Sūkta 8
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 4-6); gāyatrī (2, 3, 7); bhuriggāyatrī (8)
2nd set of styles gāyatrī
-
Ṛk 1
दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यं ।
यजि॑ष्ठमृंजसे गि॒रा ॥दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् |
यजिष्ठम् ऋञ्जसे गिरा ||dūtám vo viśvávedasam havyavā́hamámartyam ǀ
yájiṣṭhamṛñjase girā́ ǁdūtaṃ vo viśvavedasaṃ havyavāham amartyam |
yajiṣṭham ṛñjase girā ||दू॒तम् । वः॒ । वि॒श्वऽवे॑दसम् । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ।
यजि॑ष्ठम् । ऋ॒ञ्ज॒से॒ । गि॒रा ॥दूतम् । वः । विश्वऽवेदसम् । हव्यऽवाहम् । अमर्त्यम् ।
यजिष्ठम् । ऋञ्जसे । गिरा ॥dūtám ǀ vaḥ ǀ viśvá-vedasam ǀ havya-vā́ham ǀ ámartyam ǀ
yájiṣṭham ǀ ṛñjase ǀ girā́ ǁdūtam ǀ vaḥ ǀ viśva-vedasam ǀ havya-vāham ǀ amartyam ǀ
yajiṣṭham ǀ ṛñjase ǀ girā ǁ4.8.1 Aṣṭaka 3.5.8.1Anuvāka 4.1.109
-
Ṛk 2
स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः ।
स दे॒वाँ एह व॑क्षति ॥स हि वेदा वसुधितिम् महां आरोधनं दिवः |
स देवां एह वक्षति ||sá hí védā vásudhitim mahā́m̐ āródhanam diváḥ ǀ
sá devā́m̐ éhá vakṣati ǁsa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ |
sa devāṃ eha vakṣati ||सः । हि । वेद॑ । वसु॑ऽधितिम् । म॒हान् । आ॒ऽरोध॑नम् । दि॒वः ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥सः । हि । वेद । वसुऽधितिम् । महान् । आऽरोधनम् । दिवः ।
सः । देवान् । आ । इह । वक्षति ॥sáḥ ǀ hí ǀ véda ǀ vásu-dhitim ǀ mahā́n ǀ ā-ródhanam ǀ diváḥ ǀ
sáḥ ǀ devā́n ǀ ā́ ǀ ihá ǀ vakṣati ǁsaḥ ǀ hi ǀ veda ǀ vasu-dhitim ǀ mahān ǀ ā-rodhanam ǀ divaḥ ǀ
saḥ ǀ devān ǀ ā ǀ iha ǀ vakṣati ǁ4.8.2 Aṣṭaka 3.5.8.2Anuvāka 4.1.110
-
Ṛk 3
स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ ।
दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥स वेद देव आनमं देवां ऋतायते दमे |
दाति प्रियाणि चिद् वसु ||sá veda devá ānámam devā́m̐ ṛtāyaté dáme ǀ
dā́ti priyā́ṇi cidvásu ǁsa veda deva ānamaṃ devāṃ ṛtāyate dame |
dāti priyāṇi cid vasu ||सः । वे॒द॒ । दे॒वः । आ॒ऽनम॑म् । दे॒वान् । ऋ॒त॒ऽय॒ते । दमे॑ ।
दाति॑ । प्रि॒याणि॑ । चि॒त् । वसु॑ ॥सः । वेद । देवः । आऽनमम् । देवान् । ऋतऽयते । दमे ।
दाति । प्रियाणि । चित् । वसु ॥sáḥ ǀ veda ǀ deváḥ ǀ ā-námam ǀ devā́n ǀ ṛta-yaté ǀ dáme ǀ
dā́ti ǀ priyā́ṇi ǀ cit ǀ vásu ǁsaḥ ǀ veda ǀ devaḥ ǀ ā-namam ǀ devān ǀ ṛta-yate ǀ dame ǀ
dāti ǀ priyāṇi ǀ cit ǀ vasu ǁ4.8.3 Aṣṭaka 3.5.8.3Anuvāka 4.1.111
-
Ṛk 4
स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अं॒तरी॑यते ।
वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते |
विद्वां आरोधनं दिवः ||sá hótā sédu dūtyám cikitvā́m̐ antárīyate ǀ
vidvā́m̐ āródhanam diváḥ ǁsa hotā sed u dūtyaṃ cikitvāṃ antar īyate |
vidvāṃ ārodhanaṃ divaḥ ||सः । होता॑ । सः । इत् । ऊं॒ इति॑ । दू॒त्य॑म् । चि॒कि॒त्वान् । अ॒न्तः । ई॒य॒ते॒ ।
वि॒द्वान् । आ॒ऽरोध॑नम् । दि॒वः ॥सः । होता । सः । इत् । ऊं इति । दूत्यम् । चिकित्वान् । अन्तः । ईयते ।
विद्वान् । आऽरोधनम् । दिवः ॥sáḥ ǀ hótā ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ dūtyám ǀ cikitvā́n ǀ antáḥ ǀ īyate ǀ
vidvā́n ǀ ā-ródhanam ǀ diváḥ ǁsaḥ ǀ hotā ǀ saḥ ǀ it ǀ ūṃ iti ǀ dūtyam ǀ cikitvān ǀ antaḥ ǀ īyate ǀ
