Ṛk 4.2.2
Saṃhitā
इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अं॒तर॑ग्ने ।
दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्रांश्च॑ ॥
इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने |
दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च ||
ihá tvám sūno sahaso no adyá jātó jātā́m̐ ubháyām̐ antáragne ǀ
dūtá īyase yuyujāná ṛṣva ṛjumuṣkā́nvṛ́ṣaṇaḥ śukrā́ṃśca ǁ
iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar agne |
dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca ||
Padapāṭha
इ॒ह । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । जा॒तः । जा॒तान् । उ॒भया॑न् । अ॒न्तः । अ॒ग्ने॒ ।
दू॒तः । ई॒य॒से॒ । यु॒यु॒जा॒नः । ऋ॒ष्व॒ । ऋ॒जु॒ऽमु॒ष्कान् । वृष॑णः । शु॒क्रान् । च॒ ॥
इह । त्वम् । सूनो इति । सहसः । नः । अद्य । जातः । जातान् । उभयान् । अन्तः । अग्ने ।
दूतः । ईयसे । युयुजानः । ऋष्व । ऋजुऽमुष्कान् । वृषणः । शुक्रान् । च ॥
ihá ǀ tvám ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ jātáḥ ǀ jātā́n ǀ ubháyān ǀ antáḥ ǀ agne ǀ
dūtáḥ ǀ īyase ǀ yuyujānáḥ ǀ ṛṣva ǀ ṛju-muṣkā́n ǀ vṛ́ṣaṇaḥ ǀ śukrā́n ǀ ca ǁ
iha ǀ tvam ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ jātaḥ ǀ jātān ǀ ubhayān ǀ antaḥ ǀ agne ǀ
dūtaḥ ǀ īyase ǀ yuyujānaḥ ǀ ṛṣva ǀ ṛju-muṣkān ǀ vṛṣaṇaḥ ǀ śukrān ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.002.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.16.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.022
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.