Ṛk 4.26.5
Saṃhitā
भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि ।
तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥
भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि |
तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ||
bháradyádi víráto vévijānaḥ pathórúṇā mánojavā asarji ǀ
tū́yam yayau mádhunā somyénotá śrávo vivide śyenó átra ǁ
bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji |
tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra ||
Padapāṭha
भर॑त् । यदि॑ । विः । अतः॑ । वेवि॑जानः । प॒था । उ॒रुणा॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ ।
तूय॑म् । य॒यौ॒ । मधु॑ना । सो॒म्येन॑ । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । श्ये॒नः । अत्र॑ ॥
भरत् । यदि । विः । अतः । वेविजानः । पथा । उरुणा । मनःऽजवाः । असर्जि ।
तूयम् । ययौ । मधुना । सोम्येन । उत । श्रवः । विविदे । श्येनः । अत्र ॥
bhárat ǀ yádi ǀ víḥ ǀ átaḥ ǀ vévijānaḥ ǀ pathā́ ǀ urúṇā ǀ mánaḥ-javāḥ ǀ asarji ǀ
tū́yam ǀ yayau ǀ mádhunā ǀ somyéna ǀ utá ǀ śrávaḥ ǀ vivide ǀ śyenáḥ ǀ átra ǁ
bharat ǀ yadi ǀ viḥ ǀ ataḥ ǀ vevijānaḥ ǀ pathā ǀ uruṇā ǀ manaḥ-javāḥ ǀ asarji ǀ
tūyam ǀ yayau ǀ madhunā ǀ somyena ǀ uta ǀ śravaḥ ǀ vivide ǀ śyenaḥ ǀ atra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.026.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.15.05
- Maṇḍala · Anuvāka · Ṛk
- 04.03.046
- Devatā देवता
- 1-3: Indra; 4-7: Śyena (Bird)
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.