vidvān ǀ ā-rodhanam ǀ divaḥ ǁ4.8.4 Aṣṭaka 3.5.8.4Anuvāka 4.1.112
-
Ṛk 5
ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः ।
य ईं॒ पुष्यं॑त इंध॒ते ॥ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः |
य ईम् पुष्यन्त इन्धते ||té syāma yé agnáye dadāśúrhavyádātibhiḥ ǀ
yá īm púṣyanta indhaté ǁte syāma ye agnaye dadāśur havyadātibhiḥ |
ya īm puṣyanta indhate ||ते । स्या॒म॒ । ये । अ॒ग्नये॑ । द॒दा॒शुः । ह॒व्यदा॑तिऽभिः ।
ये । ई॒म् । पुष्य॑न्तः । इ॒न्ध॒ते ॥ते । स्याम । ये । अग्नये । ददाशुः । हव्यदातिऽभिः ।
ये । ईम् । पुष्यन्तः । इन्धते ॥té ǀ syāma ǀ yé ǀ agnáye ǀ dadāśúḥ ǀ havyádāti-bhiḥ ǀ
yé ǀ īm ǀ púṣyantaḥ ǀ indhaté ǁte ǀ syāma ǀ ye ǀ agnaye ǀ dadāśuḥ ǀ havyadāti-bhiḥ ǀ
ye ǀ īm ǀ puṣyantaḥ ǀ indhate ǁ4.8.5 Aṣṭaka 3.5.8.5Anuvāka 4.1.113
-
Ṛk 6
ते रा॒या ते सु॒वीर्यैः॑ सस॒वांसो॒ वि शृ॑ण्विरे ।
ये अ॒ग्ना द॑धि॒रे दुवः॑ ॥ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे |
ये अग्ना दधिरे दुवः ||té rāyā́ té suvī́ryaiḥ sasavā́ṃso ví śṛṇvire ǀ
yé agnā́ dadhiré dúvaḥ ǁte rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire |
ye agnā dadhire duvaḥ ||ते । रा॒या । ते । सु॒ऽवीर्यैः॑ । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ।
ये । अ॒ग्ना । द॒धि॒रे । दुवः॑ ॥ते । राया । ते । सुऽवीर्यैः । ससऽवांसः । वि । शृण्विरे ।
ये । अग्ना । दधिरे । दुवः ॥té ǀ rāyā́ ǀ té ǀ su-vī́ryaiḥ ǀ sasa-vā́ṃsaḥ ǀ ví ǀ śṛṇvire ǀ
yé ǀ agnā́ ǀ dadhiré ǀ dúvaḥ ǁte ǀ rāyā ǀ te ǀ su-vīryaiḥ ǀ sasa-vāṃsaḥ ǀ vi ǀ śṛṇvire ǀ
ye ǀ agnā ǀ dadhire ǀ duvaḥ ǁ4.8.6 Aṣṭaka 3.5.8.6Anuvāka 4.1.114
-
Ṛk 7
अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रंतु पुरु॒स्पृहः॑ ।
अ॒स्मे वाजा॑स ईरतां ॥अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः |
अस्मे वाजास ईरताम् ||asmé rā́yo divédive sám carantu puruspṛ́haḥ ǀ
asmé vā́jāsa īratām ǁasme rāyo dive-dive saṃ carantu puruspṛhaḥ |
asme vājāsa īratām ||अ॒स्मे इति॑ । रायः॑ । दि॒वेऽदि॑वे । सम् । च॒र॒न्तु॒ । पु॒रु॒ऽस्पृहः॑ ।
अ॒स्मे इति॑ । वाजा॑सः । ई॒र॒ता॒म् ॥अस्मे इति । रायः । दिवेऽदिवे । सम् । चरन्तु । पुरुऽस्पृहः ।
अस्मे इति । वाजासः । ईरताम् ॥asmé íti ǀ rā́yaḥ ǀ divé-dive ǀ sám ǀ carantu ǀ puru-spṛ́haḥ ǀ
asmé íti ǀ vā́jāsaḥ ǀ īratām ǁasme iti ǀ rāyaḥ ǀ dive-dive ǀ sam ǀ carantu ǀ puru-spṛhaḥ ǀ
asme iti ǀ vājāsaḥ ǀ īratām ǁ4.8.7 Aṣṭaka 3.5.8.7Anuvāka 4.1.115
-
Ṛk 8
स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणां ।
अति॑ क्षि॒प्रेव॑ विध्यति ॥स विप्रश् चर्षणीनां शवसा मानुषाणाम् |
अति क्षिप्रेव विध्यति ||sá vípraścarṣaṇīnā́m śávasā mā́nuṣāṇām ǀ
áti kṣipréva vidhyati ǁsa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām |
ati kṣipreva vidhyati ||सः । विप्रः॑ । च॒र्ष॒णी॒नाम् । शव॑सा । मानु॑षाणाम् ।
अति॑ । क्षि॒प्राऽइ॑व । वि॒ध्य॒ति॒ ॥सः । विप्रः । चर्षणीनाम् । शवसा । मानुषाणाम् ।
अति । क्षिप्राऽइव । विध्यति ॥sáḥ ǀ vípraḥ ǀ carṣaṇīnā́m ǀ śávasā ǀ mā́nuṣāṇām ǀ
áti ǀ kṣiprā́-iva ǀ vidhyati ǁsaḥ ǀ vipraḥ ǀ carṣaṇīnām ǀ śavasā ǀ mānuṣāṇām ǀ
ati ǀ kṣiprā-iva ǀ vidhyati ǁ4.8.8 Aṣṭaka 3.5.8.8Anuvāka 4.1.116
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.