Ṛgveda · Maṇḍala 4

Sūkta 42

Trasadasyu (आत्मा) · Indra, Tvaṣṭṛ, Varuṇa, Trasadasyu (आत्मा) · Indra, Varuṇa · Trasadasyu Paurukutsya Sauhotra · 10 ṛks

Link
Devatā देवता
1, 2, 4-6: Trasadasyu (आत्मा); 3: Indra, Tvaṣṭṛ, Varuṇa, Trasadasyu (आत्मा); 7-10: Indra, Varuṇa
Ṛṣi ऋषि
Trasadasyu Paurukutsya Sauhotra
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1-4, 6, 9); nicṛtpaṅkti (5); virāṭtrisṭup (7); bhuriktriṣṭup (8); triṣṭup (10)

2nd set of styles triṣṭubh

  1. Ṛk 1

    मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः ।
    क्रतुं॑ सचंते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥

    मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः |
    क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ||

    máma dvitā́ rāṣṭrám kṣatríyasya viśvā́yorvíśve amṛ́tā yáthā naḥ ǀ
    krátum sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ ǁ

    mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ |
    kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||

    मम॑ । द्वि॒ता । रा॒ष्ट्रम् । क्ष॒त्रिय॑स्य । वि॒श्वऽआ॑योः । विश्वे॑ । अ॒मृताः॑ । यथा॑ । नः॒ ।
    क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥

    मम । द्विता । राष्ट्रम् । क्षत्रियस्य । विश्वऽआयोः । विश्वे । अमृताः । यथा । नः ।
    क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥

    máma ǀ dvitā́ ǀ rāṣṭrám ǀ kṣatríyasya ǀ viśvá-āyoḥ ǀ víśve ǀ amṛ́tāḥ ǀ yáthā ǀ naḥ ǀ
    krátum ǀ sacante ǀ váruṇasya ǀ devā́ḥ ǀ rā́jāmi ǀ kṛṣṭéḥ ǀ upamásya ǀ vavréḥ ǁ

    mama ǀ dvitā ǀ rāṣṭram ǀ kṣatriyasya ǀ viśva-āyoḥ ǀ viśve ǀ amṛtāḥ ǀ yathā ǀ naḥ ǀ
    kratum ǀ sacante ǀ varuṇasya ǀ devāḥ ǀ rājāmi ǀ kṛṣṭeḥ ǀ upamasya ǀ vavreḥ ǁ

    4.42.1 Aṣṭaka 3.7.17.1Anuvāka 4.4.81

  2. Ṛk 2

    अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयंत ।
    क्रतुं॑ सचंते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥

    अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त |
    क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ||

    ahám rā́jā váruṇo máhyam tā́nyasuryā́ṇi prathamā́ dhārayanta ǀ
    krátum sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ ǁ

    ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta |
    kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||

    अ॒हम् । राजा॑ । वरु॑णः । मह्य॑म् । तानि॑ । अ॒सु॒र्या॑णि । प्र॒थ॒मा । धा॒र॒य॒न्त॒ ।
    क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥

    अहम् । राजा । वरुणः । मह्यम् । तानि । असुर्याणि । प्रथमा । धारयन्त ।
    क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥

    ahám ǀ rā́jā ǀ váruṇaḥ ǀ máhyam ǀ tā́ni ǀ asuryā́ṇi ǀ prathamā́ ǀ dhārayanta ǀ
    krátum ǀ sacante ǀ váruṇasya ǀ devā́ḥ ǀ rā́jāmi ǀ kṛṣṭéḥ ǀ upamásya ǀ vavréḥ ǁ

    aham ǀ rājā ǀ varuṇaḥ ǀ mahyam ǀ tāni ǀ asuryāṇi ǀ prathamā ǀ dhārayanta ǀ
    kratum ǀ sacante ǀ varuṇasya ǀ devāḥ ǀ rājāmi ǀ kṛṣṭeḥ ǀ upamasya ǀ vavreḥ ǁ

    4.42.2 Aṣṭaka 3.7.17.2Anuvāka 4.4.82

  3. Ṛk 3

    अ॒हमिंद्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।
    त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्त्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥

    अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके |
    त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च ||

    ahámíndro váruṇasté mahitvórvī́ gabhīré rájasī suméke ǀ
    tváṣṭeva víśvā bhúvanāni vidvā́ntsámairayam ródasī dhāráyam ca ǁ

    aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke |
    tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca ||

