Ṛgveda · Maṇḍala 4

Sūkta 25

Indra · Vāmadeva Gautama · 8 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (3, 5, 7); svarāṭpaṅkti (2, 8); bhurikpaṅkti (4, 6); nicṛtpaṅkti (1)

2nd set of styles triṣṭubh

  1. Ṛk 1

    को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निंद्र॑स्य स॒ख्यं जु॑जोष ।
    को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥

    को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष |
    को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ||

    kó adyá náryo devákāma uśánníndrasya sakhyám jujoṣa ǀ
    kó vā mahé’vase pā́ryāya sámiddhe agnáu sutásoma īṭṭe ǁ

    ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa |
    ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe ||

    कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
    कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥

    कः । अद्य । नर्यः । देवऽकामः । उशन् । इन्द्रस्य । सख्यम् । जुजोष ।
    कः । वा । महे । अवसे । पार्याय । सम्ऽइद्धे । अग्नौ । सुतऽसोमः । ईट्टे ॥

    káḥ ǀ adyá ǀ náryaḥ ǀ devá-kāmaḥ ǀ uśán ǀ índrasya ǀ sakhyám ǀ jujoṣa ǀ
    káḥ ǀ vā ǀ mahé ǀ ávase ǀ pā́ryāya ǀ sám-iddhe ǀ agnáu ǀ sutá-somaḥ ǀ īṭṭe ǁ

    kaḥ ǀ adya ǀ naryaḥ ǀ deva-kāmaḥ ǀ uśan ǀ indrasya ǀ sakhyam ǀ jujoṣa ǀ
    kaḥ ǀ vā ǀ mahe ǀ avase ǀ pāryāya ǀ sam-iddhe ǀ agnau ǀ suta-somaḥ ǀ īṭṭe ǁ

    4.25.1 Aṣṭaka 3.6.13.1Anuvāka 4.3.34

  2. Ṛk 2

    को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।
    क इंद्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥

    को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः |
    क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ||

    kó nānāma vácasā somyā́ya manāyúrvā bhavati vásta usrā́ḥ ǀ
    ká índrasya yújyam káḥ sakhitvám kó bhrātrám vaṣṭi kaváye ká ūtī́ ǁ

    ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ |
    ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī ||

    कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः ।
    कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥

    कः । ननाम । वचसा । सोम्याय । मनायुः । वा । भवति । वस्ते । उस्राः ।
    कः । इन्द्रस्य । युज्यम् । कः । सखिऽत्वम् । कः । भ्रात्रम् । वष्टि । कवये । कः । ऊती ॥

    káḥ ǀ nanāma ǀ vácasā ǀ somyā́ya ǀ manāyúḥ ǀ vā ǀ bhavati ǀ váste ǀ usrā́ḥ ǀ
    káḥ ǀ índrasya ǀ yújyam ǀ káḥ ǀ sakhi-tvám ǀ káḥ ǀ bhrātrám ǀ vaṣṭi ǀ kaváye ǀ káḥ ǀ ūtī́ ǁ

    kaḥ ǀ nanāma ǀ vacasā ǀ somyāya ǀ manāyuḥ ǀ vā ǀ bhavati ǀ vaste ǀ usrāḥ ǀ
    kaḥ ǀ indrasya ǀ yujyam ǀ kaḥ ǀ sakhi-tvam ǀ kaḥ ǀ bhrātram ǀ vaṣṭi ǀ kavaye ǀ kaḥ ǀ ūtī ǁ

    4.25.2 Aṣṭaka 3.6.13.2Anuvāka 4.3.35

  3. Ṛk 3

    को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।
    कस्या॒श्विना॒विंद्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बंति॒ मन॒सावि॑वेनं ॥

    को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे |
    कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ||

    kó devā́nāmávo adyā́ vṛṇīte ká ādityā́m̐ áditim jyótirīṭṭe ǀ
    kásyāśvínāvíndro agníḥ sutásyāṃśóḥ pibanti mánasā́vivenam ǁ

    ko devānām avo adyā vṛṇīte ka ādityāṃ aditiṃ jyotir īṭṭe |
    kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam ||

    कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ ।
    कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥

    कः । देवानाम् । अवः । अद्य । वृणीते । कः । आदित्यान् । अदितिम् । ज्योतिः । ईट्टे ।
    कस्य । अश्विनौ । इन्द्रः । अग्निः । सुतस्य । अंशोः । पिबन्ति । मनसा । अविऽवेनम् ॥

    káḥ ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīté ǀ káḥ ǀ ādityā́n ǀ áditim ǀ jyótiḥ ǀ īṭṭe ǀ
    kásya ǀ aśvínau ǀ índraḥ ǀ agníḥ ǀ sutásya ǀ aṃśóḥ ǀ pibanti ǀ mánasā ǀ ávi-venam ǁ

    kaḥ ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīte ǀ kaḥ ǀ ādityān ǀ aditim ǀ jyotiḥ ǀ īṭṭe ǀ
    kasya ǀ aśvinau ǀ indraḥ ǀ agniḥ ǀ sutasya ǀ aṃśoḥ ǀ pibanti ǀ manasā ǀ avi-venam ǁ

