Ṛk 4.26.1
Saṃhitā
अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ ।
अ॒हं कुत्स॑मार्जुने॒यं न्यृं॑जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥
अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवां ऋषिर् अस्मि विप्रः |
अहं कुत्सम् आर्जुनेयं न्य् ऋञ्जे ऽहं कविर् उशना पश्यता मा ||
ahám mánurabhavam sū́ryaścāhám kakṣī́vām̐ ṛ́ṣirasmi vípraḥ ǀ
ahám kútsamārjuneyám nyṛ́ñje’hám kavíruśánā páśyatā mā ǁ
aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṃ ṛṣir asmi vipraḥ |
ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā ||
Padapāṭha
अ॒हम् । मनुः॑ । अ॒भ॒व॒म् । सूर्यः॑ । च॒ । अ॒हम् । क॒क्षीवा॑न् । ऋषिः॑ । अ॒स्मि॒ । विप्रः॑ ।
अ॒हम् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना॑ । पश्य॑त । मा॒ ॥
अहम् । मनुः । अभवम् । सूर्यः । च । अहम् । कक्षीवान् । ऋषिः । अस्मि । विप्रः ।
अहम् । कुत्सम् । आर्जुनेयम् । नि । ऋञ्जे । अहम् । कविः । उशना । पश्यत । मा ॥
ahám ǀ mánuḥ ǀ abhavam ǀ sū́ryaḥ ǀ ca ǀ ahám ǀ kakṣī́vān ǀ ṛ́ṣiḥ ǀ asmi ǀ vípraḥ ǀ
ahám ǀ kútsam ǀ ārjuneyám ǀ ní ǀ ṛñje ǀ ahám ǀ kavíḥ ǀ uśánā ǀ páśyata ǀ mā ǁ
aham ǀ manuḥ ǀ abhavam ǀ sūryaḥ ǀ ca ǀ aham ǀ kakṣīvān ǀ ṛṣiḥ ǀ asmi ǀ vipraḥ ǀ
aham ǀ kutsam ǀ ārjuneyam ǀ ni ǀ ṛñje ǀ aham ǀ kaviḥ ǀ uśanā ǀ paśyata ǀ mā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.026.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.15.01
- Maṇḍala · Anuvāka · Ṛk
- 04.03.042
- Devatā देवता
- 1-3: Indra; 4-7: Śyena (Bird)
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.