Ṛk 4.5.10
Saṃhitā
अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ ।
मा॒तुष्प॒दे प॑र॒मे अंति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥
अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः |
मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ||
ádha dyutānáḥ pitróḥ sácāsā́manuta gúhyam cā́ru pṛ́śneḥ ǀ
mātúṣpadé paramé ánti ṣádgórvṛ́ṣṇaḥ śocíṣaḥ práyatasya jihvā́ ǁ
adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ |
mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā ||
Padapāṭha
अध॑ । द्यु॒ता॒नः । पि॒त्रोः । सचा॑ । आ॒सा । अम॑नुत । गुह्य॑म् । चारु॑ । पृश्नेः॑ ।
मा॒तुः । प॒दे । प॒र॒मे । अन्ति॑ । सत् । गोः । वृष्णः॑ । शो॒चिषः॑ । प्रऽय॑तस्य । जि॒ह्वा ॥
अध । द्युतानः । पित्रोः । सचा । आसा । अमनुत । गुह्यम् । चारु । पृश्नेः ।
मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्रऽयतस्य । जिह्वा ॥
ádha ǀ dyutānáḥ ǀ pitróḥ ǀ sácā ǀ āsā́ ǀ ámanuta ǀ gúhyam ǀ cā́ru ǀ pṛ́śneḥ ǀ
mātúḥ ǀ padé ǀ paramé ǀ ánti ǀ sát ǀ góḥ ǀ vṛ́ṣṇaḥ ǀ śocíṣaḥ ǀ prá-yatasya ǀ jihvā́ ǁ
adha ǀ dyutānaḥ ǀ pitroḥ ǀ sacā ǀ āsā ǀ amanuta ǀ guhyam ǀ cāru ǀ pṛśneḥ ǀ
mātuḥ ǀ pade ǀ parame ǀ anti ǀ sat ǀ goḥ ǀ vṛṣṇaḥ ǀ śociṣaḥ ǀ pra-yatasya ǀ jihvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.005.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.02.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.081
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.