Ṛk 4.54.4
Saṃhitā
न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।
यत्पृ॑थि॒व्या वरि॑म॒न्ना स्वं॑गु॒रिर्वर्ष्मं॑दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥
न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति |
यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ||
ná pramíye savitúrdáivyasya tádyáthā víśvam bhúvanam dhārayiṣyáti ǀ
yátpṛthivyā́ várimannā́ svaṅgurírvárṣmandiváḥ suváti satyámasya tát ǁ
na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati |
yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat ||
Padapāṭha
न । प्र॒ऽमिये॑ । स॒वि॒तुः । दैव्य॑स्य । तत् । यथा॑ । विश्व॑म् । भुव॑नम् । धा॒र॒यि॒ष्यति॑ ।
यत् । पृ॒थि॒व्याः । वरि॑मन् । आ । सु॒ऽअ॒ङ्गु॒रिः । वर्ष्म॑न् । दि॒वः । सु॒वति॑ । स॒त्यम् । अ॒स्य॒ । तत् ॥
न । प्रऽमिये । सवितुः । दैव्यस्य । तत् । यथा । विश्वम् । भुवनम् । धारयिष्यति ।
यत् । पृथिव्याः । वरिमन् । आ । सुऽअङ्गुरिः । वर्ष्मन् । दिवः । सुवति । सत्यम् । अस्य । तत् ॥
ná ǀ pra-míye ǀ savitúḥ ǀ dáivyasya ǀ tát ǀ yáthā ǀ víśvam ǀ bhúvanam ǀ dhārayiṣyáti ǀ
yát ǀ pṛthivyā́ḥ ǀ váriman ǀ ā́ ǀ su-aṅguríḥ ǀ várṣman ǀ diváḥ ǀ suváti ǀ satyám ǀ asya ǀ tát ǁ
na ǀ pra-miye ǀ savituḥ ǀ daivyasya ǀ tat ǀ yathā ǀ viśvam ǀ bhuvanam ǀ dhārayiṣyati ǀ
yat ǀ pṛthivyāḥ ǀ variman ǀ ā ǀ su-aṅguriḥ ǀ varṣman ǀ divaḥ ǀ suvati ǀ satyam ǀ asya ǀ tat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.054.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.05.04
- Maṇḍala · Anuvāka · Ṛk
- 04.05.062
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.