Ṛk 4.26.3
Saṃhitā
अ॒हं पुरो॑ मंदसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शंब॑रस्य ।
श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदावं॑ ॥
अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य |
शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् ||
ahám púro mandasānó vyáiram náva sākám navatī́ḥ śámbarasya ǀ
śatatamám veśyám sarvátātā dívodāsamatithigvám yádā́vam ǁ
aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya |
śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam ||
Padapāṭha
अ॒हम् । पुरः॑ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव॑ । सा॒कम् । न॒व॒तीः । शम्ब॑रस्य ।
श॒त॒ऽत॒मम् । वे॒श्य॑म् । स॒र्वऽता॑ता । दिवः॑ऽदासम् । अ॒ति॒थि॒ऽग्वम् । यत् । आव॑म् ॥
अहम् । पुरः । मन्दसानः । वि । ऐरम् । नव । साकम् । नवतीः । शम्बरस्य ।
शतऽतमम् । वेश्यम् । सर्वऽताता । दिवःऽदासम् । अतिथिऽग्वम् । यत् । आवम् ॥
ahám ǀ púraḥ ǀ mandasānáḥ ǀ ví ǀ airam ǀ náva ǀ sākám ǀ navatī́ḥ ǀ śámbarasya ǀ
śata-tamám ǀ veśyám ǀ sarvá-tātā ǀ dívaḥ-dāsam ǀ atithi-gvám ǀ yát ǀ ā́vam ǁ
aham ǀ puraḥ ǀ mandasānaḥ ǀ vi ǀ airam ǀ nava ǀ sākam ǀ navatīḥ ǀ śambarasya ǀ
śata-tamam ǀ veśyam ǀ sarva-tātā ǀ divaḥ-dāsam ǀ atithi-gvam ǀ yat ǀ āvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.026.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.15.03
- Maṇḍala · Anuvāka · Ṛk
- 04.03.044
- Devatā देवता
- 1-3: Indra; 4-7: Śyena (Bird)
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.