Ṛk 4.5.12
Saṃhitā
किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् ।
गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥
किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् |
गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ||
kím no asyá dráviṇam káddha rátnam ví no voco jātavedaścikitvā́n ǀ
gúhā́dhvanaḥ paramám yánno asyá réku padám ná nidānā́ áganma ǁ
kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān |
guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma ||
Padapāṭha
किम् । नः॒ । अ॒स्य । द्रवि॑णम् । कत् । ह॒ । रत्न॑म् । वि । नः॒ । वो॒चः॒ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।
गुहा॑ । अध्व॑नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु॑ । प॒दम् । न । नि॒दा॒नाः । अग॑न्म ॥
किम् । नः । अस्य । द्रविणम् । कत् । ह । रत्नम् । वि । नः । वोचः । जातऽवेदः । चिकित्वान् ।
गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । निदानाः । अगन्म ॥
kím ǀ naḥ ǀ asyá ǀ dráviṇam ǀ kát ǀ ha ǀ rátnam ǀ ví ǀ naḥ ǀ vocaḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǀ
gúhā ǀ ádhvanaḥ ǀ paramám ǀ yát ǀ naḥ ǀ asyá ǀ réku ǀ padám ǀ ná ǀ nidānā́ḥ ǀ áganma ǁ
kim ǀ naḥ ǀ asya ǀ draviṇam ǀ kat ǀ ha ǀ ratnam ǀ vi ǀ naḥ ǀ vocaḥ ǀ jāta-vedaḥ ǀ cikitvān ǀ
guhā ǀ adhvanaḥ ǀ paramam ǀ yat ǀ naḥ ǀ asya ǀ reku ǀ padam ǀ na ǀ nidānāḥ ǀ aganma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.005.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.03.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.083
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.