Ṛk 4.27.4
Saṃhitā
ऋ॒जि॒प्य ई॒मिंद्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।
अं॒तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥
ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः |
अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः ||
ṛjipyá īmíndrāvato ná bhujyúm śyenó jabhāra bṛható ádhi ṣṇóḥ ǀ
antáḥ patatpatatryásya parṇámádha yā́mani prásitasya tádvéḥ ǁ
ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ |
antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ ||
Padapāṭha
ऋ॒जि॒प्यः । ई॒म् । इन्द्र॑ऽवतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि॑ । स्नोः ।
अ॒न्तरिति॑ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध॑ । याम॑नि । प्रऽसि॑तस्य । तत् । वेरिति॒ वेः ॥
ऋजिप्यः । ईम् । इन्द्रऽवतः । न । भुज्युम् । श्येनः । जभार । बृहतः । अधि । स्नोः ।
अन्तरिति । पतत् । पतत्रि । अस्य । पर्णम् । अध । यामनि । प्रऽसितस्य । तत् । वेरिति वेः ॥
ṛjipyáḥ ǀ īm ǀ índra-vataḥ ǀ ná ǀ bhujyúm ǀ śyenáḥ ǀ jabhāra ǀ bṛhatáḥ ǀ ádhi ǀ snóḥ ǀ
antáríti ǀ patat ǀ patatrí ǀ asya ǀ parṇám ǀ ádha ǀ yā́mani ǀ prá-sitasya ǀ tát ǀ véríti véḥ ǁ
ṛjipyaḥ ǀ īm ǀ indra-vataḥ ǀ na ǀ bhujyum ǀ śyenaḥ ǀ jabhāra ǀ bṛhataḥ ǀ adhi ǀ snoḥ ǀ
antariti ǀ patat ǀ patatri ǀ asya ǀ parṇam ǀ adha ǀ yāmani ǀ pra-sitasya ǀ tat ǀ veriti veḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.027.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.16.04
- Maṇḍala · Anuvāka · Ṛk
- 04.03.052
- Devatā देवता
- 1-4: Śyena (Bird); 5: Soma, Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.