    4.25.3 Aṣṭaka 3.6.13.3Anuvāka 4.3.36

  4. Ṛk 4

    तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चरं॑तं ।
    य इंद्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णां ॥

    तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् |
    य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ||

    tásmā agnírbhā́rataḥ śárma yaṃsajjyókpaśyātsū́ryamuccárantam ǀ
    yá índrāya sunávāmétyā́ha náre náryāya nṛ́tamāya nṛṇā́m ǁ

    tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam |
    ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām ||

    तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
    यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥

    तस्मै । अग्निः । भारतः । शर्म । यंसत् । ज्योक् । पश्यात् । सूर्यम् । उत्ऽचरन्तम् ।
    यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृऽतमाय । नृणाम् ॥

    tásmai ǀ agníḥ ǀ bhā́rataḥ ǀ śárma ǀ yaṃsat ǀ jyók ǀ paśyāt ǀ sū́ryam ǀ ut-cárantam ǀ
    yáḥ ǀ índrāya ǀ sunávāma ǀ íti ǀ ā́ha ǀ náre ǀ náryāya ǀ nṛ́-tamāya ǀ nṛṇā́m ǁ

    tasmai ǀ agniḥ ǀ bhārataḥ ǀ śarma ǀ yaṃsat ǀ jyok ǀ paśyāt ǀ sūryam ǀ ut-carantam ǀ
    yaḥ ǀ indrāya ǀ sunavāma ǀ iti ǀ āha ǀ nare ǀ naryāya ǀ nṛ-tamāya ǀ nṛṇām ǁ

    4.25.4 Aṣṭaka 3.6.13.4Anuvāka 4.3.37

  5. Ṛk 5

    न तं जि॑नंति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् ।
    प्रि॒यः सु॒कृत्प्रि॒य इंद्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥

    न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् |
    प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ||

    ná tám jinanti bahávo ná dabhrā́ urvásmā áditiḥ śárma yaṃsat ǀ
    priyáḥ sukṛ́tpriyá índre manāyúḥ priyáḥ suprāvī́ḥ priyó asya somī́ ǁ

    na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat |
    priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ||

    न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ।
    प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥

    न । तम् । जिनन्ति । बहवः । न । दभ्राः । उरु । अस्मै । अदितिः । शर्म । यंसत् ।
    प्रियः । सुऽकृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्रऽअवीः । प्रियः । अस्य । सोमी ॥

    ná ǀ tám ǀ jinanti ǀ bahávaḥ ǀ ná ǀ dabhrā́ḥ ǀ urú ǀ asmai ǀ áditiḥ ǀ śárma ǀ yaṃsat ǀ
    priyáḥ ǀ su-kṛ́t ǀ priyáḥ ǀ índre ǀ manāyúḥ ǀ priyáḥ ǀ supra-avī́ḥ ǀ priyáḥ ǀ asya ǀ somī́ ǁ

    na ǀ tam ǀ jinanti ǀ bahavaḥ ǀ na ǀ dabhrāḥ ǀ uru ǀ asmai ǀ aditiḥ ǀ śarma ǀ yaṃsat ǀ
    priyaḥ ǀ su-kṛt ǀ priyaḥ ǀ indre ǀ manāyuḥ ǀ priyaḥ ǀ supra-avīḥ ǀ priyaḥ ǀ asya ǀ somī ǁ

    4.25.5 Aṣṭaka 3.6.13.5Anuvāka 4.3.38

  6. Ṛk 6

    सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेंद्रः॑ ।
    नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवहं॒तेदवा॑चः ॥

    सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः |
    नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः ||

    suprāvyáḥ prāśuṣā́ḷeṣá vīráḥ súṣveḥ paktím kṛṇute kévaléndraḥ ǀ
    nā́suṣverāpírná sákhā ná jāmírduṣprāvyó’vahantédávācaḥ ǁ

    suprāvyaḥ prāśuṣāḷ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ |
    nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ ||

    सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ ।
    न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥

    सुप्रऽअव्यः । प्राशुषाट् । एषः । वीरः । सुस्वेः । पक्तिम् । कृणुते । केवला । इन्द्रः ।
    न । असुस्वेः । आपिः । न । सखा । न । जामिः । दुःप्रऽअव्यः । अवऽहन्ता । इत् । अवाचः ॥

    supra-avyáḥ ǀ prāśuṣā́ṭ ǀ eṣáḥ ǀ vīráḥ ǀ súsveḥ ǀ paktím ǀ kṛṇute ǀ kévalā ǀ índraḥ ǀ
    ná ǀ ásusveḥ ǀ āpíḥ ǀ ná ǀ sákhā ǀ ná ǀ jāmíḥ ǀ duḥpra-avyáḥ ǀ ava-hantā́ ǀ ít ǀ ávācaḥ ǁ

    supra-avyaḥ ǀ prāśuṣāṭ ǀ eṣaḥ ǀ vīraḥ ǀ susveḥ ǀ paktim ǀ kṛṇute ǀ kevalā ǀ indraḥ ǀ
    na ǀ asusveḥ ǀ āpiḥ ǀ na ǀ sakhā ǀ na ǀ jāmiḥ ǀ duḥpra-avyaḥ ǀ ava-hantā ǀ it ǀ avācaḥ ǁ

