Ṛk 4.25.4
Saṃhitā
तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चरं॑तं ।
य इंद्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णां ॥
तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् |
य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ||
tásmā agnírbhā́rataḥ śárma yaṃsajjyókpaśyātsū́ryamuccárantam ǀ
yá índrāya sunávāmétyā́ha náre náryāya nṛ́tamāya nṛṇā́m ǁ
tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam |
ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām ||
Padapāṭha
तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥
तस्मै । अग्निः । भारतः । शर्म । यंसत् । ज्योक् । पश्यात् । सूर्यम् । उत्ऽचरन्तम् ।
यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृऽतमाय । नृणाम् ॥
tásmai ǀ agníḥ ǀ bhā́rataḥ ǀ śárma ǀ yaṃsat ǀ jyók ǀ paśyāt ǀ sū́ryam ǀ ut-cárantam ǀ
yáḥ ǀ índrāya ǀ sunávāma ǀ íti ǀ ā́ha ǀ náre ǀ náryāya ǀ nṛ́-tamāya ǀ nṛṇā́m ǁ
tasmai ǀ agniḥ ǀ bhārataḥ ǀ śarma ǀ yaṃsat ǀ jyok ǀ paśyāt ǀ sūryam ǀ ut-carantam ǀ
yaḥ ǀ indrāya ǀ sunavāma ǀ iti ǀ āha ǀ nare ǀ naryāya ǀ nṛ-tamāya ǀ nṛṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.025.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.13.04
- Maṇḍala · Anuvāka · Ṛk
- 04.03.037
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.