Ṛk 4.27.1
Saṃhitā
गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।
श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयं ॥
गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा |
शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् ||
gárbhe nú sánnánveṣāmavedamahám devā́nām jánimāni víśvā ǀ
śatám mā púra ā́yasīrarakṣannádha śyenó javásā níradīyam ǁ
garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā |
śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam ||
Padapāṭha
गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ ।
श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥
गर्भे । नु । सन् । अनु । एषाम् । अवेदम् । अहम् । देवानाम् । जनिमानि । विश्वा ।
शतम् । मा । पुरः । आयसीः । अरक्षन् । अध । श्येनः । जवसा । निः । अदीयम् ॥
gárbhe ǀ nú ǀ sán ǀ ánu ǀ eṣām ǀ avedam ǀ ahám ǀ devā́nām ǀ jánimāni ǀ víśvā ǀ
śatám ǀ mā ǀ púraḥ ǀ ā́yasīḥ ǀ arakṣan ǀ ádha ǀ śyenáḥ ǀ javásā ǀ níḥ ǀ adīyam ǁ
garbhe ǀ nu ǀ san ǀ anu ǀ eṣām ǀ avedam ǀ aham ǀ devānām ǀ janimāni ǀ viśvā ǀ
śatam ǀ mā ǀ puraḥ ǀ āyasīḥ ǀ arakṣan ǀ adha ǀ śyenaḥ ǀ javasā ǀ niḥ ǀ adīyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.027.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.16.01
- Maṇḍala · Anuvāka · Ṛk
- 04.03.049
- Devatā देवता
- 1-4: Śyena (Bird); 5: Soma, Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.