Ṛk 4.26.7
Saṃhitā
आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कं ।
अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥
आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् |
अत्रा पुरन्धिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ||
ādā́ya śyenó abharatsómam sahásram savā́m̐ ayútam ca sākám ǀ
átrā púraṃdhirajahādárātīrmáde sómasya mūrā́ ámūraḥ ǁ
ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam |
atrā purandhir ajahād arātīr made somasya mūrā amūraḥ ||
Padapāṭha
आ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् ।
अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥
आऽदाय । श्येनः । अभरत् । सोमम् । सहस्रम् । सवान् । अयुतम् । च । साकम् ।
अत्र । पुरम्ऽधिः । अजहात् । अरातीः । मदे । सोमस्य । मूराः । अमूरः ॥
ā-dā́ya ǀ śyenáḥ ǀ abharat ǀ sómam ǀ sahásram ǀ savā́n ǀ ayútam ǀ ca ǀ sākám ǀ
átra ǀ púram-dhiḥ ǀ ajahāt ǀ árātīḥ ǀ máde ǀ sómasya ǀ mūrā́ḥ ǀ ámūraḥ ǁ
ā-dāya ǀ śyenaḥ ǀ abharat ǀ somam ǀ sahasram ǀ savān ǀ ayutam ǀ ca ǀ sākam ǀ
atra ǀ puram-dhiḥ ǀ ajahāt ǀ arātīḥ ǀ made ǀ somasya ǀ mūrāḥ ǀ amūraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.026.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.15.07
- Maṇḍala · Anuvāka · Ṛk
- 04.03.048
- Devatā देवता
- 1-3: Indra; 4-7: Śyena (Bird)
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.