    4.25.6 Aṣṭaka 3.6.14.1Anuvāka 4.3.39

  7. Ṛk 7

    न रे॒वता॑ प॒णिना॑ स॒ख्यमिंद्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।
    आस्य॒ वेदः॑ खि॒दति॒ हंति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥

    न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते |
    आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ||

    ná revátā paṇínā sakhyámíndró’sunvatā sutapā́ḥ sám gṛṇīte ǀ
    ā́sya védaḥ khidáti hánti nagnám ví súṣvaye paktáye kévalo bhūt ǁ

    na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte |
    āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt ||

    न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ ।
    आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भू॒त् ॥

    न । रेवता । पणिना । सख्यम् । इन्द्रः । असुन्वता । सुतऽपाः । सम् । गृणीते ।
    आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत् ॥

    ná ǀ revátā ǀ paṇínā ǀ sakhyám ǀ índraḥ ǀ ásunvatā ǀ suta-pā́ḥ ǀ sám ǀ gṛṇīte ǀ
    ā́ ǀ asya ǀ védaḥ ǀ khidáti ǀ hánti ǀ nagnám ǀ ví ǀ súsvaye ǀ paktáye ǀ kévalaḥ ǀ bhūt ǁ

    na ǀ revatā ǀ paṇinā ǀ sakhyam ǀ indraḥ ǀ asunvatā ǀ suta-pāḥ ǀ sam ǀ gṛṇīte ǀ
    ā ǀ asya ǀ vedaḥ ǀ khidati ǀ hanti ǀ nagnam ǀ vi ǀ susvaye ǀ paktaye ǀ kevalaḥ ǀ bhūt ǁ

    4.25.7 Aṣṭaka 3.6.14.2Anuvāka 4.3.40

  8. Ṛk 8

    इंद्रं॒ परेऽव॑रे मध्य॒मास॒ इंद्रं॒ यांतोऽव॑सितास॒ इंद्रं॑ ।
    इंद्रं॑ क्षि॒यंत॑ उ॒त युध्य॑माना॒ इंद्रं॒ नरो॑ वाज॒यंतो॑ हवंते ॥

    इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् |
    इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ||

    índram páré’vare madhyamā́sa índram yā́ntó’vasitāsa índram ǀ
    índram kṣiyánta utá yúdhyamānā índram náro vājayánto havante ǁ

    indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram |
    indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante ||

    इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् ।
    इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥

    इन्द्रम् । परे । अवरे । मध्यमासः । इन्द्रम् । यान्तः । अवऽसितासः । इन्द्रम् ।
    इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते ॥

    índram ǀ páre ǀ ávare ǀ madhyamā́saḥ ǀ índram ǀ yā́ntaḥ ǀ áva-sitāsaḥ ǀ índram ǀ
    índram ǀ kṣiyántaḥ ǀ utá ǀ yúdhyamānāḥ ǀ índram ǀ náraḥ ǀ vājayántaḥ ǀ havante ǁ

    indram ǀ pare ǀ avare ǀ madhyamāsaḥ ǀ indram ǀ yāntaḥ ǀ ava-sitāsaḥ ǀ indram ǀ
    indram ǀ kṣiyantaḥ ǀ uta ǀ yudhyamānāḥ ǀ indram ǀ naraḥ ǀ vājayantaḥ ǀ havante ǁ

    4.25.8 Aṣṭaka 3.6.14.3Anuvāka 4.3.41

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.25 · Indra

Interpretations

Sri Aurobindo

Ṛk 1

Who today in his inner strength desires the godhead, who longs and cleaves in heart to the friendship of the Lord of Mind? Who seeks him with adoration casting in the Flame high-kindled the Soma-wine for the great Presence that shall carry him over to that other shore?

Ṛk 2

Who bows down with the Word of submission to the delightful One? Who becomes full in his mentality and wears the bright rays of the Light like a robe? Who desires the fellowship with Indra? who his friendship? who his brotherhood for the wisdom? who for his soul’s growth?

Ṛk 3

Who takes into himself today the presence of the gods? Who seeks Infinity and her Sons and the Light? In whose mind do the Aswins and Indra and Agni drink the brightness of the Joy outpoured nor depart from their delight?

Ṛk 4

For him may Agni of the Fullness work out peace, he may set his long-persisting gaze on the Lord of Illumination in his high ascent, him who has said, “Let us pour out the soul’s joy to Indra, to the Purusha of the strength, of all the Purushas the strongest.”

Ṛk 5

Him neither the many nor the few can overcome (or satisfy); the Mother Infinite works for him a vast peace. Dear is he to Indra who perfects his works, dear who fulfils mind, dear who stands forward in his increasing soul, dear who is full of the wine of joy.

Ṛk 6

For him who goes forward increasing, who expresses the Soma-wine, Indra in his strength works absolute perfection. But of him who offers it not he is neither helper nor friend nor brother, rather he smites down those who increase not in soul nor express it in the Word.