Ṛk 4.42.7
Saṃhitā
वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः ।
त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वांत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥
विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः |
त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् ||
vidúṣṭe víśvā bhúvanāni tásya tā́ prá bravīṣi váruṇāya vedhaḥ ǀ
tvám vṛtrā́ṇi śṛṇviṣe jaghanvā́ntvám vṛtā́m̐ ariṇā indra síndhūn ǁ
viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn ||
Padapāṭha
वि॒दुः । ते॒ । विश्वा॑ । भुव॑नानि । तस्य॑ । ता । प्र । ब्र॒वी॒षि॒ । वरु॑णाय । वे॒धः॒ ।
त्वम् । वृ॒त्राणि॑ । शृ॒ण्वि॒षे॒ । ज॒घ॒न्वान् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥
विदुः । ते । विश्वा । भुवनानि । तस्य । ता । प्र । ब्रवीषि । वरुणाय । वेधः ।
त्वम् । वृत्राणि । शृण्विषे । जघन्वान् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥
vidúḥ ǀ te ǀ víśvā ǀ bhúvanāni ǀ tásya ǀ tā́ ǀ prá ǀ bravīṣi ǀ váruṇāya ǀ vedhaḥ ǀ
tvám ǀ vṛtrā́ṇi ǀ śṛṇviṣe ǀ jaghanvā́n ǀ tvám ǀ vṛtā́n ǀ ariṇāḥ ǀ indra ǀ síndhūn ǁ
viduḥ ǀ te ǀ viśvā ǀ bhuvanāni ǀ tasya ǀ tā ǀ pra ǀ bravīṣi ǀ varuṇāya ǀ vedhaḥ ǀ
tvam ǀ vṛtrāṇi ǀ śṛṇviṣe ǀ jaghanvān ǀ tvam ǀ vṛtān ǀ ariṇāḥ ǀ indra ǀ sindhūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.042.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.18.02
- Maṇḍala · Anuvāka · Ṛk
- 04.04.087
- Devatā देवता
- 1, 2, 4-6: Trasadasyu (आत्मा); 3: Indra, Tvaṣṭṛ, Varuṇa, Trasadasyu (आत्मा); 7-10: Indra, Varuṇa
- Ṛṣi ऋषि
- Trasadasyu Paurukutsya Sauhotra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.