Ṛk 4.40.2
Saṃhitā
सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् ।
स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥
सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् |
सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ||
sátvā bhariṣó gaviṣó duvanyasácchravasyā́diṣá uṣásasturaṇyasát ǀ
satyó dravó dravaráḥ pataṃgaró dadhikrā́véṣamū́rjam svárjanat ǁ
satvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat |
satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat ||
Padapāṭha
सत्वा॑ । भ॒रि॒षः । गो॒ऽइ॒षः । दु॒व॒न्य॒ऽसत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः॑ । तु॒र॒ण्य॒ऽसत् ।
स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒ऽक्रावा॑ । इष॑म् । ऊर्ज॑म् । स्वः॑ । ज॒न॒त् ॥
सत्वा । भरिषः । गोऽइषः । दुवन्यऽसत् । श्रवस्यात् । इषः । उषसः । तुरण्यऽसत् ।
सत्यः । द्रवः । द्रवरः । पतङ्गरः । दधिऽक्रावा । इषम् । ऊर्जम् । स्वः । जनत् ॥
sátvā ǀ bhariṣáḥ ǀ go-iṣáḥ ǀ duvanya-sát ǀ śravasyā́t ǀ iṣáḥ ǀ uṣásaḥ ǀ turaṇya-sát ǀ
satyáḥ ǀ draváḥ ǀ dravaráḥ ǀ pataṅgaráḥ ǀ dadhi-krā́vā ǀ íṣam ǀ ū́rjam ǀ sváḥ ǀ janat ǁ
satvā ǀ bhariṣaḥ ǀ go-iṣaḥ ǀ duvanya-sat ǀ śravasyāt ǀ iṣaḥ ǀ uṣasaḥ ǀ turaṇya-sat ǀ
satyaḥ ǀ dravaḥ ǀ dravaraḥ ǀ pataṅgaraḥ ǀ dadhi-krāvā ǀ iṣam ǀ ūrjam ǀ svaḥ ǀ janat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.040.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.14.02
- Maṇḍala · Anuvāka · Ṛk
- 04.04.066
- Devatā देवता
- 1-4: Dadhikrā; 5: Sūrya
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.