Ṛk 4.8.7
Saṃhitā
अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रंतु पुरु॒स्पृहः॑ ।
अ॒स्मे वाजा॑स ईरतां ॥
अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः |
अस्मे वाजास ईरताम् ||
asmé rā́yo divédive sám carantu puruspṛ́haḥ ǀ
asmé vā́jāsa īratām ǁ
asme rāyo dive-dive saṃ carantu puruspṛhaḥ |
asme vājāsa īratām ||
Padapāṭha
अ॒स्मे इति॑ । रायः॑ । दि॒वेऽदि॑वे । सम् । च॒र॒न्तु॒ । पु॒रु॒ऽस्पृहः॑ ।
अ॒स्मे इति॑ । वाजा॑सः । ई॒र॒ता॒म् ॥
अस्मे इति । रायः । दिवेऽदिवे । सम् । चरन्तु । पुरुऽस्पृहः ।
अस्मे इति । वाजासः । ईरताम् ॥
asmé íti ǀ rā́yaḥ ǀ divé-dive ǀ sám ǀ carantu ǀ puru-spṛ́haḥ ǀ
asmé íti ǀ vā́jāsaḥ ǀ īratām ǁ
asme iti ǀ rāyaḥ ǀ dive-dive ǀ sam ǀ carantu ǀ puru-spṛhaḥ ǀ
asme iti ǀ vājāsaḥ ǀ īratām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.008.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.08.07
- Maṇḍala · Anuvāka · Ṛk
- 04.01.115
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.