Ṛk 4.40.3
Saṃhitā
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अंक॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥
उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः |
श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ||
utá smāsya drávatasturaṇyatáḥ parṇám ná véránu vāti pragardhínaḥ ǀ
śyenásyeva dhrájato aṅkasám pári dadhikrā́vṇaḥ sahórjā́ táritrataḥ ǁ
uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ |
śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ ||
Padapāṭha
उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ ।
श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥
उत । स्म । अस्य । द्रवतः । तुरण्यतः । पर्णम् । न । वेः । अनु । वाति । प्रऽगर्धिनः ।
श्येनस्यऽइव । ध्रजतः । अङ्कसम् । परि । दधिऽक्राव्णः । सह । ऊर्जा । तरित्रतः ॥
utá ǀ sma ǀ asya ǀ drávataḥ ǀ turaṇyatáḥ ǀ parṇám ǀ ná ǀ véḥ ǀ ánu ǀ vāti ǀ pra-gardhínaḥ ǀ
śyenásya-iva ǀ dhrájataḥ ǀ aṅkasám ǀ pári ǀ dadhi-krā́vṇaḥ ǀ sahá ǀ ūrjā́ ǀ táritrataḥ ǁ
uta ǀ sma ǀ asya ǀ dravataḥ ǀ turaṇyataḥ ǀ parṇam ǀ na ǀ veḥ ǀ anu ǀ vāti ǀ pra-gardhinaḥ ǀ
śyenasya-iva ǀ dhrajataḥ ǀ aṅkasam ǀ pari ǀ dadhi-krāvṇaḥ ǀ saha ǀ ūrjā ǀ taritrataḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.040.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.14.03
- Maṇḍala · Anuvāka · Ṛk
- 04.04.067
- Devatā देवता
- 1-4: Dadhikrā; 5: Sūrya
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.