Ṛk 4.21.8
Saṃhitā
वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।
वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वहं॑ति ॥
वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि |
विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ||
ví yádvárāṃsi párvatasya vṛṇvé páyobhirjinvé apā́m jávāṃsi ǀ
vidádgaurásya gavayásya góhe yádī vā́jāya sudhyó váhanti ǁ
vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi |
vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti ||
Padapāṭha
वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि ।
वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥
वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयःऽभिः । जिन्वे । अपाम् । जवांसि ।
विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सुऽध्यः । वहन्ति ॥
ví ǀ yát ǀ várāṃsi ǀ párvatasya ǀ vṛṇvé ǀ páyaḥ-bhiḥ ǀ jinvé ǀ apā́m ǀ jávāṃsi ǀ
vidát ǀ gaurásya ǀ gavayásya ǀ góhe ǀ yádi ǀ vā́jāya ǀ su-dhyáḥ ǀ váhanti ǁ
vi ǀ yat ǀ varāṃsi ǀ parvatasya ǀ vṛṇve ǀ payaḥ-bhiḥ ǀ jinve ǀ apām ǀ javāṃsi ǀ
vidat ǀ gaurasya ǀ gavayasya ǀ gohe ǀ yadi ǀ vājāya ǀ su-dhyaḥ ǀ vahanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.021.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.06.03
- Maṇḍala · Anuvāka · Ṛk
- 04.02.117
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.