá ǀ yát ǀ dhiyé ǀ prá ǀ áyase ǀ mádāya ǁ

    satrā ǀ yat ǀ īm ǀ bhārvarasya ǀ vṛṣṇaḥ ǀ sisakti ǀ śuṣmaḥ ǀ stuvate ǀ bharāya ǀ
    guhā ǀ yat ǀ īm ǀ auśijasya ǀ gohe ǀ pra ǀ yat ǀ dhiye ǀ pra ǀ ayase ǀ madāya ǁ

    4.21.7 Aṣṭaka 3.6.6.2Anuvāka 4.2.116

  8. Ṛk 8

    वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।
    वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वहं॑ति ॥

    वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि |
    विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ||

    ví yádvárāṃsi párvatasya vṛṇvé páyobhirjinvé apā́m jávāṃsi ǀ
    vidádgaurásya gavayásya góhe yádī vā́jāya sudhyó váhanti ǁ

    vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi |
    vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti ||

    वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि ।
    वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥

    वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयःऽभिः । जिन्वे । अपाम् । जवांसि ।
    विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सुऽध्यः । वहन्ति ॥

    ví ǀ yát ǀ várāṃsi ǀ párvatasya ǀ vṛṇvé ǀ páyaḥ-bhiḥ ǀ jinvé ǀ apā́m ǀ jávāṃsi ǀ
    vidát ǀ gaurásya ǀ gavayásya ǀ góhe ǀ yádi ǀ vā́jāya ǀ su-dhyáḥ ǀ váhanti ǁ

    vi ǀ yat ǀ varāṃsi ǀ parvatasya ǀ vṛṇve ǀ payaḥ-bhiḥ ǀ jinve ǀ apām ǀ javāṃsi ǀ
    vidat ǀ gaurasya ǀ gavayasya ǀ gohe ǀ yadi ǀ vājāya ǀ su-dhyaḥ ǀ vahanti ǁ

    4.21.8 Aṣṭaka 3.6.6.3Anuvāka 4.2.117

  9. Ṛk 9

    भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑यं॒तारा॑ स्तुव॒ते राध॑ इंद्र ।
    का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥

    भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र |
    का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ ||

    bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra ǀ
    kā́ te níṣattiḥ kímu nó mamatsi kím nódudu harṣase dā́tavā́ u ǁ

    bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra |
    kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u ||

    भ॒द्रा । ते॒ । हस्ता॑ । सुऽकृ॑ता । उ॒त । पा॒णी इति॑ । प्र॒ऽय॒न्तारा॑ । स्तु॒व॒ते । राधः॑ । इ॒न्द्र॒ ।
    का । ते॒ । निऽस॑त्तिः । किम् । ऊं॒ इति॑ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्ऽउ॑त् । ऊं॒ इति॑ । ह॒र्ष॒से॒ । दात॒वै । ऊं॒ इति॑ ॥

    भद्रा । ते । हस्ता । सुऽकृता । उत । पाणी इति । प्रऽयन्तारा । स्तुवते । राधः । इन्द्र ।
    का । ते । निऽसत्तिः । किम् । ऊं इति । नः । ममत्सि । किम् । न । उत्ऽउत् । ऊं इति । हर्षसे । दातवै । ऊं इति ॥

    bhadrā́ ǀ te ǀ hástā ǀ sú-kṛtā ǀ utá ǀ pāṇī́ íti ǀ pra-yantā́rā ǀ stuvaté ǀ rā́dhaḥ ǀ indra ǀ
    kā́ ǀ te ǀ ní-sattiḥ ǀ kím ǀ ūṃ íti ǀ naḥ ǀ mamatsi ǀ kím ǀ ná ǀ út-ut ǀ ūṃ íti ǀ harṣase ǀ dā́tavái ǀ ūṃ íti ǁ

    bhadrā ǀ te ǀ hastā ǀ su-kṛtā ǀ uta ǀ pāṇī iti ǀ pra-yantārā ǀ stuvate ǀ rādhaḥ ǀ indra ǀ
    kā ǀ te ǀ ni-sattiḥ ǀ kim ǀ ūṃ iti ǀ naḥ ǀ mamatsi ǀ kim ǀ na ǀ ut-ut ǀ ūṃ iti ǀ harṣase ǀ dātavai ǀ ūṃ iti ǁ

