Ṛk 4.2.14
Saṃhitā
अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभिः॑ ।
रथं॒ न क्रंतो॒ अप॑सा भु॒रिजो॑र्ऋ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥
अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः |
रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ||
ádhā ha yádvayámagne tvāyā́ paḍbhírhástebhiścakṛmā́ tanū́bhiḥ ǀ
rátham ná kránto ápasā bhuríjorṛtám yemuḥ sudhyá āśuṣāṇā́ḥ ǁ
adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ |
rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ ||
Padapāṭha
अध॑ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒ऽया । प॒ट्ऽभिः । हस्ते॑भिः । च॒कृ॒म । त॒नूभिः॑ ।
रथ॑म् । न । क्रन्तः॑ । अप॑सा । भु॒रिजोः॑ । ऋ॒तम् । ये॒मुः॒ । सु॒ऽध्यः॑ । आ॒शु॒षा॒णाः ॥
अध । ह । यत् । वयम् । अग्ने । त्वाऽया । पट्ऽभिः । हस्तेभिः । चकृम । तनूभिः ।
रथम् । न । क्रन्तः । अपसा । भुरिजोः । ऋतम् । येमुः । सुऽध्यः । आशुषाणाः ॥
ádha ǀ ha ǀ yát ǀ vayám ǀ agne ǀ tvā-yā́ ǀ paṭ-bhíḥ ǀ hástebhiḥ ǀ cakṛmá ǀ tanū́bhiḥ ǀ
rátham ǀ ná ǀ krántaḥ ǀ ápasā ǀ bhuríjoḥ ǀ ṛtám ǀ yemuḥ ǀ su-dhyáḥ ǀ āśuṣāṇā́ḥ ǁ
adha ǀ ha ǀ yat ǀ vayam ǀ agne ǀ tvā-yā ǀ paṭ-bhiḥ ǀ hastebhiḥ ǀ cakṛma ǀ tanūbhiḥ ǀ
ratham ǀ na ǀ krantaḥ ǀ apasā ǀ bhurijoḥ ǀ ṛtam ǀ yemuḥ ǀ su-dhyaḥ ǀ āśuṣāṇāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.002.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.18.04
- Maṇḍala · Anuvāka · Ṛk
- 04.01.034
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.