Ṛk 4.42.5
Saṃhitā
मां नरः॒ स्वश्वा॑ वा॒जयं॑तो॒ मां वृ॒ताः स॒मर॑णे हवंते ।
कृ॒णोम्या॒जिं म॒घवा॒हमिंद्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥
मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते |
कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ||
mā́m náraḥ sváśvā vājáyanto mā́m vṛtā́ḥ samáraṇe havante ǀ
kṛṇómyājím maghávāhámíndra íyarmi reṇúmabhíbhūtyojāḥ ǁ
māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante |
kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ ||
Padapāṭha
माम् । नरः॑ । सु॒ऽअश्वाः॑ । वा॒जय॑न्तः । माम् । वृ॒ताः । स॒म्ऽअर॑णे । ह॒व॒न्ते॒ ।
कृ॒णोमि॑ । आ॒जिम् । म॒घऽवा॑ । अ॒हम् । इन्द्रः॑ । इय॑र्मि । रे॒णुम् । अ॒भिभू॑तिऽओजाः ॥
माम् । नरः । सुऽअश्वाः । वाजयन्तः । माम् । वृताः । सम्ऽअरणे । हवन्ते ।
कृणोमि । आजिम् । मघऽवा । अहम् । इन्द्रः । इयर्मि । रेणुम् । अभिभूतिऽओजाः ॥
mā́m ǀ náraḥ ǀ su-áśvāḥ ǀ vājáyantaḥ ǀ mā́m ǀ vṛtā́ḥ ǀ sam-áraṇe ǀ havante ǀ
kṛṇómi ǀ ājím ǀ maghá-vā ǀ ahám ǀ índraḥ ǀ íyarmi ǀ reṇúm ǀ abhíbhūti-ojāḥ ǁ
mām ǀ naraḥ ǀ su-aśvāḥ ǀ vājayantaḥ ǀ mām ǀ vṛtāḥ ǀ sam-araṇe ǀ havante ǀ
kṛṇomi ǀ ājim ǀ magha-vā ǀ aham ǀ indraḥ ǀ iyarmi ǀ reṇum ǀ abhibhūti-ojāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.042.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.17.05
- Maṇḍala · Anuvāka · Ṛk
- 04.04.085
- Devatā देवता
- 1, 2, 4-6: Trasadasyu (आत्मा); 3: Indra, Tvaṣṭṛ, Varuṇa, Trasadasyu (आत्मा); 7-10: Indra, Varuṇa
- Ṛṣi ऋषि
- Trasadasyu Paurukutsya Sauhotra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.