Ṛgveda · Maṇḍala 4 · Sūkta 25

Ṛk 4.25.8

Indra · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

इंद्रं॒ परेऽव॑रे मध्य॒मास॒ इंद्रं॒ यांतोऽव॑सितास॒ इंद्रं॑ ।
इंद्रं॑ क्षि॒यंत॑ उ॒त युध्य॑माना॒ इंद्रं॒ नरो॑ वाज॒यंतो॑ हवंते ॥

इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् |
इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ||

índram páré’vare madhyamā́sa índram yā́ntó’vasitāsa índram ǀ
índram kṣiyánta utá yúdhyamānā índram náro vājayánto havante ǁ

indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram |
indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante ||

Padapāṭha

इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् ।
इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥

इन्द्रम् । परे । अवरे । मध्यमासः । इन्द्रम् । यान्तः । अवऽसितासः । इन्द्रम् ।
इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते ॥

índram ǀ páre ǀ ávare ǀ madhyamā́saḥ ǀ índram ǀ yā́ntaḥ ǀ áva-sitāsaḥ ǀ índram ǀ
índram ǀ kṣiyántaḥ ǀ utá ǀ yúdhyamānāḥ ǀ índram ǀ náraḥ ǀ vājayántaḥ ǀ havante ǁ

indram ǀ pare ǀ avare ǀ madhyamāsaḥ ǀ indram ǀ yāntaḥ ǀ ava-sitāsaḥ ǀ indram ǀ
indram ǀ kṣiyantaḥ ǀ uta ǀ yudhyamānāḥ ǀ indram ǀ naraḥ ǀ vājayantaḥ ǀ havante ǁ

References

Maṇḍala · Sūkta · Ṛk
04.025.08
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.14.03
Maṇḍala · Anuvāka · Ṛk
04.03.041
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.25.8

Interpretations

Sāyaṇa

पर उत्कृश्टा अवरे निकृष्ताश्च जना इन्द्रं हवन्ते । आह्वयन्ति । मध्यमासो मध्यमाश्चेन्द्रमेव हवन्ते । यान्तः कार्यसिद्ध्यर्थं गच्छन्तो जना इन्द्रमेवाह्वयन्ति । अवसितासो निविष्टाश्चेन्द्रमेवाह्वयन्ति । क्श्झियन्तो ग्रुहे निवसन्तो जना इन्द्रमेव हवन्ते । वाजयन्तो वाजमन्नमिच्छन्तो नरो नेतारो मनुष्या इन्द्रमेव हवन्ते ॥ ८ ॥