    अ॒हम् । इन्द्रः॑ । वरु॑णः । ते इति॑ । म॒हि॒ऽत्वा । उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
    त्वष्टा॑ऽइव । विश्वा॑ । भुव॑नानि । वि॒द्वान् । सम् । ऐ॒र॒य॒म् । रोद॑सी॒ इति॑ । धा॒रय॑म् । च॒ ॥

    अहम् । इन्द्रः । वरुणः । ते इति । महिऽत्वा । उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुऽमेके ।
    त्वष्टाऽइव । विश्वा । भुवनानि । विद्वान् । सम् । ऐरयम् । रोदसी इति । धारयम् । च ॥

    ahám ǀ índraḥ ǀ váruṇaḥ ǀ té íti ǀ mahi-tvā́ ǀ urvī́ íti ǀ gabhīré íti ǀ rájasī íti ǀ suméke íti su-méke ǀ
    tváṣṭā-iva ǀ víśvā ǀ bhúvanāni ǀ vidvā́n ǀ sám ǀ airayam ǀ ródasī íti ǀ dhāráyam ǀ ca ǁ

    aham ǀ indraḥ ǀ varuṇaḥ ǀ te iti ǀ mahi-tvā ǀ urvī iti ǀ gabhīre iti ǀ rajasī iti ǀ sumeke iti su-meke ǀ
    tvaṣṭā-iva ǀ viśvā ǀ bhuvanāni ǀ vidvān ǀ sam ǀ airayam ǀ rodasī iti ǀ dhārayam ǀ ca ǁ

    4.42.3 Aṣṭaka 3.7.17.3Anuvāka 4.4.83

  4. Ṛk 4

    अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ ।
    ऋ॒तेन॑ पु॒त्रो अदि॑तेर्ऋ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥

    अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य |
    ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम ||

    ahámapó apinvamukṣámāṇā dhāráyam dívam sádana ṛtásya ǀ
    ṛténa putró áditerṛtā́votá tridhā́tu prathayadví bhū́ma ǁ

    aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya |
    ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma ||

    अ॒हम् । अ॒पः । अ॒पि॒न्व॒म् । उ॒क्षमा॑णाः । धा॒रय॑म् । दिव॑म् । सद॑ने । ऋ॒तस्य॑ ।
    ऋ॒तेन॑ । पु॒त्रः । अदि॑तेः । ऋ॒तऽवा॑ । उ॒त । त्रि॒ऽधातु॑ । प्र॒थ॒य॒त् । वि । भूम॑ ॥

    अहम् । अपः । अपिन्वम् । उक्षमाणाः । धारयम् । दिवम् । सदने । ऋतस्य ।
    ऋतेन । पुत्रः । अदितेः । ऋतऽवा । उत । त्रिऽधातु । प्रथयत् । वि । भूम ॥

    ahám ǀ apáḥ ǀ apinvam ǀ ukṣámāṇāḥ ǀ dhāráyam ǀ dívam ǀ sádane ǀ ṛtásya ǀ
    ṛténa ǀ putráḥ ǀ áditeḥ ǀ ṛtá-vā ǀ utá ǀ tri-dhā́tu ǀ prathayat ǀ ví ǀ bhū́ma ǁ

    aham ǀ apaḥ ǀ apinvam ǀ ukṣamāṇāḥ ǀ dhārayam ǀ divam ǀ sadane ǀ ṛtasya ǀ
    ṛtena ǀ putraḥ ǀ aditeḥ ǀ ṛta-vā ǀ uta ǀ tri-dhātu ǀ prathayat ǀ vi ǀ bhūma ǁ

    4.42.4 Aṣṭaka 3.7.17.4Anuvāka 4.4.84

  5. Ṛk 5

    मां नरः॒ स्वश्वा॑ वा॒जयं॑तो॒ मां वृ॒ताः स॒मर॑णे हवंते ।
    कृ॒णोम्या॒जिं म॒घवा॒हमिंद्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥

    मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते |
    कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ||

    mā́m náraḥ sváśvā vājáyanto mā́m vṛtā́ḥ samáraṇe havante ǀ
    kṛṇómyājím maghávāhámíndra íyarmi reṇúmabhíbhūtyojāḥ ǁ

    māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante |
    kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ ||