    4.21.9 Aṣṭaka 3.6.6.4Anuvāka 4.2.118

  10. Ṛk 10

    ए॒वा वस्व॒ इंद्रः॑ स॒त्यः स॒म्राड्ढंता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।
    पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥

    एवा वस्व इन्द्रः सत्यः सम्राड् ढन्ता वृत्रं वरिवः पूरवे कः |
    पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ||

    evā́ vásva índraḥ satyáḥ samrā́ḍḍhántā vṛtrám várivaḥ pūráve kaḥ ǀ
    púruṣṭuta krátvā naḥ śagdhi rāyó bhakṣīyá té’vaso dáivyasya ǁ

    evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ |
    puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya ||

    ए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः ।
    पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । ते॒ । अव॑सः । दैव्य॑स्य ॥

    एव । वस्वः । इन्द्रः । सत्यः । सम्ऽराट् । हन्ता । वृत्रम् । वरिवः । पूरवे । करिति कः ।
    पुरुऽस्तुत । क्रत्वा । नः । शग्धि । रायः । भक्षीय । ते । अवसः । दैव्यस्य ॥

    evá ǀ vásvaḥ ǀ índraḥ ǀ satyáḥ ǀ sam-rā́ṭ ǀ hántā ǀ vṛtrám ǀ várivaḥ ǀ pūráve ǀ karíti kaḥ ǀ
    púru-stuta ǀ krátvā ǀ naḥ ǀ śagdhi ǀ rāyáḥ ǀ bhakṣīyá ǀ te ǀ ávasaḥ ǀ dáivyasya ǁ

    eva ǀ vasvaḥ ǀ indraḥ ǀ satyaḥ ǀ sam-rāṭ ǀ hantā ǀ vṛtram ǀ varivaḥ ǀ pūrave ǀ kariti kaḥ ǀ
    puru-stuta ǀ kratvā ǀ naḥ ǀ śagdhi ǀ rāyaḥ ǀ bhakṣīya ǀ te ǀ avasaḥ ǀ daivyasya ǁ

    4.21.10 Aṣṭaka 3.6.6.5Anuvāka 4.2.119

  11. Ṛk 11

    नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
    अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

    नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
    अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||

    nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
    ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

    nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
    akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

    नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
    अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

    नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
    अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

    nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
    ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

    nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
    akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ

    4.21.11 Aṣṭaka 3.6.6.6Anuvāka 4.2.120

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.21 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

MAY Indra come to us for our protection; here be the Hero, praised, our feast-companion. May he whose powers are many, waxen mighty, cherish, like Dyaus, his own supreme dominion.

Ṛk 2

Here magnify his great heroic exploits, most glorious One, enriching men with bounties, Whose will is like a Sovran in assembly, who rules the people, Conqueror, all-surpassing.

Ṛk 3

Hither let Indra come from earth or heaven, hither with speech from firmament or ocean; With Maruts, from the realm of light to aid us, or from a distance, from the seat of Order.

Ṛk 4

That Indra will we laud in our assemblies, him who is Lord of great and lasting riches, Victor with Vāyu where the herds are gathered, who leads with boldness on to higher fortune.

Ṛk 5

May the Priest, Lord of many blessings, striving,—who fixing reverence on reverence, giving Vent to his voice, inciteth men to worship—with lauds bring Indra hither to our dwellings.

Ṛk 6

When sitting pondering in deep devotion in Auśija's abode they ply the press-stone, May he whose wrath is fierce, the mighty bearer, come as the house-lord's priest within our chambers.

Ṛk 7

Surely the power of Bhārvara the mighty for ever helpeth to support the singer; That which in Auśija's abode lies hidden, to come forth for delight and for devotion.

Ṛk 8

When he unbars the spaces of the mountains, and quickens with his floods the water-torrents, He finds in lair the buffalo and wild-ox when the wise lead him on to vigorous exploit.

Ṛk 9

Auspicious are thy hands, thine arms well-fashioned which proffer bounty, Indra, to thy praiser. What sloth is this? Why dost thou not rejoice thee? Why dost thou not delight thyself with giving?

Ṛk 10

So Indra is the truthful Lord of treasure. Freedom he gave to man by slaying Vṛtra. Much-lauded! help us with thy power to riches: may I be sharer of thy Godlike favour.