Ṛk 4.21.6
Saṃhitā
धि॒षा यदि॑ धिष॒ण्यंतः॑ सर॒ण्यान्त्सदं॑तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।
आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्निः॑ ॥
धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे |
आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ||
dhiṣā́ yádi dhiṣaṇyántaḥ saraṇyā́ntsádanto ádrimauśijásya góhe ǀ
ā́ duróṣāḥ pāstyásya hótā yó no mahā́ntsaṃváraṇeṣu váhniḥ ǁ
dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe |
ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ ||
Padapāṭha
धि॒षा । यदि॑ । धि॒ष॒ण्यन्तः॑ । स॒र॒ण्यान् । सद॑न्तः । अद्रि॑म् । औ॒शि॒जस्य॑ । गोहे॑ ।
आ । दु॒रोषाः॑ । पा॒स्त्यस्य॑ । होता॑ । यः । नः॒ । म॒हान् । स॒म्ऽवर॑णेषु । वह्निः॑ ॥
धिषा । यदि । धिषण्यन्तः । सरण्यान् । सदन्तः । अद्रिम् । औशिजस्य । गोहे ।
आ । दुरोषाः । पास्त्यस्य । होता । यः । नः । महान् । सम्ऽवरणेषु । वह्निः ॥
dhiṣā́ ǀ yádi ǀ dhiṣaṇyántaḥ ǀ saraṇyā́n ǀ sádantaḥ ǀ ádrim ǀ auśijásya ǀ góhe ǀ
ā́ ǀ duróṣāḥ ǀ pāstyásya ǀ hótā ǀ yáḥ ǀ naḥ ǀ mahā́n ǀ sam-váraṇeṣu ǀ váhniḥ ǁ
dhiṣā ǀ yadi ǀ dhiṣaṇyantaḥ ǀ saraṇyān ǀ sadantaḥ ǀ adrim ǀ auśijasya ǀ gohe ǀ
ā ǀ duroṣāḥ ǀ pāstyasya ǀ hotā ǀ yaḥ ǀ naḥ ǀ mahān ǀ sam-varaṇeṣu ǀ vahniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.021.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.06.01
- Maṇḍala · Anuvāka · Ṛk
- 04.02.115
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.