    माम् । नरः॑ । सु॒ऽअश्वाः॑ । वा॒जय॑न्तः । माम् । वृ॒ताः । स॒म्ऽअर॑णे । ह॒व॒न्ते॒ ।
    कृ॒णोमि॑ । आ॒जिम् । म॒घऽवा॑ । अ॒हम् । इन्द्रः॑ । इय॑र्मि । रे॒णुम् । अ॒भिभू॑तिऽओजाः ॥

    माम् । नरः । सुऽअश्वाः । वाजयन्तः । माम् । वृताः । सम्ऽअरणे । हवन्ते ।
    कृणोमि । आजिम् । मघऽवा । अहम् । इन्द्रः । इयर्मि । रेणुम् । अभिभूतिऽओजाः ॥

    mā́m ǀ náraḥ ǀ su-áśvāḥ ǀ vājáyantaḥ ǀ mā́m ǀ vṛtā́ḥ ǀ sam-áraṇe ǀ havante ǀ
    kṛṇómi ǀ ājím ǀ maghá-vā ǀ ahám ǀ índraḥ ǀ íyarmi ǀ reṇúm ǀ abhíbhūti-ojāḥ ǁ

    mām ǀ naraḥ ǀ su-aśvāḥ ǀ vājayantaḥ ǀ mām ǀ vṛtāḥ ǀ sam-araṇe ǀ havante ǀ
    kṛṇomi ǀ ājim ǀ magha-vā ǀ aham ǀ indraḥ ǀ iyarmi ǀ reṇum ǀ abhibhūti-ojāḥ ǁ

    4.42.5 Aṣṭaka 3.7.17.5Anuvāka 4.4.85

  6. Ṛk 6

    अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतं ।
    यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥

    अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् |
    यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ||

    ahám tā́ víśvā cakaram nákirmā dáivyam sáho varate ápratītam ǀ
    yánmā sómāso mamádanyádukthóbhé bhayete rájasī apāré ǁ

    ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam |
    yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre ||

    अ॒हम् । ता । विश्वा॑ । च॒क॒र॒म् । नकिः॑ । मा॒ । दैव्य॑म् । सहः॑ । व॒र॒ते॒ । अप्र॑तिऽइतम् ।
    यत् । मा॒ । सोमा॑सः । म॒मद॑न् । यत् । उ॒क्था । उ॒भे इति॑ । भ॒ये॒ते॒ इति॑ । रज॑सी॒ इति॑ । अ॒पा॒रे इति॑ ॥

    अहम् । ता । विश्वा । चकरम् । नकिः । मा । दैव्यम् । सहः । वरते । अप्रतिऽइतम् ।
    यत् । मा । सोमासः । ममदन् । यत् । उक्था । उभे इति । भयेते इति । रजसी इति । अपारे इति ॥

    ahám ǀ tā́ ǀ víśvā ǀ cakaram ǀ nákiḥ ǀ mā ǀ dáivyam ǀ sáhaḥ ǀ varate ǀ áprati-itam ǀ
    yát ǀ mā ǀ sómāsaḥ ǀ mamádan ǀ yát ǀ ukthā́ ǀ ubhé íti ǀ bhayete íti ǀ rájasī íti ǀ apāré íti ǁ

    aham ǀ tā ǀ viśvā ǀ cakaram ǀ nakiḥ ǀ mā ǀ daivyam ǀ sahaḥ ǀ varate ǀ aprati-itam ǀ
    yat ǀ mā ǀ somāsaḥ ǀ mamadan ǀ yat ǀ ukthā ǀ ubhe iti ǀ bhayete iti ǀ rajasī iti ǀ apāre iti ǁ

    4.42.6 Aṣṭaka 3.7.18.1Anuvāka 4.4.86

  7. Ṛk 7

    वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः ।
    त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वांत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥

    विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः |
    त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् ||

    vidúṣṭe víśvā bhúvanāni tásya tā́ prá bravīṣi váruṇāya vedhaḥ ǀ
    tvám vṛtrā́ṇi śṛṇviṣe jaghanvā́ntvám vṛtā́m̐ ariṇā indra síndhūn ǁ

    viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
    tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn ||

    वि॒दुः । ते॒ । विश्वा॑ । भुव॑नानि । तस्य॑ । ता । प्र । ब्र॒वी॒षि॒ । वरु॑णाय । वे॒धः॒ ।
    त्वम् । वृ॒त्राणि॑ । शृ॒ण्वि॒षे॒ । ज॒घ॒न्वान् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

