Ṛgveda · Maṇḍala 4 · Sūkta 27

Ṛk 4.27.5

Śyena (Bird) · Soma, Indra · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमंधः॑ ।
अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिंद्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥

अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः |
अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै ||

ádha śvetám kaláśam góbhiraktámāpipyānám maghávā śukrámándhaḥ ǀ
adhvaryúbhiḥ práyatam mádhvo ágramíndro mádāya práti dhatpíbadhyai śū́ro mádāya práti dhatpíbadhyai ǁ

adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ |
adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai ||

Padapāṭha

अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । आ॒ऽपि॒प्या॒नम् । म॒घऽवा॑ । शु॒क्रम् । अन्धः॑ ।
अ॒ध्व॒र्युऽभिः॑ । प्रऽय॑तम् । मध्वः॑ । अग्र॑म् । इन्द्रः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै । शूरः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै ॥

अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । आऽपिप्यानम् । मघऽवा । शुक्रम् । अन्धः ।
अध्वर्युऽभिः । प्रऽयतम् । मध्वः । अग्रम् । इन्द्रः । मदाय । प्रति । धत् । पिबध्यै । शूरः । मदाय । प्रति । धत् । पिबध्यै ॥

ádha ǀ śvetám ǀ kaláśam ǀ góbhiḥ ǀ aktám ǀ ā-pipyānám ǀ maghá-vā ǀ śukrám ǀ ándhaḥ ǀ
adhvaryú-bhiḥ ǀ prá-yatam ǀ mádhvaḥ ǀ ágram ǀ índraḥ ǀ mádāya ǀ práti ǀ dhat ǀ píbadhyai ǀ śū́raḥ ǀ mádāya ǀ práti ǀ dhat ǀ píbadhyai ǁ

adha ǀ śvetam ǀ kalaśam ǀ gobhiḥ ǀ aktam ǀ ā-pipyānam ǀ magha-vā ǀ śukram ǀ andhaḥ ǀ
adhvaryu-bhiḥ ǀ pra-yatam ǀ madhvaḥ ǀ agram ǀ indraḥ ǀ madāya ǀ prati ǀ dhat ǀ pibadhyai ǀ śūraḥ ǀ madāya ǀ prati ǀ dhat ǀ pibadhyai ǁ

References

Maṇḍala · Sūkta · Ṛk
04.027.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.16.05
Maṇḍala · Anuvāka · Ṛk
04.03.053
Devatā देवता
1-4: Śyena (Bird); 5: Soma, Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh, Śakvarī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.27.5

Interpretations

Sāyaṇa

अधाधुना शूरो विक्रान्तो मघवा धनवानिन्द्रः श्वेतं शुभ्रं कलशं कलशे पात्रे स्थितं गोभिर्गव्येन पयसाक्तं सिक्तमापिप्यानमाप्याययन्तं शुक्रं सारोपेतमध्वर्युभिः प्रयतं दत्तमन्धः सोमलक्षनमन्नं मध्वो मधुरस्य सोमरसस्याग्रमग्रे मदाय मदार्थं पिबध्यै पातुं प्रति धत् । प्रतिदधातु । पुनरुक्तिरादरार्था ॥ ५ ॥