    विदुः । ते । विश्वा । भुवनानि । तस्य । ता । प्र । ब्रवीषि । वरुणाय । वेधः ।
    त्वम् । वृत्राणि । शृण्विषे । जघन्वान् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥

    vidúḥ ǀ te ǀ víśvā ǀ bhúvanāni ǀ tásya ǀ tā́ ǀ prá ǀ bravīṣi ǀ váruṇāya ǀ vedhaḥ ǀ
    tvám ǀ vṛtrā́ṇi ǀ śṛṇviṣe ǀ jaghanvā́n ǀ tvám ǀ vṛtā́n ǀ ariṇāḥ ǀ indra ǀ síndhūn ǁ

    viduḥ ǀ te ǀ viśvā ǀ bhuvanāni ǀ tasya ǀ tā ǀ pra ǀ bravīṣi ǀ varuṇāya ǀ vedhaḥ ǀ
    tvam ǀ vṛtrāṇi ǀ śṛṇviṣe ǀ jaghanvān ǀ tvam ǀ vṛtān ǀ ariṇāḥ ǀ indra ǀ sindhūn ǁ

    4.42.7 Aṣṭaka 3.7.18.2Anuvāka 4.4.87

  8. Ṛk 8

    अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने ।
    त आय॑जंत त्र॒सद॑स्युमस्या॒ इंद्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वं ॥

    अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने |
    त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् ||

    asmā́kamátra pitárastá āsantsaptá ṛ́ṣayo daurgahé badhyámāne ǀ
    tá ā́yajanta trasádasyumasyā índram ná vṛtratúramardhadevám ǁ

    asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne |
    ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam ||

    अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । ते । आ॒स॒न् । स॒प्त । ऋष॑यः । दौः॒ऽग॒हे । ब॒ध्यमा॑ने ।
    ते । आ । अ॒य॒ज॒न्त॒ । त्र॒सद॑स्युम् । अ॒स्याः॒ । इन्द्र॑म् । न । वृ॒त्र॒ऽतुर॑म् । अ॒र्ध॒ऽदे॒वम् ॥

    अस्माकम् । अत्र । पितरः । ते । आसन् । सप्त । ऋषयः । दौःऽगहे । बध्यमाने ।
    ते । आ । अयजन्त । त्रसदस्युम् । अस्याः । इन्द्रम् । न । वृत्रऽतुरम् । अर्धऽदेवम् ॥

    asmā́kam ǀ átra ǀ pitáraḥ ǀ té ǀ āsan ǀ saptá ǀ ṛ́ṣayaḥ ǀ dauḥ-gahé ǀ badhyámāne ǀ
    té ǀ ā́ ǀ ayajanta ǀ trasádasyum ǀ asyāḥ ǀ índram ǀ ná ǀ vṛtra-túram ǀ ardha-devám ǁ

    asmākam ǀ atra ǀ pitaraḥ ǀ te ǀ āsan ǀ sapta ǀ ṛṣayaḥ ǀ dauḥ-gahe ǀ badhyamāne ǀ
    te ǀ ā ǀ ayajanta ǀ trasadasyum ǀ asyāḥ ǀ indram ǀ na ǀ vṛtra-turam ǀ ardha-devam ǁ

    4.42.8 Aṣṭaka 3.7.18.3Anuvāka 4.4.88

  9. Ṛk 9

    पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिंद्रावरुणा॒ नमो॑भिः ।
    अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वं ॥

    पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः |
    अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् ||

    purukútsānī hí vāmádāśaddhavyébhirindrāvaruṇā námobhiḥ ǀ
    áthā rā́jānam trasádasyumasyā vṛtraháṇam dadathurardhadevám ǁ

    purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ |
    athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam ||

    पु॒रु॒ऽकुत्सा॑नी । हि । वा॒म् । अदा॑शत् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
    अथ॑ । राजा॑नम् । त्र॒सद॑स्युम् । अ॒स्याः॒ । वृ॒त्र॒ऽहन॑म् । द॒द॒थुः॒ । अ॒र्ध॒ऽदे॒वम् ॥

    पुरुऽकुत्सानी । हि । वाम् । अदाशत् । हव्येभिः । इन्द्रावरुणा । नमःऽभिः ।
    अथ । राजानम् । त्रसदस्युम् । अस्याः । वृत्रऽहनम् । ददथुः । अर्धऽदेवम् ॥

    puru-kútsānī ǀ hí ǀ vām ǀ ádāśat ǀ havyébhiḥ ǀ indrāvaruṇā ǀ námaḥ-bhiḥ ǀ
    átha ǀ rā́jānam ǀ trasádasyum ǀ asyāḥ ǀ vṛtra-hánam ǀ dadathuḥ ǀ ardha-devám ǁ

    puru-kutsānī ǀ hi ǀ vām ǀ adāśat ǀ havyebhiḥ ǀ indrāvaruṇā ǀ namaḥ-bhiḥ ǀ
    atha ǀ rājānam ǀ trasadasyum ǀ asyāḥ ǀ vṛtra-hanam ǀ dadathuḥ ǀ ardha-devam ǁ

    4.42.9 Aṣṭaka 3.7.18.4Anuvāka 4.4.89

  10. Ṛk 10

    रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।
    तां धे॒नुमिं॑द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरंतीं ॥

    राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः |
    तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ||

    rāyā́ vayám sasavā́ṃso madema havyéna devā́ yávasena gā́vaḥ ǀ
    tā́m dhenúmindrāvaruṇā yuvám no viśvā́hā dhattamánapasphurantīm ǁ

    rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ |
    tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm ||

    रा॒या । व॒यम् । स॒स॒ऽवांसः॑ । म॒दे॒म॒ । ह॒व्येन॑ । दे॒वाः । यव॑सेन । गावः॑ ।
    ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा॑ । ध॒त्त॒म् । अन॑पऽस्फुरन्तीम् ॥

    राया । वयम् । ससऽवांसः । मदेम । हव्येन । देवाः । यवसेन । गावः ।
    ताम् । धेनुम् । इन्द्रावरुणा । युवम् । नः । विश्वाहा । धत्तम् । अनपऽस्फुरन्तीम् ॥

    rāyā́ ǀ vayám ǀ sasa-vā́ṃsaḥ ǀ madema ǀ havyéna ǀ devā́ḥ ǀ yávasena ǀ gā́vaḥ ǀ
    tā́m ǀ dhenúm ǀ indrāvaruṇā ǀ yuvám ǀ naḥ ǀ viśvā́hā ǀ dhattam ǀ ánapa-sphurantīm ǁ

    rāyā ǀ vayam ǀ sasa-vāṃsaḥ ǀ madema ǀ havyena ǀ devāḥ ǀ yavasena ǀ gāvaḥ ǀ
    tām ǀ dhenum ǀ indrāvaruṇā ǀ yuvam ǀ naḥ ǀ viśvāhā ǀ dhattam ǀ anapa-sphurantīm ǁ

    4.42.10 Aṣṭaka 3.7.18.5Anuvāka 4.4.90

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.42 · Trasadasyu (आत्मा) · Indra, Tvaṣṭṛ, Varuṇa, Trasadasyu (आत्मा) · Indra, Varuṇa

Interpretations

Ralph T. H. Griffith

Ṛk 1

I AM the royal Ruler, mine is empire, as mine who sway all life are all Immortals. Varuṇa's will the Gods obey and follow. I am the King of men's most lofty cover.

Ṛk 2

I am King Varuṇa. To me were given these first existing high celestial powers. Varuṇa's will the Gods obey and follow. I am the King of men's most lofty cover.

Ṛk 3

I Varuṇa am Indra: in their greatness, these the two wide deep fairly-fashioned regions, These the two world-halves have I, even as Tvaṣṭar knowing all beings, joined and held together.

Ṛk 4

I made to flow the moisture-shedding waters, and set the heaven firm in the scat of Order. By Law the Son of Aditi, Law Observer, hath spread abroad the world in threefold measure.

Ṛk 5

Heroes with noble horses, fain for battle, selected warriors, call on me in combat. I Indra Maghavan, excite the conflict; I stir the dust, Lord of surpassing vigour.

Ṛk 6

All this I did. The Gods’ own conquering power never impedeth me whom none opposeth. When lauds and Soma juice have made me joyful, both the unbounded regions are affrighted.

Ṛk 7

All beings know these deeds of thine thou tellest this unto Varuṇa, thou great Disposer! Thou art renowned as having slain the Vṛtras. Thou madest flow the floods that were obstructed.

Ṛk 8

Our fathers then were these, the Seven his, what time the son of Durgaha was captive. For her they gained by sacrifice Trasadasyu, a demi-god, like Indra, conquering foemen.

Ṛk 9

The spouse of Purukutsa gave oblations to you, O Indra-Varuṇa, with homage. Then unto her ye gave King Trasadasyu, the demi-god, the slayer of the foeman.